________________
मूल-३६७
आगमनिसीहिगाई नभुजई सावगासंका॥ मू. (३६८) उक्खित्तं निक्खिप्पइ आसगयं मल्लगंमि पासगए।
खामित्तु गया सड्डा तेऽवि यद्वा असढभावा॥ . वृ. क्वचिद्ग्रामे घनावहप्रमुखा बहवः श्रावकाः घनवतीप्रभृतयश्च श्राविकाः, एते च सर्वेऽप्येककुटुम्बवर्तिनः। अन्यदा तेषामावसये वीवाहः समजाने, वृत्ते च तस्मिन् प्रचुरं मोदकाद्युद्धरितं, ततस्तैरचिन्तिपथैतत्साधुभ्यो दीयतां येन महत्पुण्यमस्माकमुपजजायते, अथ च केचित्साघवो दूरेऽवतिष्ठन्ते, केचित्पुनः प्रत्यासन्नाः परमन्तराले नदी विद्यते, ततस्तेऽप्यप्कायविराधनाभयतो नागमिष्यन्ति, आगता अपिचप्रचुर मोदकादिकमवलोक्य कथ्यमानमपि शुद्धमाघाकर्मशङ्कया न ग्रहीष्यन्ति ततो यत्र ग्रामे साघवो निवसन्ति तत्रैव प्रच्छन्नं गृहीत्वा व्रजाम इति, तथैव च कृतं, ततो भूयोऽपि चिन्तयन्ति-यदि साधूनाहूय दास्यामस्ततोऽशुद्धमाशङ्क्य ते न ग्रहीष्यन्ति तस्मात् द्विजादिभ्योऽपि किमपि दद्मः, तच्च तथा दीयमानमपि यदि साधवोनप्रेक्षिष्यन्तेततस्तदवस्थैवतेषामशङ्काभविष्यतिततो यत्रोच्चारादिकार्थं निर्गताःसन्तःसाधवः प्रेक्षन्ते तत्रदद्मइति, एवं चचिन्तयित्वाविवक्षितेकस्मिश्चित्प्रदेशेकस्यचिद्देवकुलस्यबहिर्भागे द्विजादिभ्यः स्तोकस्तोकंदातुमारब्धं,ततउच्चारादिकार्यार्थ विनिर्गताःकेचनसाधवोदृष्टाः, ततस्तेनिमन्त्रितायथाभोः ! साधवः ! अस्माकमुद्धरितं मोदकादि प्रचुरमवतिष्ठते ततो यदि युष्माकं किमप्युपकरोति तर्हि तत्प्रतिगृह्यतामिति, साधवोऽपि शुद्धमित्यवगम्य प्रत्यगृह्णन, तैश्च साधुमिः शेषाणामपि साधूनामुपादेशियथाऽमुकस्मिन् प्रदेशे प्रचुरमेषणीयमशनादि लभ्यते, ततस्तेऽपि तद्रहणाय समाजग्मुः, तत्र चैके श्रावकाः प्रचुर मोदकादिकं प्रयच्छन्ति, अन्ये च मातृस्थानतो निवारयन्ति, यथैतावद्दीयतां माऽधिकं, शेषमस्माकं भोजनायभविष्यति,अन्येपुनस्तानेवनिवारयतःप्रतिषेधयन्ति-यथानकोऽप्यस्माकंभोक्ष्यते,सर्वेऽपिप्रायो भुक्ताः, ततः स्तोकमात्रेण किश्चिदुद्धरितेन प्रयोजनं, तस्माद्यथेच्छंसाधुभ्यो दीयतामिति। ___ साधवश्चये नमस्कारसहितप्रत्याख्यानास्तेभुक्ताः, ये च पौरुषीप्रत्याख्यानास्तेभुञ्जाना वर्तन्ते, ये चाजीर्णवन्तः पूर्वार्द्धादि प्रतीक्षमाणा वर्त्तन्ते ते नाद्यापि भुञ्जते, श्रावकाच चिन्तयामासुः-ग्रथेदानीं साघवो भुक्ता भविष्यन्ति, ततो वन्दित्वा निजस्थानं व्रजाम इति, एवं चिन्तयित्वा समधिकप्रहरवेलाया साधुवसतावागत्यनैषेधिक्यादिकांसकलामपिश्रावकक्रियांकृतवन्तः, ततोज्ञातंयथाऽमीश्रावकाःपरमविवेकिनो, ज्ञाताश्च परम्परया विवक्षितग्रामवास्तव्याः ततः सम्यविमर्शतो निथितं-ननमस्मन्निमित्तमेतत स्वग्रामादभ्याहृतमिति. ततो यैर्भुक्तं तैर्भुक्त मेव, ये त्वद्यापि पूर्वार्द्धादि प्रतीक्षमाणा न भुञ्जते तैर्न भुक्तं, येऽपिचभुआना अवतिष्ठन्ते तैरपि यः कवल उतक्षिप्तः सभाजनेऽमुच्यत, यत्तु मुखे प्रक्षिप्तं नाद्यापि गिलितं तन्मुखाद्विनिःसार्य समीपस्थापित मल्लकें प्रचिक्षिपे, शेषं तु भाजनगतं सर्वमपि परिष्ठापितं, श्रावकाः श्राविकावर्गवसापिक्षमयित्वास्वस्थानंजगाम, तत्रयेभुक्तायेचार्द्धभुक्तास्ते(ऽपि सर्वेऽप्यशठभावा इति शुद्धाः। सूत्रं सुगम, केवलम् अइदूरजलंतरियत्ति केचिदतिदूरे केचिन्नद्याऽन्तरिताः॥ मू. (३६९) लद्धं पहेणगं मे अमुगत्थगयाएँ संखडीए वा।
वंदनगट्ठपविट्ठा दइ तयं पट्ठिय नियत्ता॥ मू. (३७०) नीयं पहेणगं मे नियगाणं निच्छियं व तं तेहिं। .
सागारि सयज्झियं वा पडिकुट्टा संखडे रुट्टा॥ वृ. इह काचिदभ्याहृताशङ्कानिवृत्त्यर्थं किमपि गृह प्रति प्रस्थिता, ततो निवृत्ता सति साधोः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org