________________
पिण्डनिर्युक्तिः- मूलसूत्रं दादेशेनैकेनान्यस्मै दत्तास्तेनाप्यन्यस्मायित्येत्ंयावत्सहस्रसङ्ख्ये स्थानेगताः, ततः परंगताः कल्पन्तेनार्वाक्, अपरेषां त्वादेशेन न कदाचिदपि, यदि पुनरेकं द्वौ वा वारौ साधुनिमित्तमात्मनिमित्तं वा कण्डितास्तृतीयं तु वारमात्मनिमित्तं राब्दाः पुनः साध्वर्थं ते कल्पन्ते, यदि पुनरेकं द्वौ वा वारौ साधुनिमित्तमात्मनिमित्तं वा कण्डितस्तृतीयं तु वारं साध्वर्थमेव, तैरेव च तण्डुलैः साधुनिमित्तं निष्पादितः कूरः स निष्ठितकृत उच्यते, निष्ठितैराधाकर्मतंडुलैः कृतो-निष्पादितो राद्ध इत्यर्थः निष्ठितकृतः, ससाधूनां सर्वथानकल्पते, कुतः ? इत्याह‘आहाकम्मं’ इत्यादि, आधाकर्म्म प्रतीतं द्विगुणमाहुस्तीर्थकरादयस्तं निष्ठितकृतं कूरं तत्रैकमाधाकर्म्मनिष्ठिततण्डुलरूपं द्वितीयं तु पाकक्रियारूपं, तदेवमुक्तो निष्ठितकृतशब्दयोरर्थः, सम्प्रति चतुर्ष्वप्यशनादिषु कृतनिष्ठितता भाव्यते तत्र वपनादारभ्ययावद्वारद्वयंकण्डनं तावत्कृतत्वं, तृतीयवारंतुकण्डनंनिष्ठितत्वम्, एतच्चानन्तरमेवोक्तं पानेकूपादिकंसाधुनिमित्तंखनितं, ततोजलमाकृष्टं, ततोयावत्प्रासुकीक्रियमाणं नाद्यापि सर्वथा प्रासुकीभवति तावत्कृतं, प्रासुकीभूतं चनिष्ठितं, खादिमेकर्कटिकादयः साधुनिमित्तमुप्ताः क्रमेण निष्पन्ना यावद्दात्रादिना खण्डिताः, तानि च खण्डानि तावन्नाद्यापि पयासुकीभवन्ति तावत्कृतत्वमवसेयं, प्रासुकीभूतानिचतानिनिष्ठितानि । एवं स्वादिमेऽपिविज्ञेयं । सर्वत्रापिचद्वितीयचतुर्थभङ्गी शुद्धी, प्रथमतृतीय वशुद्धाविति । सम्प्रति खादिमस्वादिममाश्रित्य मतान्तरं प्रतिचिक्षिप्सुराह
9
मू. (१९४)
छायंपि विवज्नंती केई फलहेउगाइवुत्तस्स । तं तु न जुज्न जम्हा फलंपि कप्पं बिइयभंगे ॥
वृ . इह 'फलहेतुकादे:' फलहेतोः पुष्पहेतोरन्यस्माद्वा हेतोः साध्वर्थमुप्तस्य वृक्षस्य 'केचिद्' अगीतार्थाश्छायामप्याधाकर्म्मिकवृक्षसम्बन्धिनीतिकृत्वा 'विवर्जयन्ति' परिहरन्ति, तत्तु छायाविवर्जनं न युज्यते, यस्मात्फलमपि यदर्थं स वृक्ष आरोपितस्तत आधाकुर्म्मकवृक्षसम्बन्धिद्वितीये भङ्गे तस्य कृतमन्यार्थ निष्टितमित्येवंरूपे वर्त्तमानं सत् कल्पते किमुक्तं भवति ? - साध्वर्थमारोबितेऽपि कदन्यादौ वृक्षे यदा फलं निष्पद्यमानंसाधुसत्ताया अपनीयात्मसत्तासम्बन्धि करोतित्रोटयति च तदा तदपि कल्पते, किंपुनश्छाया?, सा हि सर्वथा न साधुसत्तासम्बन्धिनी विवक्षिता, न हि साधुच्छायानिमित्तं स वृक्ष आरोपितस्तत्कथं न कल्पते ?।। मू. (१९५) परपच्चइया छाया न विसा रुक्खोव्व वट्टिया कत्ता ।
३०२
नट्टच्छाए उ दुमे कप्पइ एवं भणंतस्स ॥
वृ. साछाया 'परप्रत्ययिका' सूर्यहेतुका, नवृक्षमात्रनिमित्ता, तस्मिन्सत्यपिसूर्याभावे अभावात, तथाहिछायानामपार्श्वतःसर्वत्रातपपरिवेष्टितप्रतिनियतदेशवर्त्ती श्यामपुद्गलात्मक आतपाभावः, इत्थंभूता चछाया सूर्यस्यैव अन्वयव्यतिरेका, चतुर्विधत्वेन द्रुमस्य, द्रुमस्तु केवलं तस्या निमित्तमात्रं, न चैतावता सा दुष्यति, छायापुद्गलानां द्रुमपुद्गलेभ्यो भिन्नत्वात्, नच 'वृक्षइव' तरुरिव 'कर्ता' वृक्षारोपण वृद्धिंनीता, तद्विषयतथारूपसङ्कल्पस्यैवाभावात्, ततो नाधाकर्म्मिकी छाया । किं च यद्याधाकर्म्मिकी छायेति न तस्यामवस्थानं कल्पते तत एवं परस्य भणतो यदा घनपटलैराच्छादितं गगनमण्डलं भवति तदा तस्मिन् द्रुमे नष्टच्छाये सति तस्याधःशीतभयादिनाऽवस्थानं कल्पतेइतिप्राप्तं, नचैतद्युक्तं, तस्मात्सएवद्रुम आधाकर्मिकस्तत्संस्पृष्टाश्राधः कतिपयप्रदेशाः पूतिरिति प्रतिपत्तव्यं, न तु च्छायाऽऽधाकर्मिकीति । पुनरपि परेषां दूषणान्तरमाहमू. (१९६) चढइ हाइ छाया तत्थिक्कं पूइयंपि व न कप्पे । आहाय सुविहिए निव्वत्तयई रविच्छायं ॥
वृ. इह छाया तथातथासूर्यगतिवशाद्वर्द्धते हीयते च ततो खेरस्तमयसमये प्रातः समये चातिद्राधीयसी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org