________________
मूलं-१७५/१
मू. (१७५/२)
दंसणनाणे य पढम भंगो उ । जइ सावग वीसुनाणी एवं चिय बिइयभंगोऽवि ॥
वृ. 'दर्शनज्ञाने' दर्शनज्ञानविषयायां 'चः 'समुच्चये, प्रथमो भङ्गो दर्शनतः साधर्मिका नज्ञानत इत्येवंरूपः 'विष्वग्ज्ञानिनः ' विभिन्नज्ञानाः समानदर्शना यतयः श्रावकाश्च वेदितव्याः, तत्र श्रावकाणामर्थाय कृतं कल्पते न यतीनामर्थाय कृतम् । एवमेव ज्ञानतः साधर्मिका न दर्शनत इत्येवंरूपो द्वितीयो भङ्गोऽपि ज्ञातव्यः, ' तत्रापि यतयः श्रावकाच वेदितव्या इत्यर्थः, केवलं विभिन्नदर्शनाः समानज्ञानाः, अत्रापिकल्प्याकल्प्यविधिः प्रागिव, ज्ञानतः साधर्मिका दर्शनतश्चसमानज्ञानाः समानदर्शनायतयः श्रावकाश्च, अत्रापिकल्य्याकल्प्यविधिः प्राग्वत्, न ज्ञानतो नापि दर्शवतो विसदृशज्ञानदर्शनाः साधवः श्रावका निह्नवाश्च, अत्र श्रावकनिह्नवानामर्थाय कृतं कल्पते न साधूनां ॥ दर्शनचरणयोश्चतुर्भङ्गिका त्वियं-दर्शनतः साधर्मिका न चरणतः चरणतः साधर्मिका न दर्शनतः दर्शनतोऽपि साधर्मिकाचरणतश्च न दर्शनतो नापि चरणतः, तत्राद्यं भङ्गद्वयमुदाहरतिदंसणचरणे पढमो सावग जड़णो य बीयभंगो उ ।
मू. (१७६)
२९५
,
जो विसरिसदंसी दंसे य अभिग्गहे वोच्छं ॥
वृ. 'दर्शनचरणे' दर्शनचरणचतुर्भङ्गिकायां प्रथमो भङ्गो दर्शनतः साधर्मिकान चरणतइत्येवंरूपः समानदर्शनाः श्रावकाविसदृशचरणा यतयश्च, अत्र श्रावकाणामर्थाय कृतं कल्पते न यतीनामर्थाय कृतं १, , द्वितीयो भङ्गः पुनश्चरणतः साधर्मिका न दर्शनत इत्येवंरूपो विसदृशदर्शनाः समानचारित्रा यतय एतेषामर्थाय कृतं न कल्पते २, दर्शनतः साधर्मिकाश्चरणतश्च समानदर्शनचरणा यतयः, अत्रापि न कल्पते ३, न दर्शनतो नापि चरणतोनिह्नवाविसदृशदर्शनाः श्रावका विसदृशदर्शनचरणायतयच, तत्रनिह्नवश्रावकाणामर्थायकृतंकल्पते नयतीनां दर्शनाभिग्रहयोरियंचतुर्भङ्गिका- दर्शनतः साधर्मिकानाभिग्रहतः, अभिग्रहतः साधर्मिका नदर्शनतः, दर्शनतः साधर्मिका अभिग्रहतश्च, न दर्शनतो नाप्यभिग्रहतः, तत्राद्यं भङ्गद्वयमुदाजिहीर्षुरिदमाह- 'दंसण' इत्यादि, दर्शनेऽइभग्रहे चाद्यभङ्गद्वयमधिकृत्योदाहरणं वक्ष्ये । प्रतिज्ञातमेव निर्वाहयति
मू. (१७७/१)
सावग जड़ वीस भिग्गह पढमो बीओ य
वृ. समानदर्शनाः 'विष्वगभिग्रहाः ' विभिन्नाभिग्रहाः श्रावका यतयश्च दर्शनतः साधर्मिका नाभिग्रहत एवंरूपः प्रथमो भङ्गः, अत्रापि श्रावकाणामर्थाय कृतं कल्पते न यतीनणां, द्वितीयोऽपि भङ्गोऽभिग्रहः साधर्मिकानदर्शनतइत्येवंलक्षणः श्रावकयतिरूपएव, केवलंतेयतयः श्रावकाश्रविसदृशदर्शनाः समानाभिग्रहा वेदितव्याः, उपलक्षणमेतत्, तेननिह्नवाश्च समानाभिग्रहाः ज्ञातव्याः अत्र श्रावकनिह्नवानामर्थाय कृतं कल्पते नयतीनां, दर्शनतः साधर्मिका अभिग्रहतश्च समानर्दनाभिग्रहाः साधु श्रावकाः, अत्रापि श्रावकाणामर्थाय कृतं कल्पत न साधूनां नदर्शनतो नाप्यभिग्रहतो विसदृशदर्शनाभिग्रहाः साधुश्रावकनिह्नवाः अत्रकल्प्याकल्प्य - विधिर्द्वितीयभङ्गवत् । दर्शनभावनयारियं चतुर्भङ्गिका-दर्शनतः साधर्मिका न भावनातो, भावनातः साधर्मिका न दर्शनतः, दर्शनतोऽपि साधर्मिका भावनातच, न दर्शनतो नापि भावनातः । अस्या आद्यभङ्गद्भयमाहमू. (१७७/२) भावणा चेवं ।
वृ. यथा दर्शनन अभिग्रह उदाहृत एवं भावनाऽप्युदाहर्त्तव्या, सा चैवं दर्शनतः साधर्मिका न भावनातः, विसदृशभावनाकाः समानदर्शनाः श्रावका यतयः, भावनातः साधर्मिका न दर्शनतो विसदृशदर्शनसंवानभावनाकाः साधवः श्रावका निह्नवाश्र, दर्शनतः साधर्मिकाभावनातश्च समानदर्शनभावनाकाः साधुश्रावकाः, नदर्शनतोनापिभावनातोविसदृशदर्शनभावनाकाः साधुश्रावकनिह्नवाः, अत्र चतुर्ष्वपि भङ्गेषुकल्प्याकल्प्य -
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org