________________
मूलं- ६९७
सुसम्भृतं अहो । स्निग्धं सुपकं सुरसमित्येनं प्रशंसन्नाहारयति, तत्पुनर्भवति भोजनं सधूम् यत्तद्गतविरूपरसगन्धास्वादतो जाततद्विषयव्यलीकचित्तः सन् अहो । विरूपं कथितमपकमसंस्कृतमलवणं चेति निन्दन्नाहारयति, अयंचात्रभावार्थ:, - इहद्विविधा अङ्गाराः, तद्यथा द्रव्यतोभावतश्च, तत्रद्रव्यतः कुशानुदग्धाः खदिरादिवनस्पतिविशेषाः, भावतो रागाग्निना निर्दग्धं चरणेन्धनं । धूमोऽपिद्विधा, तद्यथा- द्रव्यतोभावतच, तत्रद्रव्यतोयोऽर्द्धदग्धानां काष्ठानां सम्बन्धी, भावतो द्वेषाग्रिनादह्यमानस्य चरणेन्धनस्यसम्बन्धीकलुषभावो निन्दात्मकः, ततः सहाङ्गारेणचद्रर्त्तते तत्साङ्गारं, धूमेन सह वर्त्तते यत्तत्सधूमं । सम्प्रत्यङ्गारधूमयोर्लक्षणणाहमू. (६९८) अंगारत्तमपत्तं जलमाणं इंधनं सधूमं तु । अंगारत्ति पुवच्चइ तं चिय दहुं गए घूमे ॥
वृ. अङ्गारत्वमप्राप्तं ज्वलदिन्धनं सधूममुच्यते, तदेवेन्धनं दग्दं घूमे गते सत्यङ्गारः इति, एवमिहापि चरणेन्धनं रागाग्निना निर्दग्धं सदङ्गारं इत्युच्यते . द्वेषाग्निना तु दह्यमानं चरणेनन्धनं सधूमं .. निन्दात्मकलुषभावरूपधूमसम्मिश्रत्वात् । एतदेव भावयति
मू. (६९९)
रागग्गिसंपत्तिो भुंजतो फासूयंपि आहारं । निद्दड्डुंगालनिभं करेइ च रणिधणं खिप्पं ॥
वृ. प्रासुकमप्याहारं भुञ्जानो रागाग्रिसम्पदीप्तचरणेन्धनं निर्दग्धाङ्गारनिभं क्षिप्रं करोति । मू. (७००) दोस्सग्गीवि जलंतो अप्पत्तियधूमधूमियं चरणं ।
अंगारमत्तसरिसं जा न हवइ निद्दही ताव ॥
वृ. द्वेषाग्निरपि ज्वलन् 'अप्रीतिरेव' कलुषभाव एव घूमः अप्रीतिघूमः तेन घूमितं 'चरणं' चरणेन्धनं यावदङ्गारमात्रसदृशं न भवति तावन्निर्दहति । तत इदमागतं -
मू. (७०१)
रागेण सइंगालं दोसेण सधूमगं मुणेयव्वं ।
छायालीसं दोसा बोद्धव्वा भोयणविहीए ॥
४१३
वृ. रागेणऽऽध्मातस्ययद्भोजनंतत्साङ्गारंचरणेन्धनस्याङ्गारभूतत्वान्, द्वेषेणाऽऽध्मातस्यतुयद्भोजनं तत्सघूमं, निन्दात्कलकलुषभावरूपघूमसिम्मिश्रत्वात् । तदेवं भोजनविधौ सर्वसङ्गयया षट्चत्वारिंशद्दोषा बोद्धव्याः, तद्यथा - पञ्चदश उद्गमदोषाः, अध्यवपूरकस्य मिश्रजातेऽन्तर्भावविवक्षणात्, षोडश उत्पादनादोषा दश एषणादोषाः संयोजनादीनां च पञ्चकमिति । कीदृशः पुनराहारः साधुना भोक्त व्य इत्याहमू. (७०२) आहारंति तवस्सी विगइंगालं च विगयधूमं च।
ज्ञानज्झयणनिमित्तं सुवएसो पवयणस्स ॥
वृ. 'तपस्विनः' यथोक्ततपोऽनुष्टाननिरता आहारयन्ति भोजनं विगताङ्गारं रागाकरणात, विगतघूमं चद्वेषाकरणात, तदपिननिष्कारणं किन्तु ध्यानाध्ययननिमित्तम्, एष उपदेशः प्रवचनस्य' भगवच्छासनस्य । तदेवमुक्तं साङ्गारं सधूमद्वारम्, अधुना कारणद्वारमाह
मू. (७०३)
छ कारणेहिं साधू आहारितोऽवि आयरइ धम्मं ।
छहिं चैव कारणेहिं निज्जूहिंतोऽवि आयर ॥
वृ. षड्भिः कारणैर्वक्ष्यमाणस्वरूपैः साधुराहारन्नप्याहारमाचरति धर्मः, षड्भिरेव च कारणैर्वक्ष्यमाणस्वरूपैर्भोजनाकरणनिबन्धनेः 'निज्जूर्हितोऽवि' त्तिपरित्यजन्नप्याचरतिधर्मं । तत्रयैः षड्भिः कारणैराहारमाहारयति तानि निर्दिशति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org