________________
३८५
मूलं-५६४
वृ.आधाकर्मादय- षोडश उद्गमदोषाः, नवचम्रक्षितादयएषणादोषाः, एतेमिलिता- पञ्चविंशतिः, चरमे तुभङ्गेन ग्रहणे नभोजने इत्येवंरूपे वर्तमानो यतिःशुद्धः, यत इहाशुद्धमपिछद्मस्थपरीक्षया निःशङ्कितंगृहीतं शुद्धं भवतीति। एतदेवोपदर्शयतिमू. (५६५) छउमत्यो सुयनाणी उवउत्तो उज्नुओ पयत्तेणं।
- आवन्नो पणवीसं सुयनाणपमाणओ सुद्धो॥ वृ. छद्मस्यः श्रुतज्ञानी 'ऋजुकः' मायारहितः ‘प्रयत्नेन' यथाऽऽगममादरेण गवेषयन पञ्चविंशतेर्दोषाणामन्य-तमदोषमान्नोऽपि श्रुतज्ञानप्रमाणतः' आगमप्रामाण्येनशुद्धः । एनमेवार्थ स्पष्टयति. म.(५५६) ओहोसुओवउत्तो सुयनाणी जइवि गिण्हइ असुद्धं।
तं केवलीविभुंजइ अपमान सुयं भवे इहरा॥ वृ.'ओहो' इत्यत्रप्रथमातृतीयार्थे. ततओधेन-सामान्येन श्रुते पिण्डनियुक्त्यादिरूपेआगमेउपयुक्तः संस्तदनुसारणे कल्प्याकल्पं परिमावयन् श्रुतज्ञानी यद्यपि कथमप्यशुद्धं गृह्याति तथापि तत् केवल्यपि' केवज्ञान्यपिभुङ्क्ते, इतरथा श्रुतज्ञानप्रमाणं भवेत्, तथाहि छद्मस्थः श्रुतज्ञानबलेन शुद्धं गवेषयितुमीष्टे, न प्रकारान्तरेण, तनो यदि केवली श्रुतज्ञानिना यथाऽऽगमं गर्वषितमप्यशुद्धमितिकल्ला न भुञ्जीत ततः श्रुतेऽनाश्वासःस्यादितिनकोऽपिश्रुतंप्रमाणत्वेनप्रतिपद्यते, श्रुतज्ञातस्येचाप्रामाण्येसर्वक्रियाविलोपप्रसङ्गः, श्रुतमन्तरेण छद्मस्थानां क्रियाकाण्डस्य परिज्ञानासम्भवात् ॥ ततः किम् ? इत्याह. मू. (५५७) सुत्तस्स अप्पमाणे चरणाभावो तओ य मोक्खस्स।
.. मोक्खस्सऽविय अभावे दिक्खपवित्ती निरत्था। वृ. सूत्रस्याप्रामाण्ये ‘चरणस्य' चारित्रस्याभावः, श्रुतमन्तरेण यथावत् सावद्येतरविधिप्रतिविषेधपरिज्ञानासम्भवात, चरणाभावे यमोक्षाभावो, च दीक्षा निरार्थिका, तस्या अनन्यार्थत्वात्। सम्प्रति ग्रहणे शङ्कितो भोजनेचे' त्यस्य प्रथमभङ्गस्य सम्मवमाहमू. (५६८) किंतु ह खद्धा भिक्खा दिज्जइ न य तरइ पुच्छिउं हिरिमं।
इअ संकाए घेत्तुं तं,जइ संकिओ चेव॥ वृ.कोऽपिसाधुःस्वभावतोलज्जावान्, भवति,तत्रक्वापिगृहेभिक्षार्थप्रविष्टःसन्प्रचुरांभिक्षालभमानः स्वचेतसिशङ्कते-किमत्रप्रचुरा भिक्षा दीयते? नचलज्जयाप्रष्टं शक्रोति, ततएवंशङ्गया गृहीत्वाशङ्कित एव तद्भुङ्क्ते इति प्रथममङ्गे वर्तते। मू. (५६९) हियएण संकिएणं गहिआ अन्नेण सोहिया साय।
पगयं पहेणगं बोउं निस्संकिआ मुंजे ॥ वृ. इह केनापि साधुनालज्जादिना प्रष्टमशक्नुवताप्रथमतः शतिन हृदयन या गृहीता भिक्षा साऽन्येन सङ्घाटकेन शोधिता-यथा प्रकृतं' प्रकरणं किमपि प्राधूर्णभोजनादिकं, यदिवा प्रहेणकं कुतचिदन्यस्माद्गृहादायातमिति, ततो द्वितीयसङ्घाटकादेतच्छुत्वा यो निःशङ्गितो भुङ्क्ते स द्वितीये भङ्गे वर्तते। मू. (५७०) जारिसए श्चिय लद्धा खद्वा भिक्खा मए अमयगेहे।
.. अन्नेहिवि तारिसिया वियडंत निसामए तइए। वृ.इहकोऽपिसाधुर्लब्धप्रचुरभिक्षाको विकटयतां-गुरोरग्रतःसम्यगालोचयतामालोचनाश्रवणेसति शङ्कते-यादृश्येवमयाभिक्षाप्रचुरालब्धातादृश्येवान्यैरपिसङ्घाटकः, तन्नूनमेतदाधाकर्मादिदोषदुष्टंभविष्यतीति 26 1 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org