________________
मूलं- २४६
३१५
एस जुत्तो होज्जा गोणीवच्छो गवत्तिव्व ॥
मू. (२४७)
वृ. इह साधुः ‘गोचरगतः' भिक्षार्थं प्रविष्टः सन् 'श्वादिषु' शब्दरूपरसादिषु मूर्च्छा न कुर्यात्, किन्त्वेषणायुक्त उद्गमादिदोषगेवषणाभियुक्तो भवेत्, यथा गोवत्सः 'गवत्तिव्व' त्ति गोभक्त इव ।। ऊसव मंडणवग्गा न पाणियं वच्छए न वा चारि । वणियागम अवरण्हे वच्छगरडणं खरंडणया || पंचविहविसयसोक्खक्खणी वहू समहियं गिहं तं तु । न गणेड़ गोणिवच्छो मुच्छिय गढिओ गवत्तंमि ॥
मू. (२४८)
वृ. गुणालयंनागनगरं, तत्रसागरदत्तो नाम श्रेष्ठीतस्य भार्या श्रीमतीनामा, श्रेष्ठिनाचपूर्वतरंजीर्णमन्दिरं भङ्क्त्वा प्रधानतरं मन्दिरं कारयामासे, तस्य च चत्वारस्तनयाः, तद्यथा-गुणचन्द्रो गुणसेनो गुणचूडो गुणशेखरच. एतेषां च तनयानां क्रमेण चतस्र इमावध्वः, तद्यथा- प्रियङ्गुलतिका प्रियङ्गुरूचिका प्रियङ्गुसारिका च. कालेन च गच्छता श्रेष्ठिनो भार्या मरणमुपजगाम, ततः श्रेष्ठिना प्रियङ्गुलतिकेव सर्वगृहतप्तौ निरोपिता. गृह च सवत्सा गौर्विद्यते, तत्र गौर्दिवसे बहिर्गत्वा चरति, वत्सस्तु गृह एव बद्धोऽवतिष्ठते, तस्मै च चारि पानीयं चचतस्रोऽपिवध्वोयथायोगंप्रयच्छन्ति । अन्यदाचगुणचन्द्रप्रियङ्गुलतिकापुत्रस्यगुणसागरस्यविवाहदिवस उपतंस्थे, ततस्ताः सर्वा अपिवध्वस्तस्मिन्दिने सविशेषमाभरणविभूषिताः स्वपरमणौडनादिकरणव्यापृता अभूवन्, ततो वत्सस्तासां विस्मृतिं गतो, न कयाचिदपि तस्मै पानीयादि ढौकितं, ततो मध्याह्ने श्रेष्ठी यत्र प्रदेशे वत्सो वर्त्तते तत्र कथमपि समायातः, वत्सोऽपि च श्रेष्ठिनमायान्तं पश्यन्नारटितुमारब्धवान्, ततो जज्ञे श्रेष्ठिना यथाऽद्यापि वत्सो बुभुक्षितस्तिष्ठती ततः कुपितेन तेन ताः सर्वा अपि पुत्रवध्वो निर्भर्त्सयामासिरे, ततस्त्वरितं प्रियङ्गुलतिका अन्या च यथायोगं चारिं पानीयं च गृहीत्वा वत्साभिमुखं चचाल, वत्सश्च ताभिः सुरसुन्दरीभिरिव समलङ्कृतमपि तादृशं गृहं नावलोकते, नापि ताः सरागदृष्ट्या वधूः परिभावयति, किन्तु तामेव केवलां चारि पानीयं वा समानीयमानं सम्यक् परिभावयति ।
सूत्रं सुगमं, नवरं 'पञ्चविह' इत्यादि, पञ्चविधविषयसौख्यस्य खनय इव खनयो या वध्वस्ताभिः ‘समधिकम्' अतिशयेन रमणीयतया अधिकतरं तद्गृहं न गणयति' न दृष्ट्या परिभावयति. नापिता वधू एवं साधुरपि भिक्षार्थमटन्न रमणीया रमणीरवलोकयेत्, नापि गीतादिषु चित्तं निबन्धीयात्, किन्तु भिक्षामात्रानयनदानाद्युपयुक्तो भवेत्, तथा च सति ज्ञास्यति शुद्धमशुद्धं वा भिक्षादिकम। तथा चाहमू. (२४९) गमनागमनुक्खेवे भासिय सोयाइइंदियाउत्तो ।
एमनेसणं वा तह जाणइ तम्मणो समणी ।।
वृ. 'गमन' साधार्भिक्षादानार्थ भिक्षानयनाय दाच्या व्रजनम 'आगमनं' भिक्षां गृहीत्वा साधारभिमुखं चलनम् `उत्क्षेपः’ भाजनादीनामूर्ध्वमुत्पाटनम् उपलक्षणमेतत तेन निक्षेपपरिग्रहः, ततो गमनादिपदानां समाहारो हुन्छःतस्मिन्, तथा भाषितेषु' जल्पितेषु देहिभिक्षामस्मै साधवे इत्यादिरूपेषु श्रोत्रादिभिरिन्द्रियरुपयुक्तः, तथावत्सइव' तन्मनाः' स्वयोग्यभक्त पानीयपरिभावनमनाः सर्ने श्रमणएषणामनेषणां वा सम्यग् जानानि ततो न कचिद्दोषः । उक्तमोघौद्दशिकं, सम्प्रति विभागाद्देशकं विभणिषुः प्रथमतः तस्य सम्भवमाहमू. (२५०) महईए संखडीए उव्वरियं कूरवंजणाईयं ।
पउरं दट्टण गिही भणड़ इमं देहि पुण्णट्टा ॥
वृ. इह सङ्घडिर्नाम विवाहादिकं प्रयकरणं, सड्यन्ते वयापाद्यन्ते प्राणिनोऽस्यामिति सङ्घडिरिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org