SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ मूलं-३३४ ३३३ आयकियं च परकियं परदन्नं तिविह चित्ताई। वृ.क्रयणंक्रीतंतेनकृतंनिष्पादितंक्रीतकृतं.क्रीतमित्यर्थः तदपिआस्ताप्रादष्करणमित्यपिशब्दार्थः, 'द्विविधं' द्विप्रकार, तद्यथा- 'दव्वे भावे च' अत्र तृतीयार्थे सप्तमी, ततोऽयमर्थः-द्रव्येण क्रीतं भावेन च क्रीतमित्यर्थः, पुनरप्येकैकंद्रव्यक्रीतंभावक्रीतंच प्रत्येकं द्विधा, तद्यथा-आत्मक्रीतंपरक्रीतंच, आत्मद्रव्यक्रीतमात्मभावक्रीतं चपरद्रव्यकीतंपरभावक्रीतं चेत्यर्थः, तत्रात्मनास्वयमेव द्रव्येणोज्जयन्तभगवत्प्रतिमाशेषादिरूपेण प्रदानतः परमावर्त्य यद्भक्तादिगृह्यते तदात्मद्रव्यकीतं, यत्पुनरात्मना स्वयमेव भक्ताद्यर्थं धर्मकथादिना परमावर्त्य भक्तादि ततो गृह्यते तदात्मभावक्रीतं, तथा यत् परेण साधुनिमित्तं द्रव्येण कीतं तत्परद्रव्यक्रीतं, यत्पुनः परेण साध्वर्थं निजविज्ञानप्रदर्शनेनापरमावर्त्य ततो गृहीतं तत्परभावक्रीतं, तत्र 'विचित्रा सूत्रगति'रिति प्रथमतः परद्रव्यक्रीतस्य स्वरूपमाहपरद्रव्यं गृहस्थसत्कं द्रव्यं त्रिविधं, तद्यथा'चित्तादि' सचित्तमचित्तं मिश्रं च, तेन परेण साध्वर्थं यत्कीतं तत्परद्रव्यकीतम। उक्तं परद्रव्यक्रीतं. मू. (३३५) आयकियं पुन दुविहं दव्वे भावे य दव्व चुन्नाई। . भावंमिपरस्सट्टाअहवावीअप्पणाचेव॥ वृ.आत्मक्रीतंपुनर्द्धिविचं,तद्यथा- 'दव्वेभावेय'त्तिअत्रापितृतीयार्थेसप्तमी,ततोऽयमर्थः-आत्मनाऽपि क्रीतं द्विधा, तद्यथा-द्रव्येण भावेन च, तत्र द्रव्येण-चूर्णादिना वक्ष्यमाणेन, भावेन पुनः परस्य-साधोराय यन्निनविज्ञानप्रदर्शनादिनोपाय॑ते तद्भावक्रीतं, परभावक्रीतमित्यर्थः, अथवा भावेन तदात्मना स्वयमेवाहारार्थं धर्मकथादिना परमावर्त्य ततो गृह्यते तद्भावक्रीतम्, आत्मभावक्रीतमित्यर्थः। तदेवं सामान्यतस्त्रयोऽपि भेदा उक्ताः, सम्प्रत्यात्मद्रव्यक्रीतं सप्रपश्च विवरीषुरिदमाहमू. (३३५) निम्मल्लगंघगुलिया वन्नय पोत्ताइ आयकय दव्वे। .. गेलन्ने उड्डाहो पुउणे चडुगारि अहिगरणं॥ । वृ. 'निर्माल्य तीर्थादिगतसप्रभावप्रतिमाशेषा 'गन्धाः' पटवासादयः गुलिका' मुखेप्रक्षेपकस्य स्वरूपपरावर्त्तादिकारिका गुटिका 'वर्णकः' चन्दनं 'पोतानि' लघुबालकयोग्यानि वस्त्रखण्डानि, आदिशब्दात्कण्डकादिपरिग्रहः, एतानि कार्ये कारणोपचारादात्मद्रव्यकीतानि, किमुक्तं भवति ? -निर्माल्यादिप्रदानेन परमावय॑यत्ततोभक्तादिगृह्यतेतदात्मद्रव्यक्रीतमिति।अत्रदोषानाह- 'गेलन्ने' इत्यादि, निर्माल्यप्रदानान्तरं यदिकथमपिदैवयोगतोग्लानताभवति तर्हि प्रवचनस्योड्डाइः' साधुनाऽहंग्लानीकृत इत्यादि साधुना प्रगुणीकृतोऽतिशयी चासौ साधुः सकलज्ञातव्यकुशलः परहितनिरत इत्यादि समक्षं परोक्षंवा सदैव प्रशंसा करोति, तथा चसत्यधिकरण-भूयस्तस्याधिकरणप्रवृत्तिः, तादृशी हितस्यप्रशंसामाकान्योऽन्यःसमागत्यतंसाधुं निर्माल्यगन्धादियाचत,ततस्तत्प्रार्थनापरवशाःअधिकरणमपि समारभते।सम्प्रतिपरभावक्रीतंविवृण्वन्नाहमू. (३३७) वइयाइ मखमाई परभावकयं तु संजयट्ठाए। उप्पायणा निमंतण कीडगडं अभिहडे ठविए।। वृ. 'वजिका' लघुगोकुलम्, उपलक्षणमेतत्, तेन पत्तनादिपरिग्रहः, तत्र वजिकादौ मङ्ख्यादिः' मङ्खःकैदारको यः पटमुपदर्थ्य लोकमावर्जयति. आदिशब्दात्तथाविधान्यपरिग्रहः, भक्तिवशात् संयतार्थं यद् घृतद्ग्धादेरुत्पादनं करोति कृत्वा च निमन्त्रयति तत्परभावक्रीतं, परेण-मयादिना संयतार्थं भावेनस्वपटप्रदर्शनादिरूपेण क्रीतं परभावक्रीतम्, इत्थंभूते च परभावक्रीते त्रयो दोषाः, एकं तावत्क्रीतं, द्वितीयमन्यस्मादन्यस्माद्हादानीतमित्यभ्याहृतम,आनीयानीयचैकत्रसाधुनिमित्तंस्थाप्यतइतिस्थापितं, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003330
Book TitleAgam Suttani Satikam Part 26 Oghniryukti Pindniryukti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages436
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_oghniryukti, & agam_pindniryukti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy