________________
३०३
मूलं-१९६ विवर्द्धमाना छायासकलमपिग्राममभिव्याप्यवर्तते, अतस्तत्स्पृष्टं सकलमपि गयामसम्बन्धिवसत्यादिकं 'पूतिकमिव' तृतीयोद्गमदोषदुष्टमशनादिकमिव न कल्पते, न चैतदाममोपदिष्टं, तन्नाधाकर्मिकी वृक्षस्य छाया,अपिच-प्रागेवैतदुक्तं सूर्यप्रत्ययासाछायानवृक्षहेतुका,नचसूर्यःसुविहितानाधायछायांनिवर्त्तयति ततः कथमाधाकर्मिकी? । यदि पुनराधाकर्मिकीभवेत्, तर्हिम. (१९७) अघणघणचारिगगणे छाया नट्टा दिया पनो होइ।
कप्पइ निरायवे नाम आयवेतं विवजेउं॥ वृ.अघना-विरलाघना-मेघाःचारिणः-परिभ्रमणशीलायत्रइत्थंभूतेगगने, विरलविरलेषुनभसिमेघेषु परिभ्रमत्सु इत्यर्थः, छाया नष्टापि सती दिवा पुनरपि भवति, ततो मेघेरन्तरिते सूर्ये 'निरातपे' आतपाभावे तस्य वृक्षस्याधस्तनं प्रदेशं सेवितुं कल्पते, आतपेतुतं वर्जयितुं, नचायं विषयविभागः सूत्रेऽपदिश्यतेनच पूर्वपुरुषाचीर्णोनापिपरेषांसम्मतः.तस्मादसदेतत्परोक्त मिति।इहपूर्ववृक्षसम्बन्धित्वेनछायामाधाकर्मिकीमाशङ्कय नट्ठच्छाएउदुमेकप्पइ' इत्याधुक्तम्,इदानींतुरविकृतत्वेनाधाकर्मिकीमाशय कप्पइनिरायवे नाम' इत्याधुक्तम्,अतोनपुनरुक्ताता।सम्प्रतिछायानिर्दोषतानिगमनमगीतार्थधार्मिकाणांपरेषांकिश्चिदाश्वासनं च विवक्षुराह... मू. (१९८) तम्हा नएस दोसो संभवई कम्मलक्खणविहूणो।
____ तंइप यहु अइघिणिल्ला वज्जेमाणा अदोसिल्ला॥ वृ. यस्मात्फलमपि द्वितीये भङ्गे कल्पते तथा रविहेतुका छाया इत्यादि चोक्तं तस्मादाधाकर्मिकी छायेतियो दोष उच्यतेसएष दोषोनसम्भवति, कृतः? इत्याह- 'कर्मलक्षणविहीन' इति, अत्र हेतौ प्रथमा, कर्मेतिचआधाकम्र्मेति द्रष्टव्यं, ततोऽयमर्थः-यत आधाकर्मलक्षणविहीनएष दोषः, नहितरुरिव छायापि क वृद्धिंनीताइत्यादि, तस्मान्नैषदोषःसम्भवति,अथवा 'तामपि आधाकर्मिकवृक्षच्छायां हुः निश्चित्तम् 'अतिघणावन्तः' अतिशयेन दयालवो विवजयन्तः परेऽदोषवन्तः। तदेवमुक्त मानुषङ्गिक, तदुक्तौ च 'आहाकम्मियनाम' इत्यादिमूलद्वारगाथायां किंवावि?' इति व्याख्यातं, सम्प्रति परपक्खो यसपक्खो' इति द्वारद्वयं व्याख्यानयन् प्रसङ्गतो निष्ठितकृतयोः स्वरूपं ताभ्यामुत्पन्नं भङ्गचतुष्टयं चाह.. मू. (१९९) परपक्खो उगिहित्था समणो समणीउ होइ उसपक्खो।
फासुकडं रद्धं वा निट्ठियमियरं कडं सव्वं॥ मू. (२००) तस्स कडनिट्ठियमी अन्नस्स कडंमि निट्ठिए तस्स।
. चउभंगो इत्थभवे चरणद्गे होइ कप्पं तु॥ वृ.इहपरपक्षः गृहस्थाः' श्रावकादयः, तेषामर्थाय कृतं साधूनामाधाकर्मनभवति, स्वपक्षः श्रमणाः' साधवः समीउत्तिश्रमण्योतिन्यः तेषामयिकृतंसाधूनामाधाकर्मवदितव्यं,तथाप्रासुकंकृतंकरट्यादिकं सचेतनं सत् साध्वर्थं निश्चैतनीकृतं यच्च स्वयमचेतनमपि तण्डुलादिकं कूरत्वेन निष्पादितं तन्निष्ठितमित्युच्यते, इतरत्पुनरेषगुणद्विगुणकण्डिततण्डुलादिकं सर्वं कृतमिति । अत्र च कृतनिष्ठितविषये तस्य साधारय कृते निष्टिते च तथा अन्यस्याप्यर्थाय कृते तस्य साधोराय निष्ठिते भक्तादौ चतुर्भङ्गिका भवति, तत्रप्रथमतृतीयभङ्गौसाक्षाद्दर्शितौ द्वितीयचतुर्थौतुगम्यौ, तौचैवं-तस्यकृतमन्यस्यनिष्ठितमन्यस्य कृतमन्यस्यनिष्ठितं, तत्रोपात्तयोयोर्भङ्गयोःचरमौ-अनुक्तौपाश्चात्यौ द्वौभङ्गौ, (द्वितीय) चतुर्थावित्यर्थः, प्रथमस्य हि द्वितीयः पाश्चात्यस्तृतीयस्य तु चतुर्थः, तत उपात्तपयथमतृतीयभङ्गापेक्षया चरमौ द्वितीयचतुर्थों
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org