________________
३१६
पिण्डनिर्युक्तिः- मूलसूत्रं
व्युत्पत्तेः, तस्यां सङ्ग्रड्यां यदुद्धरितं 'कूरव्यञ्जनादिकं' शाल्यादनदध्यादिकं प्रचुरं, तदृष्ट्वा गृही भणति स्वकुटम्बतप्तिकारकं मानुषं यथेदं देहि पुण्यार्थं भिक्षाचरेभ्यः । तत्र यदा यथैवास्ति तथैव ददाति तदा तदुद्दिष्टं, यदा तु तद्देयं करम्बादिकं करोति तदा तत्कृतं, यदा तु मोदकादिचूर्णं भूयोऽपि गुडपाकदानादिना मोदकादि करोति तदा तत्कर्म, एवं विभागौद्देशिकस्य सम्भवः । तथा चाह भाष्यकृत्
मू. (२५१)
तत्थ विभागुद्देसियमेवं संभवइ पुव्वमुद्दिनं । सीसगणहियवाए तं चैव विभागओ भणइ ।।
वृ. तत्रोद्धरिते प्रचुरकूरादौ ' एवं ' पूर्वोक्ते न प्रकारेण विभागौद्देशिकं पर्वमुद्दिष्टं सम्भवति । सम्प्रति तदेव विभागौद्देशिकं विभागतो भेदेन शिष्यगणहितार्थं ग्रन्थकारो भणति
मू. (२५२)
उद्देसियं समुद्देसियं च आएसियं समाएसं । एवं कडे य कम्मे एक्केक्कि चउक्कओ भेओ ॥
वृ. 'उद्दिष्टं' विभागीद्देशिकं चतुर्द्धा, तद्यथा औद्देशिकं समुद्देशिकमादेशं समादेशं च, एवं कृते च कर्म्मणि च एकैकस्मिन् 'चतुष्कः' चतुः सङ्ख्यो भेदो दृष्टः, सर्वसङ्ख्यया द्वादशधा विभागौद्देशिकम् ॥ जावतियमुद्देसं पासंडीणं भवे समुद्देसं । समणाणं आएसं निग्गंथाणं समाएसं ॥
मू. (२५३)
वृ. इह यत् उद्दिष्टं कृतं कर्म वा यावन्तः केऽपि भिक्षाचराः समागमिष्यन्ति पाखण्डिनो गृहस्था वा तेभ्यः सर्वेभ्योऽपि दातव्यमिति सङ्कल्पितं भवति तदा तदौदेशिकमुच्यते, पाखण्डिनां देयत्वेन कल्पितं समुद्देशं, श्रमणानामादेशं, निर्ग्रन्थानां समादेशं । सम्प्रत्यमीषामेव द्वादशानां भेदानामवान्तरभेदानाहमू. (२५४) छिन्नमछिन्नं दुविहं दव्वे खेत्ते य का भावे य । निप्फाइयनिप्फलं नायव्वं जं जहिं कम ॥
वृ.उद्दिष्टमुद्देशादिकंप्रत्येकंद्विधा, तद्यथा-छिन्नमच्छिन्नंच, छिन्नंनियमितम् अच्छिन्नमनियमितं, पुनरपि छिन्नमच्छिन्नं च चतुर्द्धा तद्यथा-द्रव्ये क्षेत्रे काले भावे च, एवं यथा उद्दिष्टमौद्देशिकादि प्रत्येकमष्टधा तथा निष्पादितनिष्पन्नमिति निष्पादितेन गृहिणा स्वार्थं कृतेन निष्पन्नं यत् करम्वादि मोदकादि वा तन्निष्पादितनिष्पन्नमित्युच्यते, ततो यन्निष्पादितनिष्पन्नं यत्र कृते कर्मणि वा 'क्रामति' घटते, यथव यदि करम्बादि तर्हि कृते अथ मोदकादि तर्हि कर्मणि, तत्प्रत्येकमौद्देशिकादिभेदाभिन्नं छिन्नमिच्छिन्नं चेत्यादिना प्रकारेणाष्टधा ज्ञातव्यम् ॥ सम्प्रत्यमुमेव गाथार्थ व्याचिख्यासुः प्रथमतो द्रव्याद्यच्छिन्नं व्याख्याति
मू. (२५५)
Jain Education International
-
भत्तुव्वरियं खलु संखडीए तद्दिवसमन्नदिवसे वा ।
अंता बहिं च सव्वं सव्वदिनं दहि अच्छिन्नं ।।
वृ. यत् सङ्घड्यां भक्तमुद्धरितं प्रायः प्राप्यत इति सङ्घडिग्रहणम्, अन्यथा त्वन्यदाऽपि यथासम्भवं - द्रष्टव्यं, तद्दिवसमिति`व्यत्ययाऽप्यासा' मितिप्राकृतलक्षणवशात् सप्तम्यर्थे प्रथमा, ततोऽयमर्थः- यस्मिन्दिवसे सङ्घडिः तस्मिन्नेव दिवसे, यद्वा-अन्यस्मिन् दिवसे गृहनायको भार्यादिना दापयति, यथा यदन्तर्गृहस्य यच्च बहिः, अनेन क्षेत्राच्छिन्नमुक्तं, तत् सर्वं समस्तम्, अनेन द्रव्याच्छिन्नमुक्तं सर्वदिनं सकलमपि दिन यावद. उपलक्षणमेतत् तेन कर्म्मरूपं मोदकादि प्रभूतान्यपि दिनानि यावदिति द्रष्टव्यम्, अनेन कालच्छिन्नमुक्ताम अच्छिन्नम्-अनवरतं देहि, भावाच्छिन्नं तु स्वयमभ्यूह्यं, तच्चैवं यदि तव रोचते यदिवा न रोचते तथाप्यवश्यं दातव्यमिति । सम्प्रति द्रव्यादिच्छिन्नमाह
For Private & Personal Use Only
www.jainelibrary.org