________________
३३४
तस्मात्तादृशमपि साधूनां न कल्पते । एतदेव गाथाद्वयेन स्पष्टयन्नाह -
मू. (३३८)
पिण्डनियुक्ति:- मूलसूत्रं
सागारि मंख छंदन पडिसेहो पुच्छ बहु गए वासे । कयरिं दिसिं गमिस्सह ? अमुई तहिं संथवं कुणइ ॥ दिज्जते पड़िसेहो वज्जे घेत्थं निमंतणं जइणं ।
मू. (३३९)
पुव्वगय आगएसुं संछुहई एगगेहंमि ॥
वृ. शालिग्रामो नाम ग्रामः, तत्र देवशर्माभिधानो मतः, तस्य च गृहैकदेशे कदाचित् केचित् साधवो वर्षाकालमवस्थिताः, स च मनस्तेषां साधूनामनुष्ठानमरक्ताद्विष्टतां चोपलभ्यातीव भक्ति परीतो बभूव, प्रतिदिवसंचभक्त दिना निमन्त्रयति, साधवश्च शय्यातरपिण्डोऽयमितिप्रतिषेधन्ति, ततः सचिन्तयामासयथैते मम गृहे भक्तादिन गृह्णन्ति यदि पुनरन्यत्र दापयिष्यामि तथापि न ग्रहीप्यन्ति, तस्माद्वर्षाकालानन्तरं यत्रामी गमिष्यन्ति तत्राग्रे गत्वा कथमप्येतेभ्यो ददामीति, ततः स्तोकशेषे वर्षाकालेसाधवस्तेनपप्रच्छिरेयथा भगवान् ! वर्षाकालानन्तरं कस्यां दिशि गन्तव्यं ?, ते च यथाभावं कथयामासुः- यथाऽमुकस्यां दिशि, ततः स तस्यामेव दिशि चिष्ये (याचे) तदा दातव्यमिति, साधवश्च वर्षाकालानन्तरं यथाविहारक्रमं तवाजग्मुः, तेन चात्मानमज्ञापयता पूर्वप्रतिषिद्धघृतदुग्धादिकं प्रनिगृहं याचित्वैकत्र च गृहे संमील्य मुक्तं, ततः साधवो निमन्त्रिताः, तैश्रयथाशक्ति छद्मस्थदृष्ट्या परिभावितं, परंनलक्षितं, ततः शुद्धमितिकृत्वा गृहीतं, नचतेषां तथा गृह्णतां कचिद्दोपः यथाशक्ति परिभावनेन भगवदाज्ञाया आराधितत्वात्, यदि पुनरित्थंभूतं कथमपि ज्ञायते तर्हि नियमतः परिहर्त्तव्यं, क्रीताभ्यवहृतस्थापनारूपदोषत्रयसद्भावादिति । सूत्र सुगमं नवरं ‘सागारिकः’ शय्यातरः ‘संस्तवः ' परिचयः, निजपटप्रदर्शनेन लोकावर्जनमिति तात्पर्यार्थः । धम्मकह वाय खमणं निमित्त आयावणे सुयट्टाणे ।
मू. (३४०)
कुल गुण कम्मे सिप्पम्मि य भावकीयं तु ॥
वृ. धर्मकथादिषु भावक्रीतं भवति, इयमत्र भावना - यत् परचित्तावर्जनार्थं धर्मकथां वादं 'क्षपणं' षष्टाटमादिरूपं तपो निमित्तमातापनां वा करोति, यद्वा श्रुतस्थानमाचार्योऽहमित्यादिकं कथयति, यदिवा जातिं कुलं गणं शिल्पं कर्म वा परेभ्यः प्रकटयति, इत्थं च परमावर्ज्ययत्ततो भक्तादिगृह्णाति तदात्मभावक्रीतं, यदा तुदुःखक्षयार्थं कर्मक्षयार्थं च धर्मकथादिकंयथायोगंकरोतितदासप्रवचनप्रभावकतया महानिर्जराभाग्भवति, उक्तं - "पावयणी धम्मकही वार्ड नेमित्तिओ तवस्सी य। विज्जा सिद्धो य कई अदेव पभावगा भणिया । मू. (३४१) धम्मकहाअक्खित्ते धम्मकहाउट्टियाण वा गिण्हे ।
कति साहवो चिय तुमं व कहि पुच्छिए तुसिणी ॥
वृ. आहाराद्यर्थं धर्मकथांकथयतायदांत श्रोतारो धर्मकथया सम्यगाक्षिप्ताभवन्तितदातेषांपार्श्वेयद्याचते. ते हि तदा प्रहर्षमागताः सन्तोऽभ्यर्थिता न तिष्ठन्ति, यद्वा-धर्मकथात उत्थितानां सतां तेषां पार्श्व यद्गृह्णाति तदात्मभावक्रीतम्,आत्मना-स्वयमेवभावेन-धर्मकथनरूपेणक्रीतमात्मभावकृतमिति, यद्वा-धर्मकथाकथकः कोऽपि प्रसिद्ध वर्त्तते, तदनुरूपाकारश्च विवक्षितः साधुः, ततस्तं श्रावकाः पृच्छन्ति यः 'कथी' धर्मकथाकथकः श्रूयते, सकिंत्वम्? इति, ततः सभक्त दिलोभादेवं वक्ति - यथासाधव एव प्रायो धर्मकथां कथयन्ति, नान्यः, यदिवा तूष्णीं - मौनेनावतिष्ठते, ततस्ते श्रावका जानन्ते यथा स एवायं, केवलं गम्भीरत्वादात्मानं न साक्षाद्वचसा प्रकाशयतीति, ततः प्रभूततरं तस्मै प्रयच्छन्ति, तच्च तेभ्यः प्रभूततरं लभ्यमानमात्मभावकृतम्, आत्मना - स्वयमेव भावेन स्वयमसोऽपि कथकः सोऽहं कथक इति ज्ञापनलक्षणेन क्रीतमितिकृत्वा । अथवा
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International