________________
४१२
पिण्डनिर्युक्तिः- मूलसूत्रं
शाकाम्लफलपिण्याककपित्थलवणैः सह । करीरदधिमत्सैश्च, प्रायः क्षीरं विरुध्यते ॥ इत्यादि, अविरुद्धद्रव्यमीलनं पुनः पथ्यं, तच 'रोगहरं' प्रादुर्भूतरोगविनाशकरं, न च भाविनो रोगस्य 'हेतुः' कारणम्, उक्तं च
अहिताशनसम्पर्कात्' सर्वरोगोद्भवो यतः । तस्मात्तदहितं त्याज्यं, नाय्यं पथ्यनिषेवणम् ॥ मू. (६९२) अद्धमसणस्स सव्वंजनस्स कुज्जा दवस्स दो भागे । वाऊपवियारणट्टा छब्भायं ऊणयं कुज्जा ॥
वृ. इहकिल सर्वमुदरंषभिर्भागैविभज्यते, तत्रचार्द्धेभागत्रयरूपमशनस्य सव्यञ्जनस्य-तकशाकादिसहितस्याधारं कुर्यात्, तथा द्वौ भागौ द्रव्यस्य पानीयस्य, षष्ठं तुं भागं वायुप्रविचारणार्थमूनं कुर्यात् । इह कालपेक्षया तथा तथाऽऽहारस्य प्रमाणं बवति, कालश्च त्रिधा, तता चाह
मू. (६९३)
सिओ उसिणो साहारणो य कालो तिहा मुणेयव्वो । साहारणमि काले तत्थाहारे इमा मत्ता ॥
वृ. त्रिधाकालो ज्ञातव्यः, तद्यथा - शीत उष्णः साधारणश्च, तत्रतेषु कालेषु मध्ये साधारणेकाले ‘आहारे' आहारविषया ‘इयम्' अनन्तरोक्ता 'मात्रा' प्रमाणं
मू. (६९४)
सी दवस एगो भत्ते चत्तारि अहव दो पाने । उस दवस दोन उ तिन्नि वा सेसा उभत्तस्स ॥
वृ. 'शीते' अतिशयेन शीतकाले 'द्रव्यस्य' पानीयस्यैको भागः कल्पनीयः, चत्वारः 'भक्ते ''भक्तस्य', मध्यमे तु शीतकाले द्वौ भागौ पानीयस्य कल्पनीयौ त्रयस्तु भागा भक्त स्य, वाशब्दो मध्यमशीतकालसंसूचनार्थः, तथा 'उष्णे'मध्यमोष्णकाले द्वौ भागौ ' द्रवस्य' पानीस्यकल्पनीयौ, शेषास्तुत्रयो भागाभक्त स्य, अत्युष्णे च काले त्रयो भागा द्रवस्य शेषौ द्वौ भागौ भक्तस्य, वाशब्दोऽत्रात्रात्युष्णकालसंसूचनार्थः, सर्वत्र षष्ठो भागो वायुप्रविचारणार्थं मुत्कलो भोक्तव्यः । सम्प्रति भागानां स्थिरचरविभागप्रदर्शनार्थमाहमू. (६९५) गोदवस भागो अवट्टितो भोयणस्स दो भागा ।
वत व हायंति व दोदो भागां उ एक्केक्वे ॥
वृ. एको द्रवस्य भागोऽवस्थितो द्वौ भागौ भोजनस्य, शेषौ तौ द्वौ द्वौ भागौ एकैकस्मिन्, भक्ते पाने चेत्यर्थः, वर्द्धेते वाहीयेते वा, वृद्धिवाव्रजतो हानिंवाव्रजतइत्यर्थः तथाहि अतिशीतकाले द्वौ भागौ भोजनस्य वर्द्धते अत्युष्णकाले च पानीयस्य अत्युष्णकाले च द्वौ भागौ भोजनस्य हीयते अतिशीतकाले च पानीयस्य । एतदेव स्पष्ट भावयति
मू. (६९६)
'एत्थ तड्यचउत्था दोन्निय अनवट्टिया भवे भागा ।
पंचमछट्टो पढमो बिइओऽवि अवट्टिया भागा ।।
वृ. आहारविषयां तृतीयचतुर्यो भागवनवस्थिती, तौ ह्यतिशीतकाले भवतोऽप्युष्णकाले च न भवतः, तथायःपानविषयः, पञ्चमो भागो यञ्चवायुप्रविचारणार्थं षष्ठो भागःयौ चप्रथमद्वितीयावाहरविषयौ एते सर्वेऽपि भागा अवस्थिताः, न कदाचिदपि न भवन्तीति भावः । तदेवमुक्तं प्रमाणद्वारम्, अथ साङ्गारसधूमद्वारमाहमू. (६९७) तं होइ सइंगालं जं आहारेइ मुच्छिओ संतो।
तं पुन हो सधूमं जं आहारेइ निंदतो ॥
वृ. तद्भवतिभोजनसाङ्गारंयत्तद्गतविशिष्टगन्धरसास्वादवशतो जाततद्विषयमूर्च्छः सन्नहो। मिष्टंअहो ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org