________________
२९६.
पिण्डनिर्युक्तिः- मूलसूत्रं
विधिः प्रागिव । तदेवं दर्शनविषया अपिचतस्रश्चतुर्भङ्गिका उक्ताः, सम्प्रतिज्ञानस्यचारित्रादिभिः सहवक्तव्याः, ताश्चातिदेशेनाह
मू. (१७७/३)
नाणेणऽवि नेज्जेव
वृ. यथा दर्शनेन सह चतस्रश्रतुर्भङ्गिका उक्ताः एवं ज्ञानेनापि सह चारित्रादीनि पदान्यधिकृत्य तिस्रश्चतुर्भङ्गिकाभावनीयाः । अतीवेदं सङ्क्षिप्तमुक्त मतः स्पष्टंविव्रियते-ज्ञानचरणयोरियं चतुर्भङ्गिका, ज्ञानतः साधर्मिका न चरणतः, चरणतः साधर्मिका न ज्ञानतः, ज्ञानतोऽपि साधर्मिकाचरणतश्च, न ज्ञानतोऽपि नापि चरणतः । तत्र ज्ञानतः साधर्मिका न चरणतः, समानाज्ञानाः श्रावका विसदृशचरणसमानज्ञाना यतयश्र, अत्र श्रावकाणामर्थाय कृतं कल्पते नयतीनां १, चरणतः साधर्मिका न ज्ञानतो विसदृशज्ञानाः समानचरनायतयः, अत्रन कल्पते २, ज्ञानतः साधर्मिकाश्चरणतश्च समानज्ञानचरणायतयः, अत्रापिन कल्पते ३, नज्ञानतो नापि चरणतो विसदृशज्ञानचरणा यतयो विसदृशज्ञानाः श्रावका निह्नवाच. अत्र श्रावकनिह्नवानामर्थाय कृतं कल्पते न यतीनां ४, ज्ञानाभिग्रहयोरियं चतुर्भङ्गिका - ज्ञानतः साधर्मिका नाभिग्रहत अभिग्रहतः साधर्मिका न ज्ञानत ज्ञानतोऽपि साधर्मिका अभिग्रहतश्च, नज्ञानतो नाप्यभिग्रहतः । तत्रज्ञानतः साधर्मिका नाभिग्रहतः समानज्ञाना विसदृशाभिग्रहाः साधुश्णवकाः, अत्र श्रावकाणामर्थाय कृतं कल्पते न साधूनामर् १. अभिग्रहत साधर्मिका न ज्ञानतो विसदृशज्ञानाः समानाभिग्रहाः साधुश्रावकाः समानाभिग्रहा निह्नवाश्च, अत्रापि श्रावकनिह्नवानामर्थाय कृतं कल्पते न साधूनां २, ज्ञानतः साधर्मिका अभिग्रहतश्च समानज्ञानभिग्रहाः साधुश्रावकाः,
अत्र कल्प्याकल्प्यविधिः प्रथमभङ्ग इव ३, न ज्ञानतो नाप्यभिग्रहतो विसदृशाभिग्रहाः साधु श्रावका विसदृशाभिग्रहा निह्नवाश्च, अत्र द्वितीयभश्गे इव कल्प्याकल्प्यभावना ४, ज्ञानभावनयोरियं चतुर्भङ्गिकाज्ञानतः साधर्मिका नभावनातः, भावनातः साधमिरकानज्ञानतः, ज्ञानतोऽपिसाधर्मिका भावनातच, नज्ञानतो नापिभावनातः। तत्रज्ञानतः साधर्मिकानभावनातः समानज्ञानाविसदृशभावनाकाः साधुश्रावकाः १, भावनातः साधर्मिका न ज्ञानतो विसदृशज्ञानाः समानभावनाकाः साधु श्रावकाः समानभावना निह्नवा २, ज्ञानतः साधर्मिका भावनातच समानज्ञानभावनाकाः साधुश्रावकाः ३, न ज्ञानतो नापि भावनातो विसदृशभावनाः साधु श्रावका विसदृशभावना निह्नवाश्च ४, अत्र चतुर्ष्वपि भङ्गेकेषु कल्प्याकल्प्यभावना प्रागिव । तदेवं ज्ञानविषया अपि तिस्रश्रुतुर्भङ्गिका उक्ताः सम्प्रति चरणेन सह यच्चतुर्भङ्गिकाद्व्यंतदुदाहर्तुमाहएत्तो चरणेन वोच्छामि ॥
मू. (१७७/४)
वृ. इति ऊद्धर्व चरणेन सह ये द्वे चतुर्भङ्गिके तदुदाहरणानि वक्ष्ये तत्र चरणाभिग्रहयोरियं चतुर्भङ्गिकाचरणतः साधर्मिका नाभिग्रहतः, अभिग्रहतः साधर्मिका न चरणतः, चरणतोऽपि साधर्मिका अभिग्रहतच, न चरणतां नाप्यभिग्रहतः । तत्राद्यं भङ्गद्व्यमुदाजिहीर्षुराह
मू. (१७८ / १ ) जडणी वीसाभिग्गह पढमी बिय निण्हसावगजइणी उं ॥
वृ. चरणतः साधर्मिका नाभिग्रहत इत्येवंरूपः प्रथमो भङ्गः, समानचरणा विष्वगभिग्रहा' विभिन्नाभिग्रहा यतयः, अत्र न कल्पते, अभिग्रहतः साधर्मिका न चरणतः इत्येवंरूपो द्वितीयो भङ्गः समानाभिग्रहा निह्नवाः श्रावका विभिन्नचरणा यतयथ, अत्र श्रावकाणां निह्नवानां चार्थाय कृतं कल्पते नयतीनां २, चरणतः साधर्मिका अभिग्रहतश्च समानचरणाभिग्रहा यतयः, अत्रुन कल्पते ३, न चरणतो नाप्यभिग्रहतः विसदृशाभिग्रहचरणाः साधवो विसदृशाभिग्रहाः साधवो विसदृशाभिग्रहाः श्रावकनिह्नवाश्च, अत्र कल्प्याकल्प्यभावना द्वितीयभङ्ग इव ४, चरणभावनयोरियंचतुर्भङ्गिका- चरणतः साधर्मिकानभावनातः भावनातः साधर्मिकानचरणतः चरतणः
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International