________________
मूलं- ३५६
३३९
वृ. एकस्य साघोर्यस्य सत्कं तन्न भवति तस्य 'मानयुक्तं ' प्रमाणोपपन्नं वस्त्रादि, नद्वितीये - द्वितीयस्स साघोर्यस्स सत्कंतस्य मानयुक्तं, किन्तु ?- न्यूनमधिकं वा तत एवमादिषु कार्येषु समुत्पन्नेषु परिवर्तनस्य सम्भवोभवति, तत्रपरिवर्त्तनस्य सम्भवेयस्य सत्कं तद्वस्त्रादितेन गुरुपादमूले तस्य वस्त्रादेःस्थापनं कर्त्तव्यं, गुरुपादमूले मोक्तव्यमित्यर्थः, ततो वृत्तान्तः कथनीयः, वृत्तान्ते च कथिते सति स गुरुर्ददाति 'अन्यथा ' गुरुपादमूलस्थापनाद्यभावे 'कलहः परस्परं राटिः सम्भवतीति । उक्तं परिवर्तितद्वारम्, अथाभ्याहृतद्वारमाहमू. (३५७) आइन्नमणानं निसीहऽभिहडं न नोनिसीहं च । निसिहाभिहडं ठप्पं वोच्छामी नोनिसींह तु ॥
वृ. अभ्याहृतंद्विधा, तद्यथा - आचीर्णमनाचीर्णच, तत्रानाचीर्णं द्विघा, तद्यथा निशीथाभ्याहृतंनोनिशीयाभ्याहृतं च, तत्र निशीथम् - अर्द्धरात्रं तत्रानीतं किल प्रच्छन्नं भवति, एवं साधूनामपि यदविदितमभ्याहृतं तन्निशीथाम्याहृतमिवनिशीयाभ्याहृतं तद्विपरीतंनोनिशीथाभ्याहृतं यत्साधूनामभ्याहृतमितिविदितंभवति, तत्र निशीथाभ्याहृतं स्थाप्यम, अग्रे वक्ष्यते इति भावः, सम्प्रति पुनर्वक्ष्यामि । नोनिशीथाभ्याहृतं । मू. (३५८) सग्गाम परग्गा सदेस परदेसमेव बोद्धव्वं । दुविहं तु परग्गामे जलथल नावोडु जंघाए ॥
वृ. नोनिशीथाभ्याहृतं द्विविधं तद्यथा- 'स्वग्रामे' स्वग्रामविषयं 'परग्रामे' परग्रामविषयं, तत्र यस्मिन् ग्रामे साधुर्निवसति च किल स्वग्रामः, शेषस्तु परग्रामः, तत्र 'परग्रामे' परग्रामविषयमभ्याहृतं द्विविधं, तद्यथास्वदेशं परदेशं च, स्वदेशपरग्रामाभ्याहृतं परदेशपरग्रामाभ्याहृतं चेत्यर्थः । तत्र स्वदेशो यत्र देशे मण्डले साधुर्वर्त्तते, शेषस्तु परदेशः । एतद्द्विविधमपि प्रत्येकं द्विधा, तद्यथा- 'जलथल' त्ति 'सूचनात्सूत्र' मितिकृत्वा जलपथेनाभ्याहृतं स्थलपथेनाभ्याहृतं च, तत्र जलपथेनाप्यभ्याहृतं द्विधा नावा उड्डपेन च, उपलक्षणमेतत्, तेनस्तोकजलसम्भावनायां जङ्घाभ्यामपि तत्रनौः- तरिका उड्डपः-तरणकाष्ठं तुम्बकादिचोडुपग्रहणेन गृहीतं द्रष्टव्यं, स्थलपथेनाप्यभ्याहतं द्विधा, तद्यथा- - जङ्घाभ्यां पद्भ्याम्, उपलक्षणमेतत्, तेन गन्त्र्यादिना च ॥ तत्रामूनेव जलस्थलाभ्याहृतमेदान् सप्रपञ्चं विभावयन् दोषान् प्रदर्शयति
मू. (३५९)
जंघा बाह तरीड़ व जले थले खंध आरखुरनिबद्धा । संजम आयविराधन तहियं पुन संजमे काया ॥ अत्थाहगाह पं कामगरोहारा जले अवाया उ । कंटाहितेन सावय थलंमि एए भवे दोसा ॥
वृ.तत्रजलमार्गेस्तोकजलसम्भावनायां जङ्घाभ्याम् अस्ताघसम्भावनायां बाहुभ्यां यदिवा तरिकया, उपलक्षणमेतत्, उडुपेन चाभ्याहृतं सम्भवति, स्थलमार्गे स्थलमार्गे तु स्कन्धेन यद्वा 'आरखुरनिबद्ध' त्ति अत्र तृतीयार्थे प्रथमा, ततोऽयमर्थः- आरकनिबद्धा गन्त्रीतया खुरनिबद्धा रासभबलीवर्दादयस्तैः, अत्र च दोषाः संयमविराधनाऽऽत्मविराधनाच, 'तत्र' संयमाऽऽत्मविराधनामध्ये संयमविषयाविराधना जलमार्गेस्थलमार्गे च 'काया' अपकायादयो विराध्यमाना द्रष्टव्याः । जलमार्गे आत्मविराधनामाह - 'अत्थाह' इत्यादि, अच प्राकृतत्वात् क्वचिद्विभक्ति लोपः क्वचिद्विभक्ति परिणामश्र, ततोऽयमर्थः - अस्ताघे पदादिमिरलभ्यमानेऽधोभूमागेऽघोनिमज्जनलक्षणोऽपायो भवति, तथा 'ग्राहेभ्यः' जलचरविशेषेभ्यः यद्वा'‘पङ्कतः' कलरूपात् अथवा मकरेभ्यः, यदिवा 'ओह्यरे' त्ति कच्छपेभ्यः, उपलक्षणमेतत्, अन्येभ्यश्च पादबन्कतन्त्वादिभ्यः 'अपाया' विनाशादयो दोषाः सम्भवन्ति । स्थलमार्गे आत्मविराधनामाह- 'कंटे' त्यादिकण्टकेभ्यो यदिवाऽहिभ्यो यद्वा
मू. (३६०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org