________________
३८७
मूलं-५७६/२
वृ. उत्कृष्टरसानि' प्रचुरसोपेतानियानि परित्तानां प्रत्येकवनस्पतीनांचूतफलादीनाम्,अनन्तानाम्अनन्तकायिकानां च पनसफलादीनां सद्यःकृतानि श्लक्ष्णखण्डांनि इति सामर्थ्याद्गम्यत्तैः, तैः 'आलिप्तं' खरण्टितं यद्धस्तादि, तन्महीरहेषु, अत्र च तृतीयार्थे सप्तमी, महीरुहैम्रक्षितमवसेयं, 'परित्तनंत' इत्यत्र प्राकृतत्वाद्विभक्ति वचनव्यत्यय इति षष्ठीबहुवचनं व्याख्यातं। मू. (५७७) सेसेहिं काएहिं तीहिवि तेऊसमीरणतसेहि।
सचित्तं मीसंवा न मक्खितं अत्थि उल्लं वा॥ वृ.शेषैस्तेजःसमीरणत्रसरूपैस्त्रिभिरिपिसचित्तरुपंमिश्ररूपमार्द्रतारूपंवाम्रक्षितंनभवति,सचित्तादितेजस्कायादिसंसर्गेऽपि लोके मक्षितशब्दप्रवृत्त्यदर्शनात्, अचितैस्तु तैर्मस्मादिरूपैः पृथिवीकायेनेव मेक्षितत्वसम्भव इति न तस्य प्रतिधेनः, वातकायेनत्वचित्तेनापि न म्रक्षितत्वं घटते, तथा लोके प्रतीत्यभावात।सम्प्रतिसचित्तपृथिवीकायादिम्रक्षितेहस्तमात्रेआश्रित्यभङ्गान्कल्प्याकल्प्यविधिंचप्रतिपादयतिमू. (५७८) सचित्तमक्खियंमी हत्थे मत्ते य होइ चउमंगो।
___ आइतिए पडिसेहो चीरमे भंगे अणुन्नाओ॥ वृ. 'सचित्तैः' पृथिवीकायादिमिर्मक्षिते हस्ते माक्षे च 'चतुर्भङ्गी' चत्वारो बङ्गाः, सूत्रे च पुंस्त्वनिर्देश आर्षत्वात, ते चचत्वारो भङ्गा अमी, तद्यथा-हस्तो प्रक्षितो मात्रं च, हस्तो मेक्षितो न मात्रं, मात्र म्रक्षितं न हस्तः, नापिमानापिहस्तःतत्राऽऽदिमेभङ्गत्रिकेप्रतिवेधोः,नकल्पतेगृहीतुमितिभावः, चरमेभङ्गेपुनरनुज्ञातो यतिस्तीर्थकरगणधरैः, तत्र दोषाभावात्। अचित्तम्रक्षितस्माश्रित्य कल्पाकल्प्यविधिमाहमू. (५७९) अचित्तमक्खियंमि उचउसुवि भंगेसु होइ भयणा उ।।
अगरहिएण उगहणं पडिसेहो गरहिए होइ॥ वृ.अचित्तम्रक्षितेऽपिहस्तमात्रेअधिकृत्यप्राग्वच्चत्वारोभङ्गा,तत्रचचतुर्ध्वपिभङ्गेषु भजना' विकल्पना, तामेवाह 'अगहितेन' लोकानिन्दितेन घृतादिना म्रक्षिते ग्रहणं, तु वसादिना म्रक्षिते भवति प्रतिषेधः, तत्रापि चतुथो भङ्गः शुद्ध एवेति ग्रहणम्।अगर्हितम्रक्षितमप्यधिकृत्य विशेषमाहमू. (५८०) संसज्जिमेहिं वजं अगरहिएहिपि गोरसदवेहि।
महुघयतेल्लुगलेहि यमा मच्छिपिपीलियाधाओ॥ वृ.संसक्ति मद्भ्यां तन्मध्यनिपतितजीवयुक्ताभ्यां गोरसद्रवाभ्यां' दध्यादिपानकाभ्यामगर्हिताभ्यामपि मक्षितं म्रक्षिताभ्यां हस्तमात्राभ्यां वा दीयमानं 'वयं' परिहार्य, न ग्रहीतव्यमित्यर्थः, तथा मधुघृततैलद्रवगुडैरगर्हितैरपि म्रक्षितं म्रक्षिताभ्यां वा हस्तमात्राभ्यां दीयमानं वज्ये, कृत इत्याह- 'मा मच्छिपिपीलियाधाओ' मामक्षिकापिपीलिकानाम, उपलक्षणमेतत्.पतङ्गादीनांवातादिवशतोलग्नानांधातो. विनाशाभूदितिकृत्वा एतश्चोत्कृष्टानुष्ठानंजिनकल्पिकाद्यधिकृत्योक्त मवसेयं,स्थविरकल्पिकास्तुयथाविधि यतनया धृताऽपि गुडादिक्षितमशोकवाद्यपि च गृह्यन्ति। सम्प्रति गर्हितागर्हितविशेषमाहमू. (५८१) मंसवससोणियासव लोए वा गरहिएहिवि वज्नेज्जा।
उभओऽवि गरहिएहिं मुत्तुच्चारेहिं छित्तंपि॥ वृ. मांसवसाशोणितासवैः अत्र सूत्रे विभक्ति लोप आर्षत्वात्. लोके गर्हितैरपि, वाशब्द: पूर्वापेक्षया समुच्चये म्रक्षितं वर्जयेत्, तथा उभयस्मिन्नपि लोके लोकोत्तरे चगर्हिताभ्यां मूत्रोच्चाराभ्यामास्तांम्रक्षितं स्पृष्टमपि वर्जयेत् । उक्त प्रक्षितद्वारम अथ निक्षिप्तद्वारमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org