________________
३८४
पिण्डनिर्युक्तिः - मूलसूत्रं
अप्रशस्ता च, तत्र प्रशस्ता- सम्यग्ज्ञानादिविषया, अप्रशस्ता-१ - शङ्कितादिदोषदुष्टमक्त पानादिविषया, साच ‘दशपदा’ वक्ष्यमाणशङ्कितादिभेदैर्दशप्रकारा । तत्र वानरयूथोदाहरणं रूपकत्रयेण भावयतिपडिसडियपंडुपत्तं वनसंडं दट्टु अन्नहिं पेसे । जूहवई पडियरे जूण समं तहिं गच्छे ॥ सयमेवालोएडं जूहवई तं वनं समंतेन । नालेन पियह पानीयं नेस निक्कारणो दहो ।
मू. (५५९)
मू. (५६०)
वृ. विशालशृङ्गो नाम पर्वतः, तत्रेकस्मिन् वनखण्डे वानरयूथमभिरमते, अथ च तत्रैव पर्वते द्वितीयमपि वनखण्डंसर्वपुष्पफलसमृद्धं समस्ति, परंतन्मध्यभागवर्तिनि देशिशुमारोऽवतिष्ठते, सयत्किमपिमृगादिकं पानीयाय प्रविशति तस्सर्वमाकृष्य भक्षयति, अन्यदा च तद्वनखण्डं परिशटितपाण्डुपत्रमपगतपुष्पफलमवलोक्य यूथाधिपतिरन्यस्य वनखण्डस्य निर्वाहसमर्थस्य गवेषणाय वानरयुगलं प्रेषितवान, गवेषयित्वा चतेनयूथाधिपतेर्निवेदितम्-अस्तिवनखण्डममुकप्रदेशे सर्वर्त्तुपुष्पफलपत्रसमृद्धमस्माकं निर्वाहयोग्यं, ततो यूथाधिपतिः सहयूथेनतत्रगवतान्, परिभावयितुं, चप्रवृत्तः समन्तस्तद्वनखण्डं, ततो दृष्टस्तन्मध्येजलपरिपूर्णो हदः परं तत्र प्रविशन्ति श्वापदानां पदानि दृश्यन्ते, निर्गच्छन्ति, ततो यूथमाहूय यूथाधिपतिरुवाच मात्र यूयं प्रविश्य विषय पानीयं, किन्तु तटस्थिता एव नालेन पिबथ, यतो नैष हदो निष्कारणो- निरुपद्रवः, तथाहिमृगादीनामत्र पदानि प्रविशन्ति दृश्यन्ते न निर्गच्छन्तीति, एवं चोक्ते यैस्तद्वचः कृतं ते वानराः स्वेच्छाविहारसुखभाजिनोजाताः, इतरेतुविनष्टाः । उक्ताद्रव्यगहणैषणा, सम्प्रतिभावग्रहणैषणा वक्तव्या, तथा चाधिकारोऽप्रशस्तया, पिण्डदोषाणां वक्तुं प्रकान्तत्वात्, सा च शङ्गितादिभेदाद्दशप्रकारासंकिय मक्खिय निक्खत्त पिहिय साहरिय दायगुम्मीसे ।
मू. (५६२)
अपरिणय लित्त छड्डिय एसणदोसा दस हवंति ।।
वृ. ‘शङ्कितं' सम्भाविताधाकर्मादिदोषं 'प्रक्षिप्तं ' सचित्तपृथिव्यादिनाऽवगुण्डितं ' निक्षिप्तं' सचित्तस्योपरि स्थापितं ‘पिहितं' सचित्तेन स्थगितं 'सह्यतम्' अन्यत्र क्षिप्तं 'दायक' दायकदोषदुष्टम्, 'उन्मिश्रितं' पुष्पादिसम्मिश्रम् 'अपरिणतम्' अप्रासुकीभूतं लिप्तं, 'छर्दितं ' भूमावा वेडितं, एते दश एषणादोषा भवन्ति । मू. (५६३) संकाए चउभंगो दोसुवि गहणे य भुंजणे लग्गो ।
जं संकियमावन्नो पणवीसा चरिमए सुद्धो ॥
वृ. 'शङ्काया' शङ्किते 'चतुर्भङ्गी' चत्वारो भङ्गाः, सूत्रे च पुंस्तनिर्देश आर्षत्वात्, सा चेयं चतुर्भङ्गी-ग्रहणे शङ्किता भोजने चेति प्रथमो भङ्गः, ग३हणे शङ्कितो न भोजने इति द्वितीयः, भोजने शङ्कितो न ग्रहणे इति तृतीयः न ग्रहणेन भोजने इतिचतुर्थः, अत्रदोषानाह- 'दोसुवी' त्यादि, द्वयोरपिशङ्गितस्यग्रहणभोजनयोरपियोवर्त्ततेयश्च ग्रहण यत्ति ग्रहमंत्र्र्थापत्त्या न भाजने तथा भोजने सामर्थ्यान्न ग्रहणं स सर्वोऽपि 'लग्नो' दोषेण सम्बन्धः, केन दोषेण ?, इत्याह- 'जं संकिय' इत्यादि, षोडशो द्रमदोषनवैषणादापरूपाणां पञ्चविंशतिदोषाणां मध्ये येन दोषेण शङ्कितं सम्भावितमापन्नः-वर्त्तते तेन दोषेण सम्बद्धः, इदमुक्तं भवति यदाधाकर्मत्वेन शङ्गितं तद् गृह्यानो भुआनो वाऽऽधाकर्मदोषेण सम्बध्यते, यदि पुनरोद्देशिकत्वेन तत औद्देशिकेनेत्यादि, चरमं चतुर्थभङ्ग पुनर्वर्त्तमानः शुद्धो, न केनापि दोषेण सम्बध्यते इत्यर्थः । इह पणवीसा' इत्युक्तं ।
मू. (५६४)
उग्गमदोसा सोलस आहाकम्माइ एसणादोषा । · नव मक्खियाइ एए पणवीसा चरिमए सुद्धो ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org