SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ ३०० पिण्डनियुक्तिः-मूलसूत्रं साधून वन्दित्वामहत्तरं साधुमपृच्छत्-भगवन्! रुचितमिदंयुष्मभ्यं क्षेत्रं?,सूरयोऽत्रनिजसमामनास्माकं प्रसादमाधास्यन्ति?. ततः स ज्येष्ठः साधुरवादीत-वर्तमानयोगेन, ततो ज्ञातं जिनदत्तेन-यथा न रुचित. मिदमेतेभ्यःक्षेत्रमिति,चिन्तयतिच-अन्येऽपिसाधवोऽत्रसमागच्छन्तिपरंनकेचिदवतिष्ठन्ते,तन्नजानामि किमत्र कारणमिति, ततः कारणपरिज्ञानाय तेषां साधूनामन्यतमं कमपि साधुमृगँ ज्ञात्वा पप्रच्छ, सच यथावस्थितमुक्त वान्, यथाऽत्र सर्वेऽपिगुणा विद्यन्ते,गच्छस्यापि च योग्यमिदं क्षेत्रं, केवलमात्राचार्यस्य प्रायोग्यः शाल्योदनो न लभ्यते इति नावस्थीयते। तत एवं कारणं परिज्ञाय तेन जिनदत्तश्रावकेणापरस्मादग्रमात शीलाबीजमानी निजग्रामक्षेत्रभूमिष वापितं,ततःसम्पन्नोभूयान् शालिः, अन्यदा चयथाविहारक्रमंतेवाऽन्येवासाधवःसमायासिषुः,श्रावकश्च चिन्तमास-यथैतेभ्यो मया शाल्योदनो दातव्यो येन सूरीणामिदं योग्यं क्षेत्रमिति परिभाव्य साधवोऽमी सृरीनानयन्ति, तत्र यदि निजगृह एव दास्यामि ततोऽन्येषु गृहेषु कोद्रवरालककूर लभमानानामेतेषामाधाकर्मशङ्कोत्पत्स्यते तस्मात्सर्वेष्वपि स्वजनगृहेषु शालिं प्रेषयामीति, तथैव च कृतं, स्वजनांचोक्तान यथा स्वयमप्यमुंशालिंपक्त्वाभुञ्जत,साधुभ्योऽपिचददत,एषचवृत्तान्तःसर्वोऽपिबालादिभिरवजग्मे,साधवश्व भिक्षार्थमटन्तोयथाऽऽगममेषणासमितिसमिताबालादीनामुक्तानिश्रृण्वन्ति, तत्रकोऽपिबालकोवक्ति - एते ते साधवो येषामर्थाय गृहे शाल्योदनो निरपादि, अन्यो भाषते-साधुसम्बन्धीशाल्योदनो मह्यं जनन्या ददे, दात्रीवा क्वचिदेवंभाषते-दत्तःपरकीयःशाल्योदनःसम्प्रत्यामीत्यं किमपि ददामि, गृहनायकोऽपिक्कापि ब्रूतेदत्तःशाल्योदनः परकीयः सम्प्रत्यात्मीयं किमपि देहि.बालकोऽपिक्कापिकोऽप्यनभिज्ञोजननींबते-श्रम साधुसम्बन्धिनंशाल्योदनंदेहीति, अन्यस्त्वीषदरिद्रःसहर्षभाषते-अहो! थक्केथक्कावडियमस्माकंसम्पन्नं, इह यद् अवसरेऽवसरानुरूपमापतति तात् थक्केथक्कावडियमित्युच्यते, ततः स एवमाह-येनाभक्ते भक्ताभावेऽस्माकं शालिभक्त मुदपादि। अत्रैवार्थे स लौकिकं दृष्टान्तमुदाहरति. सूरग्रामे यशोधराभिखधाना काचिदाभीरी तस्या योगराजो नामभर्ता, वत्सराजोनामदेवरः,तस्यभार्यायोधनी,अन्यदाचमरणपर्यवसानोजीवलोकोमरणंचानियतहेतुकमनियतकालमिति योधनीयोगराजौ समकालं मरणमुपागतो, ततो यशोधरा देवरंवत्सराजमयाचत. तवभार्याऽहं भवामी देवरोऽपिचममापिभार्या न विद्यते इति विचिन्त्यप्रतिपन्नवान्, ततःसा चिन्तयामासअहो ! अवसरेऽवसरापतितस्माकमजायत, यस्मिन्नेवावसरे ममपतिः पञ्चत्वमुपागमत तस्मिन्नेवावसरे मम देवरस्यापि भार्या मृत्युमगच्छत. ततोऽहं देवरेण भार्यात्वेन प्रतिपन्ना, अन्यथा न प्रतिपद्येत। तथा वापि बालको जननीमाचष्टे-मातः ! शालितण्डुलोदकमपि साधुभ्यो देहि, अन्यस्त्वाहशालिकानिकं,ततएवमादीनिबालादिजनजल्पितानिश्रुत्वा किमेतादितिपृच्छन्ति. पृष्टेचसतियेऋजवस्ते यथावत्कथितवन्तोयथायुष्माकमर्थायदंकृतमिति.येतुमायाविनःश्रावकेणवातथाप्रज्ञापितास्तेनकथयन्ति. कवलं परस्परं निरीक्षन्ते, तत एवं ननमिदमाधाकम्मति परिज्ञाय ताजन सर्वाण्यपि गृहाणि परिहृत्यान्येषु भिक्षार्थमटन्ति स्म, ये च तत्र न निर्वहन्ति स्म ते तत्रानिर्वहन्तः प्रत्यासन्ने ग्रामे भिक्षार्थमगच्छन, एवमन्यत्राप्याधाकर्मसम्भवति, तच्चबालादिनल्पितविशेषग्वगत्यकथानकोक्त साधुभिरिवनियमतोनिष्कल संयममिच्छुनापरिहर्त्तव्यं, सूत्रंतुसकलमपिसुगम,नवरं संपण'त्तिरोपणं परिभायण'त्तिगृहेपरिभाजनं 'से' इति एतेभ्यः 'अन्नं ति अन्यं ग्रामम्। तदेवमुक्तोऽशनस्याधाकर्मणः सम्भवः, सम्प्रति पानस्याह 'मू. (१९०) लोणागडोदए एवं, खाणित्तु महरोदगं। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003330
Book TitleAgam Suttani Satikam Part 26 Oghniryukti Pindniryukti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages436
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_oghniryukti, & agam_pindniryukti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy