________________
पिण्डनियुक्तिः-मूलसूत्रं - मू. (७०४) . वेयण वेयावच्चे इरियट्ठाए य संजमट्ठाए।
तह पानवत्तियाए छठे पुन धम्मचिंताए। व.इहपदैकदेशेपदसमुदायोपचारात् वेयण'त्तिक्षुद्वेदनोपशमनाय,तथाऽऽचार्यादीनांवैयावृत्यकरणाय, तथर्यापथसंशोधनार्थ, तथा प्रेक्षादिसंयमनिमित्तं, तथा 'प्राणप्रत्ययार्थ' प्राणसन्धारणार्थं, षष्ठं पुनः कारणं 'धर्मचिन्तार्थं धर्मचिन्ताऽभिवृद्धयर्थं मुञ्जीतेति क्रियासम्बन्धः । एनामेव गाथां गाथाद्वयेन विवृण्वन्नाहमू. (७०५) नत्थि छुहाए सरिसा वियणाभुजेज तप्पसमणट्टा।
छाओवेयावञ्चनतरइकाउंअओभुजे॥ मू. (७०६) इरिअंनऽवि सोहेई पेहाईअंचसंजमं काउं।
थामो वा परिहायइ गुणऽनुप्पेहासुअअसत्तो॥ वृ.नास्ति क्षुधा-बुभुक्षया सदृशी वेदना. उक्तं च
पंथसमा नत्थि जरा दारिदसमो यपरिभवा नत्थि। __ मरणसमं नित्थभयं छुहासमा वेयणा नत्थि॥ तंनात्थिन वाहइ निलतुसमित्तंपि एत्थ कायस्स।
सन्निझंसव्वदुहाइर्देति आहारराहियस्स। 'तत्प्रशमनार्थ' क्षुद्वेदनोपशमनार्थं मुञ्जीत, तथा छातो बुभुक्षितःसन्वैयावृत्यंनशक्नोतिकर्तुं, तथा चोक्तं -गलइबलं उच्छाहो अवेइ सिढिलेइ सयलवावारे। नासइ सत्तं अरई विवड्डए असणरहियस्स॥ ___अतो वैयावृत्यकरणाय भुञ्जीत । तथा बुभुक्षितः सन्नीर्यापथं न विशोधयति, अशक्त त्वात्, अतस्तच्छोधननिमित्तं वाऽश्नीयात्, तथा क्षुधातः सन् न प्रेक्षादिकं संयमं विधातुमलमतःसंयमाभिवृद्धयर्थं भुञ्जीत, तथा स्थाम बलं प्राण इत्येकोऽर्थः, तद्भुभुक्षितस्य 'परिहीयते' परिहानिंयाति ततोऽश्नीयात्, तथा गुणनंग्रन्थपरावर्तनमनुप्रेक्षा-चिन्तातयोः, उपलक्षणमेतते,वाचनादिष्वपिबुभुक्षितःसन्अशक्तः-असमर्थो भवति ततोऽश्रीयात्। इत्यंभूतैश्चषभिःकारणैः समग्रैरन्यतमेव वा कारणेनाहारयन्नातिक्रामतिधर्ममिति। मू. (७०७) अहव न कुज्जाहारं, छहिं ठाणेहिं संजए।
पच्छा पच्छिमकालंभि, काउं अप्पक्खमंखमं॥ वृ. अथवा षभिः स्थानैःवक्ष्यमाणस्वरूपैः संयत आहारं न कुर्यात, तत्र विचित्रा सूत्रगति रिति षष्ठं शरीरव्यवच्छेदलक्षणकारणंव्याख्यानयति पच्छा' इत्यादि,पश्चात-शिष्यनिष्पादनादिसकलकर्त्तव्यानन्तरं 'पश्चिमे काले' पाश्चात्ये वयसि 'अप्यक्खम'त्ति संलेखनाकरणेनात्मानं क्षपयित्वा यावज्जीवानशनप्रत्याख्यानकरणस्य क्षम' योग्यमात्मानं कृत्वा भोजनं परिहरेत, नान्यथा। एतेन शिष्यनिष्पादनाद्यभावे प्रथमे द्वितीय वा वयसि संलेखनामन्तरेण वा शरीरपरित्यागार्थमनश्नन (तः) तत्प्रत्याख्यानकरणे जिनाज्ञाभङ्गमुपदर्शयति। सम्प्रत्यभोजनकारणानि निर्दिशति...मू. (७०८) आयके उवसग्गे, तितिक्खया बंभचेरगुत्तीसु।
. पाणिदया तवहेड, सरीरवोच्छेयणट्टाए। वृ. आतङ्के' ज्वरादावुत्पन्ने सति नमुञ्जीत १, तथा उपसर्गे' राजस्वजनादिकृते देवमनुष्यतिर्यक्कृते वासनातेसति तितिक्षार्थम्' उपसर्गसहनार्थ२,तथा ब्रह्मचर्यगुप्तिष्विति,अत्रषष्ठयर्थेसप्तमी,ततोऽयमर्थःब्रह्मचर्यगुप्तीनां परिपालनाय ३, तथा प्राणिदयार्थं ४, तथा तपोहेतोः' तपःकारणनिमित्तं५, तथा चरमकाले
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org