________________
मूलं- २८५
वृ. ‘हेचोदक!’प्रेरक! ‘इन्धनादिभिः' इन्धनाग्न्यवयवधूमबाष्पगन्धैश्रतुर्भिरपि स्पृष्टंसूक्ष्मपूतिर्भवति, नात्र कचिद्विवादः, एनामेव च सूक्ष्मपूतिमाधिकृत्य पयागुक्तं 'भावंमि उ बायरं सुहुमं' इति, केवलमिदं सूक्ष्मपूतित्वेन भणनंप्रज्ञापनामात्रं, परिहरणंपुनस्तस्याः- सूक्ष्मपूतेर्नास्ति, अशक्यत्वात्॥ एतदेव प्रपञ्चयतिम. (२८६) सज्झमसज्यं कज्नं सज्झं साहिज्जए न उ असज्झं ॥ अस साइकिलिस्सइ न तं च साहेई ॥
वृ. इह द्विविधं कार्यंसाध्यमसाध्यं च शक्यमशक्यं चेत्यर्थः, तत्र साध्यं साध्यते न त्वसाध्यं, यस्त्वसाध्यं युष्मादृशः असाधयति स नियमात् क्लिश्यते, न च तत्कार्यं साधयति, अविद्यमानोपायत्वात्, एषोऽपि चानन्तरोक्तःसूक्ष्मपूतिशरंशक्यपरिहारः, ततो नपरिहियते । सम्प्रतिपरो 'बायरंसुहुमं' तिसमर्थयमानोऽपरं सूक्ष्मपूर्ति तस्य परिहरणं च शक्यं प्रतिपादयतिमू. (२८७)
३२३
आहाकम्मियभायमपप्फोडण काय अकयए कप्पे | गहियं तु सुहुमपूई धोवणमाईहिं परिहरणा ॥
वृ. यत्र भोजने गृहीतमाधाकर्म्म तस्मिन् भाजने आधाकर्म्मपरित्यागानन्तरं 'प्रस्फोटनं कृत्वा' हस्तेनास्फालनादिना सर्वानप्याधाकर्म्मवयवानंपसार्य अकृत 'कल्पे' कलत्रये यद् गृहीतं तत्सूक्ष्मपूतिर्भवति, कतिपयोद्धरितसूक्ष्माधाकर्मावयवमिश्रणसम्भवात्, तस्य च सूक्षमपूतेः परिहरणं धावनादभिः किमुक्तं भवति ? पात्रस्याधाकर्मिकपरित्यागानन्तरं कल्पयत्रधावनेन प्रक्षालनं क्रियते तर्हि सूक्ष्मपूतिर्न भवति, तत एवं सूक्ष्मपूतेः परिहरणमपि घटते, तस्मादिदमेव सूक्ष्मपूतिस्वरूपमुच्यतामिति भावः, तदेतदयुक्तं, . यत इयं बादरपूतिरेव, तथाहि-गृहीतोऽस्ति तस्याधाकर्मणः सत्कैः स्थूलैः सिक्थाद्यवयवैः । तन्मिश्रं सत्कथं स सूक्ष्मपूतिः । किञ्चमू. (२८८)
धोयंपि निरावयवं न होइ आहच्च कम्मगहणंमि । नय अव्वा उ गुणा भन्नई सुद्धी कओ एवं ? ।।
वृ. कदाचित् 'कर्मग्रहणे' आधाकर्मिकग्रहणे सति तत्परित्यागानन्तरं पश्चात् 'धौतमपि' प्रक्षालितमपि पात्रं सर्वथा न निरवयवं भवति, पचादपि गन्धस्योपलभ्यमानत्वात्, अथ गन्ध एव केवल उपलभ्यते न तु तदवयवः कचिदस्तीति ब्रूषे, ततआह-नच 'अद्रव्याः' द्रव्यरहिताः‘गुणाः’गन्धादयः सम्भवन्ति, ततो गन्धोपलम्भादवश्यं तत्र धौतेऽपि केचन सूक्ष्मा अवयवा द्रष्टव्याः, ततो भण्यते- 'एवमपि' अपिरत्र सामर्थ्याद्गम्यते भवत्परिकल्पितप्रकारेणापि कुतः सूक्ष्मपूतेः 'शुद्धिः' परिहारो ?, नैव कथञ्चन इति भावः तस्मात्पूर्वोक्त एव सूक्ष्मपूतिः, तस्य च प्रज्ञापनामात्रं, न तु परिहरणं कर्त्तुं शक्यमिति स्थितं । ननु यदि स परमार्थतः सूक्ष्मपूतिस्ततस्तस्यापरिहारनियमादंशुद्धिः प्राप्नोति, सांऽपिचसूक्ष्मपूतिः सकललोकव्यापीष्यते, गन्धादिपुद्गलानां क्रमण सकललोकव्यापनसम्भवात्, ततो यदा तदा वा क्वाप्याधाकर्म्मसम्भवे सर्वेषामपि साधूनामशुद्धिः प्राप्नोतीति, नैष दोषी, गन्धादिपुद्गलानां चरणभ्रंशापादनसामर्थ्यायोगात्, न चैतदनुपपन्नं, लोकेऽपि तथा दर्शनात्, तथाहि
मू. (२८९)
लोएवि असुगंधा विपरिणया दूरओ न दूसंति ।
नय मारंति परिनया दूरगयाओ अवि विसावयवा ।।
Jain Education International
वृ. लोकेऽपि 'अशुचिगन्धाः' अशुचिसत्का गन्धपुद्गला दूरत आगता विपरिणताः सन्तः ‘परिणताः ' पर्यायान्तरमापन्ना मारयन्ति, तथेहाप्याधाकर्मणः सम्बन्धिनो गन्धादिपुद्गला दूरतः समागच्छन्तो
For Private & Personal Use Only
www.jainelibrary.org