SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ ३२४ पिण्डनियुक्तिः-मूलसूत्रं विपरिणता न चरणप्राणान् विनाशयितुमीशाः, नाप्याधाकर्मसंस्पर्शलक्षणं दोषं जनयन्तीति । तदेवमिन्धनाद्यवयवापेक्षयायःसूक्ष्मपूतिस्तमपरिहार्यप्रतिपाद्यसम्प्रतिशेषद्रव्यपूर्तिपरिहार्यप्रतिपादयति. म. (२९०) सेसेहि उदव्वेहिं जावइयं फुसइंतत्तियं पूई। लेवेहिं तिहि उपई कप्पइ कप्पे कएतिगुणे॥ वृ. शेषः' इन्धनाद्यवयवव्यतिरिक्तैः शाकलवणादिभिर्यावत्स्थाल्यादिपरिमितं द्रव्यं स्पृष्टं भवति तावत्प्रमाणपूतिः, तथात्रिभिलेषैः पूतिः, इयमत्रभावना-स्थाल्यांकिलाधाकर्मराद्धं, ततस्तस्याअपनीतम्, अपनीतेचतस्मिन्यापाश्चात्याखरण्टिःसाएको लेपः, ततस्तस्यामेवस्थाल्यामकृतकल्पत्रयायांशुद्धंराद्धं पूतिः, एवंवारद्वयमन्यदपिराद्धंपूतिः, चतुर्थेतुवारेराद्धंनपूतिः, अथात्मयोगेनयदिगृहस्था तस्याःस्थाल्याः निःशेषावयवापगमाय कल्पयत्रं ददाति तर्हि का वार्ता?, तत आह-कल्पते तस्यां स्थाल्यां शुद्धमशनादि राळं, यदि कल्पे' प्रक्षालने त्रिगुणे' त्रिसङ्ये कृते सति राध्यन शेषकालम। एतदेव भावयति__मू. (२९१) इंधनमाई मोत्तुं चउरा संसाणि होति दव्वाई। तेसिंपुन परिमाणं तयप्पमाणाउ आरब्भ। वृ.इन्धनावयवाटीनि चत्वारि पूर्वोक्तानिमुक्त्वाशेषाणि द्रव्याणि' अशनादीनिपूतिकरणप्रवणानि ज्ञातव्यानि, तेषां च शुद्धाशनादिपूतिकरणविषये परिमाणं त्वक्प्रमाणादारभ्य द्रष्टव्यम्, इयमत्र भावना. तण्डुलादीनामाधाकर्मणां गन्धादिचतुष्टयं परिहृत्य शेषं त्वगवयवमात्रमप्यादौ कृत्वा यद्वर्त्तते तेन स्पृष्टं शुद्धमप्यशनादि पूतिर्भवतीति। सम्प्रति दातृगृहं साधुपानं चाश्रित्य पूतिविषयं कल्प्याकल्प्यविधिमाहमू. (२९२) पढमदिवसंमि कम्मं तिन्नि उदिवसानि पूइयं होइ। पूईसुतिसुन कप्पइ कप्पइ तइओ जया कप्पो॥ वृ. इह यस्मिन् दिने यत्र गृहे कृतमाधाकर्मतत्र तस्मिन् दिने 'कर्म' आधाकर्मव्यक्तमेतत्,शेषाणितु त्रीणिदिनानिपूतिर्भवति,तद्गृहपूतिदोषवद्भवतीत्यर्थः,तत्रच पूतिषु' पूतिदोषवत्सुत्रिषुदिनेषुआधाकर्मदिने चसर्वसङ्ख्यया चत्वारि दिनानियावन्न कल्पते, साधुपात्रेचपूतिभूते तदाशुद्धमशनादिग्रहीतुंकल्पते यदा तृतीयः कल्पो दत्तो भवति, नशेषकालं. पूतिदोषसम्भवात। मू. (२९३) समणकडाहाकम्मं समणाणंज कडेण मीसंतु। आहार उवहि वसही सव्वं तं पूइयं होइ।. . वृ. श्रमणानामर्थाय कृतमाहारोपधिवसत्यादिकं यत तत्सर्वमाधाकर्म, यत्पुनः श्रमणानामर्थाय कृतेनाधाकर्मणा मिश्रमाहारादि तत्सर्वं पूतिर्भवति। सम्प्रति परिज्ञानोपायमाह___मू. (२९४) सङ्कस्स थेवदिवससुसंखडी सि संघभत्तं वा। पुन्छित्तु निउणपुच्छं संलावाआ वऽगारीणं ॥ वृ.इहप्रथमतआगतेनश्राद्धगृहेतथाविधंकिमपिसङ्ख्यादिचिह्नमुपलभ्यपूतिदोषसंशयभावे श्राद्धस्य पार्थे उपलक्षणमेतत् श्राविकादेश्च पार्थे निपुणपृच्छं प्रष्टव्यं? यथा-युष्माकं गृहे 'स्तोकदिवसेषु' स्तोकदिवसमध्ये,प्रभूतदिवसातिक्रमणपूतिदोषोनसम्भवतीतिस्तोकदिवसग्रहणं, सङ्घडिः वीवाहादिप्रकरणरूपा सङ्घभक्तं वा दत्तमासीत् ?, सङ्खड्यां वा साधुनिमित्तं किमपि कृतं आभवत् ?, ततस्तदिनादाग दिनत्रयं पूतिरितिकृत्वापरिहर्त्तव्यं, चतुर्थादिषुतुदिनेषुपरिग्राह्यम्, अथवाक्वापिप्रश्नमन्तरेणाप्यगारिणीनांसंलापात पूतिरपूतिर्वेति ज्ञातव्यं, ता हि अपृष्टा एवान्यमुद्दिश्य कथयन्ति, यथाऽस्माकं श्वः परतरे वा दिने सङ्घभक्तं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003330
Book TitleAgam Suttani Satikam Part 26 Oghniryukti Pindniryukti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages436
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_oghniryukti, & agam_pindniryukti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy