SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ मूलं-१९० ढक्किएणऽच्छते ताव, जाव साहुत्ति आगया॥ वृ.यथाऽशनस्याधाकर्मणः कथानकसूचनेनसम्भव उक्तस्तथा पानस्याप्याधाकर्मणो वेदितव्यः, कथानकमपि तथैव, केवलमयं विशेषः-क्वचिदग्रामे सर्वेऽपि कूपाः क्षारोदका आसीरन्, क्षारोदका नामामलकोदका विज्ञेयाः, न त्वत्यन्तक्षारजलाः, तथा सति ग्रामस्याप्यवस्थानानुपपत्तेः, ततस्तस्मिन लवणावटे क्षेत्रे क्षेत्रप्रत्युपेक्षणाय साधवः समागच्छन्, परिभावयन्ति स्म च यथाऽऽगमं सकलमपि क्षेत्रं, ततस्तन्निवासिना श्रावकेण सादरमुपरुध्यमाना अपि साधवो नावतिष्ठन्ते, ततस्तन्मध्यवर्ती कोऽपि ऋजुकोऽनवस्थानकारणं पृष्टः, सच यथावस्थितं तस्मै कथयामास-यथा विद्यन्ते सर्वेऽप्यत्र गुणाः, केवलं क्षारं जलमिति नावतिष्ठन्ते, ततो गतेषु तेषु साधुषु स मधुरोदकं कूपं खानितवान्, तं खानयित्वा लोकप्रवृत्तिजनितपापभयाद्फलकादिनास्थगितमुखं कृत्वा तावदास्ते यावत्तेवाऽन्येवासाधवःसमाययुः, समागतेषु च साधुषु मा मम गृहे केवले आधाकर्मिकशङ्का भूदिति प्रतिगृहं तन्मधुरमुदकंभाजितवान. ततः पूर्वोक्त कथानकप्रकारेण साधवो बालादीनामुल्लापानाकाधाकर्मेति च परिज्ञायतंग्रामं परिहृतवन्तः, एवमन्यत्राप्याधाकर्मपानीयसम्भवोद्रष्टव्यः, तेऽपिचबालाघल्लापविशेषैः परिकलय्यकथानकोक्त साधव इव परिहरेयुरिति। सूत्रं सुगमम् । सम्प्रति खादिमस्वादिमयोराधाकर्मणोः सम्भवमाहमू. (१९१) कक्कडिय अंबगावा दाडिम दक्खा य बीयपूराई। खाइमऽहिगरणकरणंति साइमं तिगड़गाईयं॥ वृ. कर्कटिका' चिर्भुटका 'आम्रकाणि' चूतफलानि, दाडिमानि द्राक्षाश्च प्रतीताः, बीजपूरकादिकम्, ' आदिशब्दात्कपित्यादिपरिग्रहः, एतानाश्रित्यखादिमविषये अधिकरणकरणंभवेत् पापकरणंभवेत् एतानि साधूनांशालनकादिकार्येषुप्रयुज्यन्तेइतितेषांवपनादिकुर्यादितिभावः। तथा त्रिकटुकादिकं सुण्ठीपिप्पलीमरिचकादिकमाश्रित्यस्वादिमेअधिकरणकरणंभवेत्,साधूनामौषधाद्यर्थमभूमिकल्पन्तेइतितेषारोपणादि कुर्यादिति भावः । सम्प्रति यदुक्तं प्राक् ‘तस्स कडनिट्ठियम्मी'त्यादि, तत्र कृतनिष्ठितशब्दयोरर्थमाह. मू. (१९२) । असनाईण चउण्हवि आमंजसाहुगहपाउग्गं। तं निट्ठियं वियाणसु उवक्खडं तू कडं होइ॥ ___ वृ. अशनादीनां चतुर्णामपि मध्ये यत् ‘आमम्' अपरिणतं' सत् साधुग्रहणप्रायोग्यं कृतं, प्रासुकीकृतमित्यर्थः तंनिष्ठितंविजानीत,उपस्कृतंतुअत्रापिबुद्धावादिकर्मविवक्षयांक्तप्रत्ययःततोऽयमर्थःउपस्कर्तुमारब्धमिति भावः, कृतं भवति ज्ञातव्यम्। एतदेव विशेषतो भावयतिमू. (१९३) कंडिय तिगुणुक्कंडा उनिट्टिया नेगद्गुणउक्कंडा। निट्ठियकडो उ कूरो आहाकम्मं दुगुणमाहु॥ वृ. इहयंतण्डुलाःप्रथमतःसाध्वर्थमुप्ताःततःक्रमणकरटया जातास्ततःकण्डिताः, कथंभूताःकण्डिताः? इत्याह- त्रिगुणोत्कण्डाः' त्रिगुणं-त्रीन वारान् यावत् इत-प्राबल्येन कण्डनं-छटनं येषां ते त्रिगुणोत्कण्डाः, त्रीनवारान कण्डिताइत्यर्थः, तेनिष्ठिताउच्यन्ते,येपुनर्वपनादारभययावदेकगुणोत्कण्डा द्विगुणोत्कण्डावा कृतावर्त्तन्तेते कृताः, अथवामाभूवन्साध्वर्थमुप्ताः केवलंयेकरटयःसन्तःसाध्वयंत्रिगुणोत्कण्डकण्डितास्ते निष्ठिता पच्यन्ते, येत्वेकगुणोत्कण्डं द्विगुणोत्कडंवा कण्डितास्ते कृताः, अत्र वृद्धसम्प्रदायः इहयोकंवारं द्वौ वा वारी साध्वर्थं कण्डितास्तृतीयं तुवारमात्मनिमित्तं कण्डिताराद्धाचते साधूनांकल्पन्ते, यदि पुनरेकं द्वौ वा वारौ साध्वर्थ कण्डितास्तृतीयं वारं स्वनिमित्तमेव कण्डिता राधास्तु आत्मनिमित्तं ते केषाश्चि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003330
Book TitleAgam Suttani Satikam Part 26 Oghniryukti Pindniryukti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages436
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_oghniryukti, & agam_pindniryukti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy