________________
३४०
पिण्डनिर्युक्तिः- मूलसूत्रं
मू. (३६१)
स्तेनेभ्योऽथवा श्वापदेभ्यः, उपलक्षणमेतत्, ज्वराद्युत्पादकरपरिश्रमादिभ्यश्च 'स्थले' स्थलमार्गे एत एवापायरूपा दोषाः प्रतिपत्तव्याः ।। उक्त मनाचीर्णं परग्रामाभ्याहृतं नोनिशीयंसग्गामेऽवि यदुविहं घरंतरं नोघरंतरं चेव । तिघरंतरा परेण घरंतरं तं तु नायव्वं ॥ नोघरंतरऽनेगविहं वाडगसाहीनिवेसणगिहेसु । Share खंधे मम्मय कंसेण व तं तु आनेज्जा ॥
मू. (३६२)
वृ. ‘स्वग्रामेऽपि' स्वग्रामविषयमप्यभ्याहृतं द्विविधं, तद्यथा-गृहान्तरं नोगृहान्तरं च, तत्र त्रिगृहान्तरात् परेण त्रीणि गृहाण्यन्तरं कृत्वा परतो यदानीतं यद्गृहान्तरं, एवं च सति किमुक्तं भवति ? - यद्गृहयमध्यादानीयते उपयोगश्च त (य) त्र सम्भवति तदाचीर्णमवसेयं, नोगृहान्तरमनेकविधं, तच्च वाटकादिविषयं, तत्र ‘वाटकः' परिच्छन्नः प्रतिनियतः सन्निवेशः 'साही' वर्त्तनी सैंवैकाऽपान्तराले विद्यते न तु गृहान्तरमित्यर्थः 'निवेशनम्' एकनिष्क्रमणप्रवेशानि द्व्यादिगृहाणि 'गृह' केवलं मन्दिरम्, एतच्च सकलमपि वाटकादि-विषयमनाचीर्णमनुपयोगसम्भवे वेदितव्यं, तदपि च गृहान्तराख्यं नोगृहान्तराख्यं न नोनिशीयं स्वग्रामाभ्याहृतं प्रतिलाभयितुमीप्सितस्य साघोरुपाश्रयमानयेत् कापोत्या यदिवा स्कन्धेन, उपलक्षणमेतत्, तेन करादिना च, यदिवा मृन्मयेन भाजनेन यद्वा कांस्येन || सम्प्रत्यस्यैव स्वग्रामविषयनोनिशीथाभ्याहृतस्य सम्भवमाहमू. (३६३) सुन्नं व असइ कालो पगयं व पहेणगं व पासुत्ता।
इय एइ काइ घेत्तुं दीवेइ य कारणं तं तु ॥
वृ. इहसाधुर्भिक्षाटन् क्वापि गृहे प्रविष्टः, परंतत्तदानीं 'शून्य' बहिनिर्गतमानुषमासीत्, यद्वाऽद्यापितत्र राध्यते इति 'असन' अविद्यमानो भिक्षाकालः, यदिवा तत्र प्रकृतं गौरवार्हस्वजनभोजनादिकं वर्त्तते, न ततो तदानीं साधवे भिक्षा दातुं प्रपारिता, यदिवा विहृत्य साधोर्गतस्य पश्चात् 'प्रहेणकं' लाहनकमागतं, तच्चोत्कृष्टत्वात् किल साधवे दातव्यम्, अथवा तदा श्राविका 'प्रसुप्ता' शयिताऽऽसीत्, ततो न साधवे भिक्षा दत्ता इति, एतैः कारणैः श्राद्धिका स्वगृहाद्गृहीत्वा साधोरुपाश्रयमानयेत्, तच्चानयनस्य कारणं तदा शून्यं गृहमासीदित्यादिरूपं ‘दीपयति' प्रकाशयति, तत एवं नोनिशीथस्वग्रामाभ्याहृतसम्भवः । तदेवमुक्तं स्वग्रामपरग्रामभेदभिन्नं नोनिशीथाभ्याहृतम्, अथस्वग्रामपरग्रामभेदभिन्नमेव निशीथाभ्याहृतमतिदेशेनाहमू. (३६४) एमेव कसो नियम निसीहऽभिहडेऽवि होइ नायव्वो । 'अविइअदायगभावं निसीहिअं तं तु नायव्वं ॥
वृ. य एव क्रमः स्वग्रामपरग्रामादिको नोनिशीथाभ्याहृत उक्तः स एव निशीथाभ्याहृतेऽपि नियमात् ज्ञातव्यः । सम्प्रति निशीथाभ्याहृतस्वरूपं - 'अविइय' इत्यादि, अविदितो-यतिना न विज्ञातो दायकस्याभ्याहृतदानपरिणामो यत्र तदविदितदायकभावं निशीथाभ्याहृतमवगन्तव्यं, किमुक्तं भवति ? - सर्वथा साधुनाऽभ्याहृतत्वेन यदपरिज्ञातं तन्निशीथाभ्याहृतम् । परग्रामाभ्याहृतस्य निशीथस्य संभवमाहअइदूरजलंतरिया कम्मासंकाएँ मा न घेच्छति । आनंति संखडीओ सड्डो सड्डी व पच्छन्नं ॥ निगम देउ दानं दियाइ सन्नाइ निग्गए दानं । सिद्धमि से सगमणं दितऽन्ने वारयंतने ॥ भुंजण अजीरपुरिमड्डुगाइ अच्छंति भुत्तसेसं वा ।
मू. (३६५)
मू. (३६६)
For Private & Personal Use Only
मू. (३६७)
Jain Education International
www.jainelibrary.org