________________
३८६
मुआना यतिस्तृतीये भङ्गे वर्त्तत । अत्र पर आहमू. (५७१)
इसका दोसकरी एवं सुद्धंपि होइ अविसुद्धं । . निस्संकमेसियंति य अनेसणिज्जंपि निद्दोसं ॥
पिण्डनियुक्तिः- मूलसूत्रं
,
वृ. यदि शङ्का दोषकारी तत एवं सतीदमायातं शुद्धमपि शङ्कितं सत् तदशुद्धं भवति, शङ्कदोषदुष्टत्वात्, तथा अनेषणीयमपि निःशङ्कितमन्वेषितं सुद्धं प्राप्नोति, शङ्कारहितत्वात्, न चैवं युक्तं खभावतः शुद्धस्याशुद्धस्य वा शङ्काभावाभावमात्रेणान्यथा कर्तुमशक्यत्वात् । अत्र आचार्य आह-सत्यमेतत्, तथाहिमू. (५७२) अविसुद्ध परिणामो एयगरे अवडिओ य पक्खमि । एसिंपि कुणइ नेसि अनेसिमेसिं विसुद्धो ॥
वृ. अविशुद्धः परिणामः ' अध्यवसायः किं, रूपोऽविशुद्धः ? इत्याह-एकतरस्मिन्नपि शुद्धमेवेदंभक्तादिकं यदिवाऽशुद्धमेवेत्यन्यतरस्मिन्नपिपक्षेऽपतन् 'एसिंपि' त्तिएषणीयमपि शुद्धमपिकरोति अनेषणीयम् - अशुद्धं. विशुद्धस्तु परिणामो ययोक्ताऽऽगमविधिना गवेषयतः शुद्धमेक्देमित्यध्यवसायः अनेषणीयमपि - स्वभावतोऽशुद्धमपि शुद्धं करोति, श्रुतज्ञानस्य प्रामाण्यत्, तस्मान्न कश्चित् प्रागुक्तो दोषः । दुविहं च मक्खियं खलु सच्चित्तं चेव होइ अच्चित्तं ।
मू. (५७३)
सच्चित्तं पुण तिविहं अञ्चित्तं होइ दुविहं तु ॥
वृ. म्रक्षितं द्विधा, तद्यथा - सचित्तमचित्तं च, सचितम्रक्षितमचित्तम्रक्षितं चेत्यर्थः, तत्र यत्सचितेन पृथिव्यादिनाऽवगुण्डितं तत्सचितं, यत्पुनरचितेन पृथिवीरजःप्रभृतिनाऽवगुण्डितं तदचित्तं, तत्र 'सचित्तं '' सचित्तम्रक्षितं पुनस्त्रिधा । एतदेव व्याख्यानयति
मू. (५७४)
पुढवी आउ वणस्सइ तिविहं सचित्तमक्खियं होइ ।
अच्चित्तं पुण दुविहं गरहियमियरे य भयणाउ ।
वृ. सचित्तम्रक्षितं त्रिधा, तद्यथा- पृथिवीकायम्रक्षितपमप्कायण्रक्षितं वनस्पतिकायम्रक्षितं च, सुत्रे च पदैकदेशे पदसमुदायोपचारात् पृथिव्यादिमिश्रितं पृथिवीत्याद्युक्तम् । अचित्तं अचित्तम्रक्षितं पुनर्द्विविधं, तद्यथा - गर्हितमितरच्च, तत्र' गर्हितं ' वसादिना लिप्तम्, इतरद्धृतादिना, अत्रच कल्प्याकल्प्यविधौ 'भजना' विकल्पना, सा चाग्रे वक्ष्यते । सम्प्रति सचित्तपृथिवीकायम्रक्षितं प्रपञ्चतो भावयति
मू. (५७५)
Jain Education International
सुक्केण सरक्खेणं मक्खिय मोल्लेण पुढविकाएण ।
सव्वंपि मक्खियं तं एत्तो आउंमि वोच्छामि ॥
वृ. sह सचित्तपृथिवीकायां द्विधा, तद्यथा-शुष्क आर्द्रच, तत्र शुष्केण सरजस्केनातीव श्लक्ष्णतया भस्मकल्पेन यद्देयं पात्रं हस्तो वा म्रक्षितो यच्चार्द्रेण पृथिवीकायेन सचित्तेन म्रक्षितं तत्सवं हस्तादि प्रक्षितंसचित्तपृथिवीकायम्रक्षितमवगन्तव्यं, अत ऊर्द्धमप्कायविषयं म्रक्षितं वक्ष्यामि
मू. (५७६ / १)
पुरपच्छकण ससिणिछुउल्ले चउरो आउभेयाओ।
वृ. अप्काये - अप्कायम्रक्षिते चत्वारो भेदाः, तद्यथा- पुरः कर्म पश्चात्कर्म सस्निग्धमुदकाद्रे च तत्र भक्तादेर्दानात् पूर्वं यत्साध्वर्थ कर्म हस्तमात्रादेर्जलप्रक्षालनादिक्रियते तत्पुरःकर्म। यत्पुन-भक्तादोर्दानात्पश्चात्क्रियतेतत्पश्चात्कर्म । सस्निग्धम् - ईषलक्ष्यमाणजलखरण्टितं हस्तादि, उदकार्दंस्पष्टोपलभ्यमानसंसर्ग | सम्प्रति वनस्पत्तिकायम्रक्षितं प्रपञ्चयति
मू. (५७६/२)
उक्किट्टर सालित्तं परित्तनंतं महिरुहेसु ॥
For Private & Personal Use Only
www.jainelibrary.org