________________
मूलं - २०४
३०५
पात्रोद्ग्रहणादारभ्यतावत्यावन्नाद्याप्युपयोगकरणानन्तरं ग्रहणाय प्रचलति, 'पदभेदादौ' चपदस्य चरणस्य भेदः-उत्पाटनं तदादौ, आदिशब्दाद्गमने गृहप्रवेशने करोटिकोत्पाटने ग्रहणाय पात्र प्रसारणे व्यतिक्रमो दोषः, गृहीते त्वाधाकर्म्मणि तृतीयोऽतीचारलक्षणो दोषः, स च तावद्यावद्वसतावागत्य गुरुसमक्षमालोच्य स्वाध्यायं कृत्वा गले तदाधाकर्म्म नाद्यापि प्रक्षिपति, गिलिते त्वाधाकर्म्मणि 'इतरः ' चतुर्थो दोष:अनाचारलक्षणः । तदेवं ‘चउरो' इति व्याख्यातं सम्प्रति 'गहणे य आणाई' इति व्याख्यानयन्नाह - मू. (२०५) आनो य दोसा गहणे जं भणियमह इमे ते उ । आणाभंगऽनवत्था मिच्छत्त विराधना चेव ॥
वृ. यदुकतम् ‘आधाकम्मियनामे' त्यादिमूलद्वारगाथायामाधाकर्म्मग्रहणे ' आज्ञादयः' आज्ञाभङ्गादयो दोषाः ते इमे, तद्यथा - आज्ञाभङ्गोऽनवस्था मिथ्यात्वं विराधना च ॥ तत्र प्रथमत आज्ञाभङ्गदोषं भावयतिमू. (२०६) आणं सव्वजिणाणं गिण्हंतो तं अइक्कमइ लुद्धो । आणं च अइकमंतो कस्साएसा कुणइ सेसं ? |
वृ. ‘तद्’ आधाकर्म्मिकमशनादिकं लुब्धः सन् गृह्णानः सर्वेषामपि जिनानामाज्ञामतिक्रामिति, जिना हि सर्वेऽप्येतदेव ब्रुवन्ति स्म-यदुत मा गृह्णीत मुमुक्षवो ! भिक्षव आधाकर्म्मिकां भिक्षामिति ततस्तदाददानो जिनाज्ञामतिक्रामिति, तांचातिक्रामन्कसयनाम ! आदेशाद् - आज्ञायाः 'शेष' केशश्मश्रुलुञ्चनभूशयनमलिनवासोधारणप्रत्युपेक्षणाद्यनुष्ठानंकरोति ?, नकस्यापीतिभावः, सर्वस्यापि सर्वज्ञाऽऽज्ञाभङ्गकारिणोऽनुष्ठानस्य नैष्फल्यात् ॥ अनवस्थादोषं भावयति
मू. (२०७)
एक्केण कयमकज्जं करेइ तप्पच्चया पुनो अन्नो । सायाबहुलपरंपर वोच्छेओ संजमतवाणं ॥
वृ. इह प्रायः सर्वेऽपि प्राणिनः कर्मगुरुतया दृष्टमात्रसुखभिलाषिणो न दीर्घसुखदर्शिनः तत एकेनापि साधुना यदाऽऽधाकर्म्मपरिभोगादिलक्षणमकार्यमासेव्यते तदा तत्प्रत्ययात् तेनापि साधुना - तत्त्वं विदुषाऽपि सेवितमाधाकर्म्म ततो वयमपि किं न सेविष्यामहे ? इत्येवं तमालम्बनीकृत्यान्योऽप्यासेवते तमप्यालम्ब्यान्यः सेवते, इत्येवं सातबहुलानां प्राणिनां परम्परया सर्वथा व्यवच्छेदः प्राप्नोति संयमतपसां तद्यवच्छेदे च तीर्थव्यवच्छेदो, यश्च भगवत्तीर्थविलोपकारी स महाऽऽशातनाभागित्यनवस्थादोषभयान्न कदाचनाप्याधाकर्म्म सेवनीयं ॥ मिथ्यात्वदोषं भावयति
मू. (२०८)
3
जो हवायं न कुणड़ मिच्छद्दिट्टी तओ हु को अन्नो ? । वड्ढेइ यमिच्छत्तं परस्स संकं जनेमातो ॥
वृ. इहयद्देशकालसंहननानुरूपं यथाशक्ति यथावदनुष्ठानं तत्सम्यक्त्वं, यत उक्त माचारसूत्रे - "जं माणंति पासहा तं सम्मति पासहा, जं सम्मति पासहा तम्माणंति पासहा" इति, ततो यो देशकालसंहननानुरूपं शक्त्यनिगूहनेन यथागमेऽभिहितं तथा न करोति ततः सकाशात्कोऽन्यो मिथ्यादृष्टिः ?, नैव कचित्, किन्तु स एव मिथ्यादृष्टीनां धुरियुज्यते, महामिथ्यादृष्टित्वात्, कथं तस्यमिथ्यादृष्टिता ? इत्यत आह- 'वड्डेइ' इत्यादि, चशब्दों हेतौ यस्मात्स यथावासमकुर्वन् परस्य शङ्कामुत्पादयति, तथा उतथाहि यदि यत्प्रवचनेऽभिधीयते तत्तत्त्वं तर्हि किमयं तत्त्वं जानानोऽपि तथा न करोति ?, तस्माद्वितथमेतत्प्रवचनोकतमिति, एवंच परस्यशङ्कां जनयन् मिथ्यात्वं सन्तानेन वर्द्धयति, तथा च प्रवचनस्य व्यवच्छेदः, शेषास्तु मिथ्यादृष्टयो नैवं प्रवचनस्य मालिन्यमापाद्य परम्परया व्यवच्छेदमाधातुमीशाः, ततः शेषमिथ्यादृष्टयपेक्षयाऽसौ यथावादमकुर्वन
261 20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org