SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ मूलं-५५३ ३८३ ... वृ.संयुगंनामनगरं तत्रसिंधुराजोनामराजा.तस्यसकलान्तःपुरप्रधानेद्वेपत्न्या. तद्यथा-श्रृङ्गारमतिजयसुन्दरीच.तत्रान्यदाबभूवशृङ्गारमतेर्गर्भाधानं,इतराचजयसुन्दरीनूनमस्या:पुत्रोभविष्यतीतिविचिन्त्य मात्सर्यवशादधृतिकुर्वत्यवतिष्ठते,अत्रान्तरेचसमागतःकोऽपिसाधुः, तेनसापपृच्छे-किंभद्र।त्वमधृतिमती दृश्यसे?,ततःसातस्मैसपत्न्याव्यतिकरमचकथन, साधुरप्यब्रवीत्-माकार्षीरधृति, तवापिगर्भाधानमहं करिष्ये, ततस्तयोक्तं -भगवन् । यद्यपि युष्मत्प्रसादेन मे पुत्रो भावी, तथाषि स कनिष्ठत्वेन यौवराज्यं न प्राप्यस्यति, किन्तु सपत्न्या एव सुतः, तस्ज्येष्ठत्वात्, ततः साधुना तस्या भेषजमेकं गर्भाधानाय दत्तं, अपरं तु दापितं सपत्न्या गर्भशातनायेति। सूत्रं सुगम। नवरमेतन्न कर्त्तव्यं, यतो गर्भशातने साधुकृते इति सतिप्रदूषोभवति,ततःशरीरस्यापि प्रस्तारः विनाशः।सम्प्रति सर्वस्मिन्नपिमूलकर्मणिदोषान्प्रदर्शयतिमू. (५५४) संखडिकरणे काया कामपवित्तिं च कुणइ एगत्थ। एगत्थुद्दाहाई जज्जिय भोगतरायंच॥ वृ. संखडिकरण मातेफंसेज फुलं' तथा 'किंनठविज्ज' इत्यादिगाथाद्वयोक्ते वीवाहकरणे कायाः' पृथिव्यादया विराध्यन्त, एकत्र पुनरक्षतयोनिकत्वकरणे गर्भाधाने च कामप्रवृत्तिं करोति, गर्भाधानाद्वि पुत्रोत्पतौ प्राय इष्टा भवति, ततः काम्या जायते. इति मैथुनसन्ततिः । एकत्र पुनर्गर्भपातने उड्डाहादिप्रवचनमालिन्पात्मविनाशादि,एकत्रपुनःक्षतयोनिकत्वकरणेयावज्जीवंभोगान्तरायं, चशब्दादड्डाहादिच, तदेवमभिहितं मूलकर्म तदाभिधानाञ्च व्याख्याता त्पादनादोषाः, तद्वयाख्याने च समर्थिता गवेषणैषणा। मू. (५५५) एवं तु गविट्ठसा उग्गमउप्पायणाविसुद्धस्स। गहणविसोहिविसुद्वरस होइ गहणं तु पिंडस्स॥ वृ. एवम्' उक्तेनप्रकारेणोद्वमोत्पादनाविशुद्धस्य-उद्गमोत्पादनदोषरहितस्यगवेपितस्यपिण्डस्यग्रहणं भवति 'ग्रहणविशोधिविशुद्धस्य' ग्रहणविषयशङ्कादिदोषाभावेन विशुद्धस्य, नानन्यथा, ततो ग्रहणेषणादोनाषानहं चक्ष्ये इति भावः ते च यत उत्पद्यन्ते तत्समुत्थान् दर्शयतिमू. (५५६) उप्पायणाएँ दोसे साहूउ समुट्ठिए वियाणाहि। गहणेसणाइ दोसे आयपरसमुट्ठिए वोच्छं।। वृ.उत्पादनायादोषान्साधुतःसमुत्थितानविजानीहि,ग्रहणैषणायादोषाँस्त्वात्मपरसमुत्यितान्तानहं वक्ष्ये। तत्र ये आत्मसमुत्वा ये च परसमुत्थास्तान विभागतो दर्शयति. मू. (५५७) दोन्नि उ साहसमुत्था संकिय तह भावओऽपरिणयं च। संसा अट्टवि नियमा गिहिणो यसमुट्ठिए जाण ॥ वृ. द्वौ दाषा साधुसमुत्थिता, तद्यथा-शङ्कितं भावतोऽपरिणतं च. एतश्च द्वयमपि वक्ष्यमाणस्वरूपं, शेषानष्टावपि दोषान गृहिणः समुत्थितान, जानीहि। सम्प्रति ग्रणषणाया निक्षेपमाह. मू. (५५८) नाम ठवणा दविए भावे गहणेसणा मुणेयव्वा। दव्वे वानरजूहं भावमि य दसपया हृति॥ १. चतुर्दा ग्रहणषणा, तद्यथा-नामग्रहणेषणा स्थापनाग्रहणषणा द्रव्यग्रहणेषणा भावग्रहणैषणा च, तत्र नामस्थापने द्रव्यग्रहणैषणाऽपि यावद्भव्यशरीररूपा तावद्गवेषणाबद्वक्तव्या, ज्ञशरीरभव्यशरीव्यतिरिक्तां तु द्रव्यग्रहणैषणामाह-द्रव्ये द्रव्यग्रहणेषणामुदाहरणं वानरयूथं, भावग्रहणैषणा द्विधा, तद्यथा-आगमतो नोआगमतश्च, तत्राऽऽगमतो ज्ञाता तत्र चोपयुक्तः, नोआगमस्तु द्विधा. तद्यथा-प्रशस्ता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003330
Book TitleAgam Suttani Satikam Part 26 Oghniryukti Pindniryukti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages436
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_oghniryukti, & agam_pindniryukti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy