SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ ३३२ पिण्डनिर्युक्तिः- मूलसूत्रं वासाधुनिमित्तं बहिश्रुल्लीकृता वेदितव्या, साचतृतीया । ततो यदिकदाचितत्र सिसृणां चुल्लीनामन्यतमस्यां गृहस्था राध्यन्ति ततो द्वौ दोषौ, तद्यथा - उपकरणपूतिः प्रादुष्करणं च, यदा च चुल्ल्याः पृथक्कृतं तद्देयं वस्तु तदा प्रादुष्करणरूप एवैकाः केवलो दोषः, पूतिदोषस्तूत्तीर्णः, यदा चुल्ल्योऽपि शुद्धास्तदापि प्रादुष्करणरूप एवैको दोषः । यदर्थं प्रादुष्करणं गृहस्था कृतवती तं भिक्षायै गृहमागच्छन्तं दृष्ट्वा यदृजुत्वेन भाषते तदाहमू. (३२९) नेच्छह तमिसंमि तओ बाहिरचुल्लीऍ साहु सिद्धण्णे । इय सोउं परिहर पुढे सिद्रुमिवि तहेव ॥ वृ. हे साधो ! त्वं 'तमिस्त्रे' अन्धकारे भिक्षां नेच्छसि ततो बहिश्चुल्ल्यां सिद्धं पक्कम् 'अन्न' मिति अस्माभिर्भक्त मिति श्रुत्वा तया दीयमानं परिहरति, प्रादुष्करणदोषदुष्टत्वात्, तथा प्रादुष्करणशङ्कायां किमर्थमयमाहारोऽद्य गृहस्थ बहिस्तात्पक्वः ?, इत्येवं पृष्टेतयाऋजुतयायथावस्थिते कथिते तथैव परिहरति, एतेनाद्यगाथायां 'संकामण' इत्यवयवो व्याख्यातः । नन्वयं सङ्क्रामणकृत आहारः केनापि प्रकारेणकल्पते ? किं वा न ? इति, उच्यते, आत्मार्थीकृतः कल्पते, कथमस्यात्मार्थीकरणसम्भव ? इति चेदत आहमू. (३३०) मच्छिम्मा अंत बाहि पवायं पगासमासन्नं । अत्तट्टियहणं पागडकरणे विभासेयं ॥ वृ. साध्वर्थं पूर्वं बहिश्रुल्ल्यादिकृत्वा काचिदेवं चिन्तयति-गृहस्यान्तर्मक्षिकाघर्मश्च, उपलक्षणमेतत्, तेनान्धकारं दूरं च पाकस्थानाद्भोजनस्थानमित्यादिपरिग्रहः, बहिश्रप्रवातंतेनमक्षिकादयो न भवन्ति, तथा प्रकाशमासन्नं च पाकस्थानाद्भोजनस्थानं, ततो वयमत्रैवात्मनिमित्तमपि सदैव पक्ष्याम इत्येवमात्मार्थीकृते ग्रहणं, कल्पते इति भावः । इयं प्रकटकरणे कल्प्याकल्प्यविषया विभाषा, सम्प्रति प्रकाशकरणं स्पष्टयन् 'कुड्डदारपाए' इत्यादि व्याचिख्यासुराह मू. (३३१) कुड्डस्स कुणइ छिड्डुं हारं वड्डेइ कुणइ अन्नं वा । अवने छायणं वा ठाव रयणं व दिप्पंतं ॥ जोइ पइवे कुणइग व तहेव कहणं तु पुट्ठे दुट्ठे वा । अत्तट्टिए उ गहणं जोइ पइवे उ वज्जित्ता ॥ मू. (३३२) वृ. प्रकाशकरणार्थं कुड्यस्यछिद्रं करोति, यद्वाद्वारंलघु सद् वर्द्धयति' बृहत्तरं करोति, यदिवाऽन्यद्वितीयं द्वारं करोति, अथवा गृहस्योपरितनं छादनं स्फेटयति, यदिवा दीप्यमानं रत्नं स्थापयति, यद्रा - ज्योतिः प्रदीपं वा करोति, तथैवानन्तरोक्ते न प्रकारेण स्वयमेव यदिवा पृष्टे सति प्रादुष्करणे कथिते यद्भक्तादि प्रादुष्करणदोषदुष्टं तत् साधूनां न कल्पते । यदि पुनः प्राक्त नेन प्रकारेणात्मार्थीकरोति तदा ग्रहणं कल्पगते इतिभावः । ज्योतिः प्रदीपाभ्यां प्रकाशमात्मार्थीकृतमपि न कल्पते, तेजस्कायसंस्पर्शात । सम्प्रति अपरिमुत्तं कप्पड़ कप्पं अकाऊणं' इति व्याचिख्यासुराह मू (३३३) पागडपयासकरणे कयंमि सहसा व अहवऽनाभोगा । गहियं विगिंचिऊणं गेहइ अन्नं अकयकप्पे | वृ. प्रकटकरण प्रकाशकरणे वा कृते सति यत् सहसाऽनाभोगतो वा गृहीतं तद् 'विगिंचिऊणं' परिष्ठाप्य तस्मिन् पात्रे उज्झिते लेशमात्रखरण्टितेऽपि 'अकृतकल्पे' जलप्रक्षालनरूपकल्पदानाभावेऽप्यन्यत् शुद्धं गृह्णाति, नास्ति कथिद्दोषा, विशोधिकोटित्वात् । उक्तं प्रादुष्करणद्वारम्, अथ क्रीतद्वारमाहकीयंगडंपि य दुविहं दुव्वे भावे य दुविहमेक्वेक्कं । मू. (३३४) For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003330
Book TitleAgam Suttani Satikam Part 26 Oghniryukti Pindniryukti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages436
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_oghniryukti, & agam_pindniryukti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy