________________
पिण्डनियुक्तिः-मूलसूत्रं यथा यावन्तो गृहस्था देवदत्तास्तेभ्यो दातव्यमिति, तदा एवं विशेषिते' निर्धारि सति तद्योग्यमुपस्कृतं देवदत्ताख्यस्यसाधोःकल्पते,तस्यविवक्षितसङ्कल्पविषयीकरणाभावात्,तथापाखण्डिष्वपिमिश्रामिश्रेष्वेवं पूर्वोक्त प्रकारेणविभाषाकर्त्तव्या,इहसामान्यसङ्कल्पविषयामिश्राउच्यन्ते,यथायावन्तःपाखण्डिनोदेवदत्ता इति,प्रतिनियतसङ्कल्पविषयास्त्वमिश्रायथायावन्तःसरजस्काःपाखण्डिनोयदिवासौगतादेवदत्ताइत्यादि, तत्रयावन्तोदेवदत्ताःपाखण्डिनइति मिश्रसङ्कल्पेकृतेनकल्पतेपाखण्डिदेवदत्तशब्दाभ्यांदेवदत्ताख्यस्यापि साधोःसङ्कल्पविषयीकृतत्वात्, यदापुनरमिश्रःसङ्कल्पोयथायावन्तःसरजस्काःपाखण्डिनोदेवदत्तायदिवा यावन्तः सौगता देवदत्ता यद्वा साधुव्यतिरेकेण सर्वेऽपि पाखण्डिनो देवदत्तास्तेभ्यो दास्यामीति, तदा देवदत्ताख्यस्यसाधोः कल्पते, तस्य सङ्कल्पविषयीकरणाभावात्, यथा चपाखण्डिषु मिश्रामिश्रेषु विभाषा कृता तथा श्रमणेष्वपि मिश्रामिश्रेषु कर्तव्या, श्रमणा हि शाक्यादयोऽपि भण्यन्ते, यतो वक्ष्यति'निग्गंथसक्वतावसगेरुयआजीव पञ्चहा समणा'। ।
ततोयदैवंमिश्रःसङ्कल्पो यावन्तःश्रमणादेवदत्ताख्यास्तेभ्योदास्यामीतितदादेवदत्ताख्यस्य साधोर्न कल्पते,तस्यश्रमणदेवदत्तशब्दाभ्यांसङ्कल्पविषयीकृतत्वात्, यदापुनरेवममिश्रः, सङ्कल्पोयावन्तःशाक्याः श्रमणायदिवाआजीविका देवदत्तायद्वा-साधुव्यतिरेकेणसर्वेश्रमणादेवदत्तास्तेभ्योदास्यामीतितदाकल्पते तस्य विवक्षितसङ्कल्पविषयीकरणाभावात्, संयतानां तु निर्ग्रन्थानां विसदृशनाम्नामपि सङ्कल्पे कृते देवदत्ताख्यादेःसाधोर्नकल्पते, किमुक्तं भवति?-चैत्रनाम्नोऽपिसंयतस्योद्देशेनकतंदेवदत्ताख्यस्यसाधोर्न कल्पते,तथाभगवदाज्ञाविवृंभणात्,यदापुनस्तीर्थकरप्रत्येकबुद्धसङ्कल्पनेनकृतंतदाकल्पते,तीर्थकरप्रत्येकबुद्धानांसङ्घातीतत्वेन सङ्घमध्यवर्तिभिःसाधुभिःसहसाधर्मिकत्वाभावात्, संजयाणउविसरिसनामाणवि न कप्पे' इति वचनाच्चार्थापत्त्या यावन्तो देवदत्ता इत्यादौ विसदृशचैत्रादिनाम्नां साधूनां कल्पत एवेति प्रतिपादितं द्रष्टव्यं । तदेवमुक्तो नामसाधर्मिकमधिकृत्य कल्प्याकल्प्यविधिःमू. (१६६) नीसमनीसा च कडंठवणासाहम्मियमिउ विभासा।
दव्वे मयतनुभत्तंनतंतु कुच्छा विवज्जेज्जा॥ - वृ.इहकोऽपिंगृहीगृहीतप्रव्रज्यस्यमृतस्यजीवतोवापित्रादेःस्नेहवशात्प्रतिकृतिकारयित्वातत्पुरतो ढौकनायबलिंनिष्पादयति, तन्निष्पादनंचद्विधा,तद्यथा-निश्रयाअनिश्रयाच,तत्रयेरजोहरणादिवेषधारिणो मपितृतुल्यास्तेभ्योदास्यामीतिसङ्कल्प्यनिष्पादयतितदातद्वलिनिष्पादनंनिश्राकृतमुच्यते,यदात्वेवंविधः सङ्कल्पोनभवति,किन्त्वेवमेवढोकनायबलिंनिष्पादयतितदातद्वलिनिष्पादनमनिश्राकृतमुच्ते,तथाचाह'नीसमनीसा व कडं' इह प्रथमा तृतीयार्थे वेदितव्या, ततोऽयमर्थः-निश्रयाऽनिश्रया वा यत्कृत-निष्पादितं भक्तादिस्थापनासाधर्मिकविषये तत्र विभाषा कर्त्तव्या, यदि निश्राकृतं तदपि च ढौकितमढौकितं वा तर्हि न कल्पते.अनिश्राकृतंतुढाकितमढाकितंवाकलपते,परंतत्रापिप्रवृत्तिदोषप्रसङ्गइतिपूर्वसूरयोनिषेधमाचक्षत तथा 'द्रव्ये' द्रव्यसाधर्मिकविषये यन्मृततनुभक्तं तत्कालं मृतस्य साधार्या तनुस्तस्याः पुरतो ढौकनाय यदशनादितत्पुत्रादिनाकृतंतन्मृततनुभक्तं,तदपिद्विधा-निश्राकृतमनिश्राकृतंच,तत्रसाधुभ्योदास्यमीति सङ्कल्प्य कृतं निश्राकृतमितरत्तु स्वपित्रादिभक्ति मात्रकृतमनिश्राकृतं, तत्र यन्निश्राकृतं तन्निषेधयति-नैव कल्पते, इतरत्त्वनिश्राकृतंकल्पते, किन्तु तद्ग्रहणे लोके जुगुप्सा-निन्दा प्रवत्तते, यथाअहो! अमी भिक्षवो निःशूका मृततनुभक्तमपि न परिहरन्तीति ततो विवर्जयन्ति तत्साधवः॥
मू. (१६७) पासंडियसमणाणं गिहिनिग्गंथाण चेव उविभासा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org