________________
३३८
पिण्डनियुक्तिः- मूलसूत्रं देवदत्तश्रेश्वरः, ततः स सर्वदैव शाल्योदनं भुङ्क्ते, अन्यदा च स क्षेमङ्करः साधुर्यथाविहारक्रमं तत्राजगाम, स चचिन्तयामास - यदि देवदत्तस्य भ्रातुर्गृह गमिष्यामि ततो मे भगिनी दारिद्रयेणाहमभिभूता ततो न मम गृह साधुरपि भ्राता समुत्तीर्ण इति परिभवं मंस्यते इति, ततोऽनुकम्पया तस्या एव गृहे प्रविवेश, भिक्षावेलायां च तया लक्ष्म्या चिन्तितं यथैकं तावदयं भ्राता द्वितीयं साधुः तृतीयं प्राघूर्णकः, मम च गृहे कोद्रवकूरः, ततः कथमसावस्मै दीयते ?, शाल्योदनश्र मम गृहे न विद्यते, ततो भ्रातृजायाया बन्धुमत्याः सकाशात् कोद्रवौदनपरावर्त्तनेन शाल्पोदनमानीय ददामीति तथैव कृतम्, अत्रान्तरे च देवदत्तो भोजनार्थं स्वगृहमागतः, बन्धुमत्या च पप्रच्छे यथाऽघ कोद्रवौदनो जेमितव्यः, तेन चाविज्ञातपरिवर्त्तनवृत्तान्तेन चिन्तितयथाऽनया कृपणतया कोद्रवौदनो राद्धो न शाल्योदनः ततस्तां ताडयितुमारेभे, सा च ताड्यमाना प्राह- किं मां ताडयसि ?, तवैव भगिनी कोद्रवौदनं मुक्त्वा शाल्योदनं नीतवती, घनदत्तस्यापि च भोजनार्थमुपविष्टस्य यः शाल्योदनः क्षेमङ्करस्य दीयमान उद्धरितः स गौरवेण लक्ष्म्या परिवेषितः ततस्तेन सा पृष्टा-कुतोऽयं शाल्योदनः?,ततः कथितःसर्वोऽपितया वृत्तान्तः, श्रुत्वा च तं वृत्तान्तं चुकोप धनदत्तो - यथा हा ! पापे ! किमिति त्वया मानमेकं शालेः पक्त्वा पक्त्वा साधवे शाल्योदनो न दत्तो यत्परगृहादानयनेन मम मालिन्यमापादितं, ततस्तेनापिसाताडिता,साधुनाचायंवृत्तान्तोगृहद्वयवर्त्तीसर्वोऽपिजनपरम्परातःशुश्रुवे, ततो निशिसर्वाण्यपि तानिप्रतिबोधितानि, यथेत्थमस्माकंनकल्पतेपरमजानतामया गृहीतम्, अतएव चकलहादिदोषसम्भावाद्भगवता प्रतिषिद्धं, ततो जिनप्रणीतं धर्मं सविस्तरं कथितवान्, जातः सर्वेषामपि संवेगो, दत्ता च दीक्षा तेषां सर्वेषामिति । सूत्रं सुगम, नवरम् अवरुप्परसज्झिलगा' इति लक्ष्मीदेवदत्तौ बन्धुमतीधनदत्तौ परस्परं 'सज्झिलगौ' भ्रातरौ, तेच 'द्वे अपि' लक्ष्मीबन्धुमत्यौ' अन्नमन्त्रेण'तिअन्योऽन्यमपिसम्बद्धेदेवदत्तस्य भगिनी लक्ष्मीर्धनदत्तेन धनदत्तस्यापि भगिनी बन्धुमती देवदत्तेन परिणीता इत्यर्थः, 'पोग्गलिय'त्ति पौगलिकस्य शाल्योदनस्य 'संयतार्थं ' क्षेमङ्करसाधुनिमित्तं परिवर्त्तनं कृतं, ततः 'संखडं' कलहस्ततः 'बोधि:' प्रव्रज्या, अस्या एव गाथाया विवरणभूतमुत्तरं गाथाद्वयं, तदपि च सुगमं, नवरं 'मच्छर' त्ति विभक्ति लोपात् मत्सरेण 'नाइक्ख'त्ति परिवर्त्तनेऽकथिते 'पंतावे' अताडयत्, 'उवसमियाण' त्ति उपशमितानां, ननु परिवर्तनमषीदं प्रव्रज्यायाः कारणं बभूव ततो विशेषतः साधुभिरिदमाचरणीयमत आह- 'कइ व 'त्ति कति वा कियन्तो वा क्षेमङ्करसाधुसदृशा भविष्यन्ति ये इत्थं परिवर्तनसमुत्थं कलहमपनीय प्रव्रज्यां ग्राहयिष्यन्ति, तस्मान्नैवेदमाचरणीयम् । उक्तं लौकिकं परिवर्त्तनम्, अथ लोकोत्तरं तद्वक्त व्यं, तत्र यत् साधुः साधुना सह वस्त्रादिपरिवर्त्तनं करोति तल्लोकोत्तरं परिवर्त्तनं, तत्र दोषानुपदर्शयति
मू. (३५५)
ऊहिय दुब्बलं वा खर गुरु छिन्न मइलं असीयसहं ।
दुव्वन्नं वा नाउं विपरिणमे अन्नभणिओ वा ।।
वृ. वस्त्रपरिवर्त्तने कृते सतीदं न्यूनं यत्तु मदीयं वस्त्रं बभूव तन्मानयुक्तं प्रमाणोपपन्नं या इदमधिकं मदीयंपुनर्मानयुक्त मेवं सर्वत्र भावना, नवरं दुर्बलं' जीर्णप्राय ' खरं' कर्कशस्पर्श' गुरुः स्थूलसूत्रनिष्पन्नतया भारयुक्तं 'छिन्नं' निपुष्पकं 'मलिनं' मलाविलम् ' अशीतसहं' शीतरक्षणाक्षमं' 'दुर्व्वर्णं' विरपच्छायम्, इत्थंभूतं स्वयमेव ज्ञात्वा 'विपरिणमेत' घृष्टोऽहमिति विचिन्तयेत. यद्धा अन्येन साधुना खग्गूडेन मणित उत्पासितो विपरिणमेत् । अत्रैवापवादमाह
मू. (३५६)
Jain Education International
एगस्स मानत्तं न उ बिइए एवमाइ कज्जेसु । गुरुपादमूले ठेवणं सो दलयड़ अन्नहा कलहो ।
For Private & Personal Use Only
www.jainelibrary.org