SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ मूल-२५६ ३२७ म. (२५६) देहि इममा सेससं अंतो बहिरगयं व एगयरं। जाव अमुगत्तिवेला अमुगं वेलं च आरब्भ। वृ. इदं शाल्योदनादिकमुद्धरितं देहि मा 'शेष' कोद्रवकूरादि, अनेन द्रव्यच्छिन्नमुक्तं, तदपि च शाल्योदनादिकमन्तर्व्यवस्थितं बहिर्व्यवस्थितं वा एकतरंन शेषम्, अनेन क्षेत्रच्छिन्नमुक्तं, तथाऽमुकस्या वेलाया आरभ्ययावदमुकावेला, यथाप्रहरादारभ्ययावत्महरद्वयं तावदेहि, अनेन कालच्छिन्नमुभावच्छिन्नं तु स्वयमभ्यू तच्चैवं-यावत्तव रोचते तावद्देहि मा स्वरुचिमतिक्रम्यापि। मू. (२५७) दव्वाईछिन्नपि हु जइ भणई आरओऽविमा देह। नो कप्पइ छिन्नपि हु अच्छिन्नकडं परिहरंति॥ वृ. इह यद् द्रव्यक्षेत्रादिभिः पृथग्निर्धारितं तदतिरिव्य शेषं समस्तमपि कल्पते, तस्य दानार्थ सङ्कल्पितत्वाभावात.केवलंद्रव्यादिच्छिन्नमपि-द्रव्यक्षेत्रादिभिपृथग्निर्धारितमपि हुः' निश्चितंयदिगृहस्वामी आरत एव-देयस्यवस्तुनो नियतादवधेरागपिभणति, यथा माइत ऊर्ध्वं कस्मायपि देहीति, यथाप्रहरद्वयं यावत्पूर्व किश्चिद्दातुं निरोपितं, ततो दानपरिणामाभावादगेव निषेधति-'मा इत ऊर्ध्वं दद्या दिति तदा तच्छिन्नमपिकल्पते,तस्यसम्प्रत्यामीयसत्ताकीकृतत्वात्,यत्पुनरच्छिन्नकृतमुच्छन्नम-अनिर्धारितंकृतंवत्तते तत्परिहरन्ति,अकल्प्यत्वात्, इत्थमेवभगवदाज्ञाविजृम्भणा,यदात्वच्छिन्नमपिपश्चाद्धानपरिणामाभावादगेवात्मार्थीकृतं भवति तदा तत्कल्पते। सम्प्रति सम्प्रदानविभागमधिकृत्य कल्प्याकल्प्यविधिमाहमू. (२५८) अमुगाणंति व दिनउ अमुकाणं मित्ति एत्थ उविभासा। जत्थ जईण विसिट्टो निद्देसोतं परिहरंति॥ वृ.अमुकेभ्योदद्यात्माऽमुकेभ्यइत्येवंसम्प्रदानविशेषविषयेसङ्कल्पे कृतेविभाषाद्रष्टव्या,कदाचित्कल्पते कदाचिन्न, तत्र यदा कल्पते यदा च न तदाह-'जत्थे'त्यादि, यत्र देये वस्तुनि यतीनामप्यविशेषेण निर्देशो भवति, यथा ये केचन गृहस्था अगृहस्था वा भिक्षाचरा यदिवा ये केचित्पाखण्डिनो यद्वा ये केचन श्रमणास्तेभ्यो दातव्यमिति तत्परिहरन्ति, यत्र तु यतीनामेव विशेषेण निर्देशो यथा यतिभ्यो दातव्यमिति तत्परिहरन्त्येव नात्र कश्चित्सन्देह इति तत्पृथग्विशेषेण नोक्तं , यदि पुनर्गृहस्थेभ्य एव दीयतां, यदिवा चरकादिभ्य एव पाखण्डिडभ्यो नशेषेभ्यस्तदा कल्पते, अपि च । म. (२५९) । संदिस्संतं जो सुणड कप्पए तस्स सेसए ठवणा। संकलिय साहणं वा करेंति असुए इमा मेरा॥ वृ. यन्नाद्याप्यौद्देशिकं जातं वर्तते केवलं तदानीमेवोद्दिशयमानं वर्तते, यथा इदं देहि मा शेषमित्यादि, तत्सन्दिश्यमानमअर्थिभ्योदानायवचनेनसङ्कल्प्यमानंयःसाधुःशृणोति तस्यतत्कल्पतेतदेव, दोषाभावात्, तदपिच उद्दिष्टादेशिकादिद्रष्टव्यं, नकृतं कर्मच,यत उक्तं मूलीकायाम् अत्रचार्यविधिः-संदिस्संतं जो सुणइ साहू उद्देसुद्देसेयं पडुच्च, न य कडकम्माई, तं कप्पए तदैव दोषाभावा"दिति । यस्तु सन्दिश्यमानं न श्रृणोतितस्यनकल्पते,कुतः? इत्याह-'ठवण'त्तिस्थापनादोषात्,सचनिर्गतःसन्नन्येभ्यःसाधुभ्योनिवेदयति, तथा चाह- 'सलिए'त्यादि अश्रुते' शेषसाधुभिरनाकर्णिते इयं पूर्वपुरुषाचीर्णा मर्यादा, यदत सङ्कलिकया एकः सङ्घाटकोऽन्यस्मै कथयति सोऽप्यन्यस्मायित्येवंरूपया 'साहणं' कथनं करोति. वाशब्दो यदि साधवो बहुप्रमाणास्तदैकस्यावस्थानमितिसूचनार्थः,ससर्वेभ्यो निवेदयति, यथामाऽस्मिन् गृहेवाजिषुः, अनेषणा वर्त्तत इति । एवमपि यैः सङ्घाटकैः कथमपि न ज्ञातं भवति तेषां परिज्ञानोपायमाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003330
Book TitleAgam Suttani Satikam Part 26 Oghniryukti Pindniryukti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages436
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_oghniryukti, & agam_pindniryukti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy