________________
३०६
महामिथ्यादृष्टिरिति ॥ अन्यच्चमू. (२०९)
वड्डेई तप्पसंग गेही अ परस्स अप्पणो चेव । सजियंपि भिन्नदाढो न मुयइ निब्बंघसो पच्छा ॥
वृ. साधुराधाकर्म्म गृह्णानः परस्य 'एक्केण कयमकज्जं' इत्यादिरूपया पूर्वोक्त नीत्या 'तत्प्रसङ्गम्' आधाकर्म्मग्रहणप्रसंङ्गं वर्द्धयति आत्मनोऽपि, तथाहि सकृदपि चेदाधाकर्म्म गृह्णात तर्हि तद्गतमनोज़रसास्वादलाकम्पट्यतो भूयोऽपि तद्ग्रहणे प्रवर्त्तते, तत एवमेकदाऽप्याधाकर्म्म गृह्णान् परस्यात्मनश्र तत्प्रसङ्ग वर्द्धयति, तत्प्रसङ्गवृद्धौ च कालेन गच्छता परस्यात्मनश्रगृद्धिः - अत्यन्तमासक्तिः उपजायते, ततो विशिष्टविशिष्टतरमनोज्ञरसास्वादनेन भिन्नदंष्ट्राको 'निद्धन्वसः' आगतसर्वथानयावासनाको भूत्वा पश्चात्स्वयं परो वा ‘सजीवमपि' सचेतनमपि चूतफलादिकं न मुञ्चति, तदमोचने च दूरं दूरतरमपसप्पन्नपगतसर्वथाजिनवचनपरिणामो मिथ्यात्वमपि गच्छतीति । सम्प्रति विराधनादोषं भाववति
मू. (२१० )
पिण्डनियुक्तिः- मूलसूत्रं
खद्धे निद्धे यरूया सुत्त हानी तिगिच्छणे काया । पडियरगाणवि हानी कुणइ किलेसं किलिस्संता ॥
वृ. आधाकर्म्म प्रायः प्राघूर्णकस्यैव गौरवेण क्रियते, ततस्तत्स्वादु स्निग्धं च भवति, तस्मिंश्च 'खद्धे' प्रचुरे ' स्निग्धे' बहुस्नेहे भक्षिते 'रुजा' रोगो ज्वरविसूचिकादिरूपः प्रादुर्भवति, इयमात्मविराधना, ततो रुजापडितस्य ' सूत्रे' सूत्राग्रहणमुपलक्षणं अर्थस्यच हानिः, तथा यदि चिकित्सां न कारयतितर्हिचिरकालसंयमपरिपालनभ्रंशः, अथ कारयति तर्हि चिकित्सने क्रियमाणे 'कायाः ' तेजस्कायादयो विनाशमाविशन्ति, तथा चसतिसंयमविराधना, तथा‘“प्रतिचारकाणामपि ' परिपालकानामापिसाधूनांतद्वैयावृत्यव्यापृततया सूत्रार्थहानिः, षट्कायोपमर्द्दकारणानुमोदनाभ्यां चसंयमस्यापि हानिः, तथाप्रतिचारकास्तदुक्तं यावन्न प्रपारयन्ति तावत्सः ‘क्लिश्यमानः’ पीडां सोढुमशक्नुवन् भेत्यः कुप्यति, कुप्यंश्च तेषामपि मनसि क्लेशमुत्पादयति, अथवा क्लिश्यमानो दीर्घकालं क्लेशमनुभवन् प्रतिचारकाणमपि जागरणतः क्लेशं - रोगमुत्पादयति, ततस्तेषामपिचिकित्साविधौषट्कायविराधना । तदेवंव्याख्याता सकलाऽपि 'आहाकम्मियनाम' इत्यादिका मूलद्वारगाथा, सम्प्रत्याधाकर्म्मण एवाकल्प्यविधिं विभणिषुः सम्बन्धमाह
मू. (२११) जह कम्मं तु अकप्पं तच्छिक्कं वाऽवि भायणठियं वा ।
परिहरणं तस्सेव य गहियमदोसं च तह भणड़ ||
वृ. यथा 'कर्म्म' आधाकर्म्म अकल्प्यम्, अभोज्यं, यथा च तेनाधाकर्म्मणा स्पृष्टकल्प्यं यथा च ‘भाजनस्थितं’यस्मिन्भाजनं तदाधाकर्म्म प्रक्षिप्तं तस्मिन्नाधाकर्म्मपरित्यागानन्तरमकृतकल्प्यत्रयप्रक्षालने यतः क्षिप्तं शुद्धमशनादि तदपि यथा न कल्प्यं यथा च तस्याधाकर्म्मणः परिहारो विध्यविधिरूपो यथा न गृहीतं सदभक्त मदोष भवति तथा गुरुर्भणति । अनेन यथैवागमं पिण्डविशुद्धिरभाणि तथैवाहमपिभणामीत्यावेदितं द्रष्टव्यम्, अनया च गाथया पश्च द्वाराणि प्रतिपाद्यान्युक्तानि ॥ सम्प्रति तान्यव सविशेषं प्रतिपाद्यत्वेनाहमू. (२१२) अब्भोज्जे गमनाइ य पुच्छा दव्वकुलदेशभावे य ।
एव जयंते छलणा दिट्टंता तत्थिमे दोत्रि ॥
Jain Education International
वृ. यथा साधूनामाधाकर्म्म तत्स्पृष्टं कल्पत्रयाप्रक्षालितभाजनस्थं वा अभोज्यं तथा भणनीयं, तथा अविधिपरिहारे गमनादिकाः कायक्लेशादिलक्षणा दोषावक्तव्याः, तथा विधिपरिहारे कर्त्तव्ये यथाद्रव्यकुलदेशभावे पृच्छा कर्त्तव्या चशब्दाद्यथा च न कर्त्तव्या ताथ वक्त व्यम्, एवं यतमाने प्रायश्छलनाया असम्भवो,
For Private & Personal Use Only
www.jainelibrary.org