________________
मूलं- १६७
२९१
जह नामंमि तहेव य खेत्ते काले य नायव्वं ॥
वृ. यथा‘नाम्नि' नामसाधर्मिकविषये पाषण्डिनां श्रमणानां 'गिहित्ति' सूचनात्सूत्रमिति न्यायाद् गृह्यगृहिणां निर्ग्रन्यानां च विभाषा कृता तथा क्षेत्रे काले च विभाषणं ज्ञातव्यं, तत्र 'क्षेत्र' सौराष्ट्रादिकं 'कालो ' दिनपौरुष्यादिकः, तत्रक्षेत्रविषये विभाषाएवं यदिसौराष्ट्रदेशोत्पन्नेभ्यः पाषण्डिभ्योमयादातव्यमितिसङ्कल्पः तदा सौराष्ट्र देशोत्पन्नस्य साधोर्न कल्पते, सौराष्ट्र देशोत्पन्नत्वेन तस्यापि सङ्कल्पविषयीकरणात्, शेषदेशोत्पन्नानां तु कल्पते, तेषां सङ्कलपविषयीकरणाभावात्, यदि पुनः सौराष्ट्रदेशोत्पन्नेभ्यः पाषण्डिभ्यः सरजस्केभ्यो यदिवा सौगतेभ्यो यद्वा साधुव्यतिरेकेण सर्वपाषण्डिभ्यो दास्यामीति सङ्कल्पः तदा सौराष्ट्रदेशोत्पन्नस्यापि साधोः कल्पते, तस्य सङ्कल्पाक्रोडीकरणात्, एव' श्रमणेष्वपि सामान्यतः सङ्कल्पितेषु न कल्पते, साधुव्यतिरेकेणतुसङ्कल्पितेषुकल्पतेतथागृह्यगृहिषुसामान्यतः सौराष्ट्रदेशोत्पन्नत्वेन सङ्कल्पितेषुनकल्पते केवलेषु तु गृहिषु कल्पते, निर्ग्रन्थेषु तु सौराष्ट्रदेशोत्पन्नेष्वसौराष्ट्र-देशोत्पन्नेषु वा संकल्पितेषु सौराष्ट्रदेशोत्पन्नानामन्यदेशोत्पन्नानां वा सर्वथा न कल्पते, तदेवं क्षेत्रसाधर्मिक विभाषा भाविता, एवं कालसाधर्मिकऽपि भावनीया, यथाविवक्षितदिनजातेभ्यः पाषण्डिभ्यो मया दातव्यमिति सङ्कल्पिते तस्यापितद्दिनजातस्य साधोर्न कल्पते, तस्यापि तद्दिनजातत्वेन सङ्कल्पविषयीकरणात्, शेषदिन जातानां तु कल्पते, सङ्कल्पविषयीकरणाभावात्, इत्यादि सर्वं पूर्वोक्तानुसारेण भावनीयं, प्रवचनादिपदसप्तके पुनरेवं पूर्वाचार्यव्याख्याप्रवचनलिङ्गदर्शनज्ञानचारित्राभिग्रहभावनारूपेषु सप्तसु पदेषुद्विसंयोगभङ्गाएक- विंशतिः, तद्यथा- प्रवचनस्य लिङ्गेन सहैको, दर्शनेन सह द्वितीयो, ज्ञानेन सह तृतीयः, एवं यावद्भावनया सह षष्ठ भङ्गाः, एवं लिङ्गस्य दर्शनादिभिः सह पञ्च, दर्शनस्य ज्ञानादिभिः सह चत्वारः, ज्ञानस्य चारित्रादिभिः सह त्रयः, , चारित्रस्या - भिग्रहभावनाभ्यां द्वौ, अभिग्रहस्य भावनया सहैक इत्येकविंशतिः, हतेषु चैकविंशतिसङ्ख्येषु भङ्गेषु प्रत्येकमेकैका चतुर्भाङ्गिका, तद्यथा- प्रवचनतः साधर्मिको न लिङ्गतः, लिङ्गतः साधर्मिको न प्रवचनतः, प्रवचतनः साधर्मिको लिङ्गतश्च न प्रवचनतो न लिङ्गतश्च, शेषेषु भङ्गेषु यथास्थानं चतुर्भङ्गिका दर्शयिष्यते ॥ दस ससिहागा सावग पवयण साहम्मिया न लिङ्गेण ।
मू. (१६८)
लिङ्गेण उसाहम्मी नो पवयण निगा सव्वे ॥
वृ. प्रवचनतः साधर्मिका न लिङ्गेन अविरतसम्यग्दृष्टेरारभ्य यावद्दशमी श्रावकप्रतिमां प्रतिपन्ना ये श्रावकास्तेऽत्र द्रष्टव्याः, कुत इत्याह- 'दस ससिहागा' इत्यत्र 'निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शन' मिति न्यायाद्धेतौ प्रथमा, ततोऽयमर्थः यतस्ते दशमीं श्रावकप्रतिमां प्रतिपन्नाः 'सशिखाकाः ' शिखासहिताः केशसहिता एवेत्यर्थः, ततस्ते प्रचनत एव साधर्मिका भवन्ति न लिङ्गतो, ये त्वेकादशी श्रावकप्रतिमां प्रतिपन्नास्ते निष्केशा इत्यादिना लिङ्गतोऽपि साधर्मिका भवन्तीति तद्विवर्जनीम, एतेषां चार्थाय यत्कृतं तत्साधूनां कल्पते, तथालिङ्गतः साधर्मिकानप्रवचनतोनिह्नवाः, तषां प्रवचनबहिर्भूतत्वनप्रवचनतः साधर्मिकत्वाभावात्, लिङ्गतुतेषामपि रजोहरणादिकंविद्यते इतिलिङ्गतः साधर्मिकाः, तेषामप्यर्थायकृतं साधूनां कल्पते, निह्नवा द्विधा लोके निह्नवत्वेन ज्ञाता अज्ञाताच, तत्र ये ज्ञातास्ते इह ग्राह्याः, अज्ञातानां लोके साधुत्वेन व्यवहारणभावतः प्रवचनान्तर्वर्त्तित्वात्, इहाद्यभङ्गदयेन उदाहृते शेषमुत्तरं भङ्गदयंस्वयमेव श्रोतारोऽवभोत्स्यन्तं इति बुद्ध्या निर्युक्ति कृन्नोदाहृतवान्, अनेनैव च कारणेन शेषाणामपि चतुर्भङ्गिकाणामाद्यमेव भङ्गद्वयमुदाहरिष्यति नोत्तरं भङ्गद्वयं, वयं तु सुखावबोधाजोदाहरिष्यामः, तत्रास्यामेव प्रथमचतुर्भङ्गिकायां प्रचवनयः साधर्मिका लिङ्गतश्चेति तृतीयभङ्गे उदाहरणं साधवः एकदशी प्रतिमां प्रतिपन्नाः श्रावका वा, तत्र साधूनामर्थाय
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International