________________
३४२
पिण्डनिर्युक्तिः- मूलसूत्रं
प्रतिलाभनायोपाश्रयं प्रविश्य साधुसम्मुखमेवमाह-भगवन् ! प्रहेणकमिदममुकास्मिन् गृहेगतयालब्धं, यद्वा क्वापिसङ्ग्रड्यां,सम्मतिवन्दनार्थमत्रप्रविष्टा, ततो यदियुष्माकमिदमुपकरोतितर्हिप्रतिगृह्यतामितितकदानीतं ददाति,यद्वाएवमाह-‘निजकानां' स्वजनानामर्थाय प्रहेणकं मया स्वगृहात् नीतं, परं तैर्नेप्सितं, ततः स्वजनगृहात् प्रतिनिवृत्ता वन्दनार्थमत्रागतेति, ततस्तद्ददाति । यदिवा मायया काचिदभ्याहृतमानीय सागारिकांशय्यातरीयद्वा‘सइज्झितं' वसतीप्रवेशनीं पूर्वगृहीतसङ्केता यथा साधवः श्रृण्वन्ति तथा प्रवक्ति - गृहाणेदं प्रहेणकमिति, तया च मातृस्थानतः प्रतिषिद्धा यथा त्वयाऽप्यमुकस्मिन् दिने मदीयं प्रहेणकं न जग्रहे ततोऽहमपि त्वदीयं न ग्रहीष्यामीत्येवं निषिद्धा, ततः साऽपि मातृस्थानतः किञ्चित्परुषं प्रत्युक्त वती, द्वितीययाऽपि तथैव भाषितं, तत एवं परस्परं 'संखडे' कलहे सति सा प्रहेणकनेत्री 'रुष्टा' रोषवती वन्दनार्थं वसतौ प्रविशति, ततोऽनन्तरवृत्तं वृत्तान्तं कथयित्वा तदानीं ददाति । उक्तं स्वग्रामाभ्याहृतमपि निशीथं । मू. (३७१) एयं तु अणाइन्नं दुविहंपि य आहडं समक्खायं । आइन्नंपि य दुविहं देसे तह देसदेहे अ ।।
वृ. ‘एतत्' पूर्वोक्त मभ्याहृतंनिशीथनोनिशीथभेदाद्यद्वास्वग्रामपरग्रामभेदाद्विविघमप्याख्यातमनाचीर्णम्-अकल्पनीयं, सम्प्रत्याचीर्णं वक्ष्ये, तदपि द्विविधं, तद्यथा-देशे देशदेशे च ।
मू. (३७२)
हत्थसयं खलु देसो आरेणं होइ देसदेसो य । आइन्नंमि (उ) तिगिहा ते चिय उवओगपुव्वागा ॥
वृ. 'हस्तशतं ' हस्तशतप्रमितं क्षेत्रं देशः, हस्तशतादाराद्धस्तशतमध्ये इत्यर्थः, देशदेशः, तत्र हस्तशतप्रमाणे आचीर्णेयदिगृहाणित्रीणिभवन्तिनाधिकानिततः कल्पते, तान्यपि चेद्गृहाण्युपयोगपूर्वकाणि भवन्ति, उपयोगस्तत्रदातुं शक्यत इत्यर्थः, ततः कल्पते नान्यथेवि । सम्प्रतिगृहत्रयव्यतिरेकेण हस्तशतादिसम्भवं तद्विषयं कल्प्याकल्प्यविधिं चाहमू. (३७३)
परिवेसणपंतीए दूरपवेसो य घंघसालगिहे । हत्थसया आइन्नं गहणं परओ उ पडिकुट्टं ॥ होइyणदेसदेसो अंतो हि सा न दीसा जत्थ । उक्खेवाई तत्थ उ सोपाई देह उवओगं ॥
मू. (३७४)
[प्र.२]
वृ. परिवेष्यते-भोजनं दीयते येभ्यस्ते परिवेषणाः-भुआनाः पुरुषास्तेषां पङ्क्तिः-श्रेणिस्तस्यां तत्र ह्येकस्मिन् पर्यन्तं साधुसङ्घाटको वर्त्तते द्वितीये तु देयं तिष्ठति, तत्र च स्पृष्टास्पृष्टमयादिना गन्तुं न शक्यते, एवमुत्तरयोरपिपदयोर्भावनीयं,ततः पारेवेषणपङ्क्त्यां यद्वा दूरप्रवेशे' प्रलम्बगमनमार्गेछिण्डिकादौ, यदिवा घङ्खशालागृहेहस्तशतादानीतस्य ग्रहणमाचीर्णं, कल्पत इत्यर्थः, परतस्त्वानीतस्य ग्रहणं प्रतिकुष्टं' निराकृतं तीर्थकरादिभिः । सम्प्रत्यस्यैवाचीर्णस्य भेदान प्रदर्शयति
मू. (३७५)
उक्कास मज्झिम जहन्नगं तु तिविहं तु होइ आइन्नं । करपरियत्त जहन्न सयमुक्कोसं मज्झिम सेसं ॥
वृ. त्रिविधमाचीर्णमभ्याहृतं, तद्यथा- उत्कृष्टंमध्यमंजघन्यंच, तत्रयदा ऊर्द्रौपविष्टा वा कयमपिस्वयोगेन मुष्टिगृहीतेन मण्डकादिना, यदिवा स्वापत्यादिपरिवेषणार्थमोदनभृतया करोटिकयोत्पाटितया व्यवतिष्ठते, अत्रान्तरे च कथमपिसाधुरागच्छतिभिक्षार्थं, तस्मैचयदिकरस्थं ददाति तदाकरपरिवर्तनमात्रं जघन्यमभ्याहृतमा चीर्णं, हस्तशादभ्याहृतमुत्कृष्टं, शेषं तु हस्तशतमध्यवर्त्तिं मध्यमं । तदेवमुक्त मभ्याहृतद्वारम् ।
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International