SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ मूलं- १६३ २८९ प्रवर्द्धमानेन साधोः साधर्मिको भविष्यतीति स भव्य इत्यर्थः, तथा यच्च साधर्मिकशरीरं सिद्धि'क्षेत्रे' क्षेत्रविषयः शिलातलादिगतमपगतजीवितंभव्यशरीररूपोऽतीतसाधर्मिकशरीररूपचद्रव्यसाधर्मिकः, साधर्मिकः, 'समानदेशी' समानदेशसम्भूतः, कालसाधर्मिकः समानकालसम्भूतः, प्रवचनसाधर्मिकः साध्वादिचतुष्टयरूपसङ्घमध्यादन्यतमः कश्चित् लिङ्गसाधर्मिको रयहरणमुहपोत्ती इति सूचनात् सूत्रमितिन्यायात्र जोहरणमुखपोतिकाद्युपकरणवान्, 'दर्शनसाधर्मिकः' समानदर्शनंः, दर्शनंचत्रिधा, तद्यथाक्षायिकं क्षायोपशमिकमौपशमिकं च ततो दर्शनद्वारेण यः साधर्मिकः सोऽपि त्रिधा, तद्यथा क्षायिकदर्शनसाधर्मिकः क्षायोपशमिकदर्शनसाधर्मिक औपशमिकदर्शनसाधर्मिकच, तत्र क्षायिकसम्यग्दृष्टेः क्षायिकसम्यग्दृष्टिः क्षायिकदर्शनसाधर्मिक इत्यादि, 'ज्ञानसाधर्मिकः' समानज्ञानः, ज्ञानं च पञ्चधा, तद्यथामतिज्ञानं श्रुतज्ञानमवधिज्ञानं मनः पर्यवज्ञानं केवलज्ञानं च, ततो ज्ञानद्वारेण साधर्मिकोऽपि पञ्चधा, तद्यथामतिज्ञानसाधर्मिक इत्यादि, तत्र मतिज्ञानिनो मतिज्ञानी मतिज्ञानसाधर्मिक इत्यादि । चारित्रसाधर्मिकः समानचारित्रः, चारित्रमपि च पञ्चधा तद्यथा सामायिकं छेदोपस्थापनं परिहारविशुद्धिकं सूक्ष्मसम्परायं यथाख्यातं च ततचारित्रेण साधर्मिकोऽपि पञ्चधा, तद्यथा - सामायिकचारित्रसाधर्मिकश्छे दो पस्थापनिकचारित्रसाधर्मिक इत्यादि, तत्र सामायिकचारित्रस्य योऽपरः सामायिकचारित्रः स सामायिकचारित्रसाधर्मिक इत्यादि, 'जतजवह होइ उ चरित्ते' मतान्तरेण पुनश्चारित्रेचारित्रविषयः साधर्मिकस्त्रिविधो भवति, यतचारित्रं मतान्तरेण त्रिधाऽत्र विवक्षितं, तद्यथा- क्षायिकं क्षायोपशमिकमौपशमिकं च, ततस्तद्वारेण यः साधर्मिकः सोऽपि त्रिधा, तद्यथा - क्षायिकचारित्रसाधर्मिक इत्यादि, तत्र क्षायिकचारित्रस्यापरः क्षायिकचारित्रः क्षायिकचारित्रसाधर्मिक इत्यादि, अभिग्रहा द्रव्यादौद्रव्यादिविषयाश्चतुर्विधास्तद्यथा द्रव्याभिग्रहाः क्षेत्राभिग्रहाः कालाभिग्रहाः भावाभिग्रहाश्रतद्वारेण आधर्मिका 'अपि चतुर्विधास्तद्यथा-द्रव्याभिग्रहसाधर्मिकाः क्षेत्राभिग्रहसाधर्मिका इत्यादि, तत्र द्रव्याभिग्रहस्यापरो द्रव्याभिग्रहो द्रव्याभिग्रहसाधर्मिक इत्यादि, । भावना द्वादशधा, तद्यथा - अनित्यत्वभावना (१) अशरणत्वभावना (२) एकत्वभावना (३) अनत्यभावना (४) अशुचित्वभावना (५) संसारभावना (६) कर्माश्रवभावना (७) संवरभावना (८) निर्जरणभावना (९) लोकविस्तारभावना (१०) जिनप्रणीतधर्मभावना (११) बोधिदुर्लभत्वभावना (१२), 'भावनाद्वारेण साधर्मिका अपि द्वादशधा तद्यथा - अनित्यत्वभावनासाधर्मिकोऽशरणत्वभावनासाधर्मिक इत्यादि, तत्रानित्यत्वभावनासहितस्यापरोऽनित्यत्वभावनासहितोऽनित्यत्वभावनासाधर्मिकइत्यादि, तदेवं व्याख्याताः सर्वेऽपि साधर्मिकाः सम्प्रत्येताने वाधिकृल्य कल्पयाकल्प्यविधिर्वक्त व्यः, नामसाधर्मिकमधिकृत्य प्रथमतः कल्प्याकल्प्यविधिं गाथायेन प्रतिपादयति तत्र मू. (१६४) जावंत देवदत्ता गिर्हीव अगिहीव तसि दाहामि । मू. (१६५) it कप्पई गिहीणं दाहंति विसेसिये कप्पे ॥ पासंडीसुवि एवं मीमासीसेसु होइ हु विभासा । समणे संजयाण उ विसरिसनामाणवि न कप्पे ॥ वृ. इह कोऽपि पितरि मृते जीवति वा तन्नामानुरागतस्तन्नामयुतेभ्यो दानं दित्सुरेवं सङ्कल्पयति, यथा यावन्तो गृहस्था अगृहस्था वा देवदत्तास्तेभ्यो मया भक्तादिकमुपस्कृत्य दातव्यं, तत्रैवं सङ्कल्पे कृते देवदत्ताख्यस्य साधोर्न कल्पते, देवदत्तशब्देन तस्यापि सङ्कल्पविषयीकृतत्वात, यदा पुनरेवं सङ्कल्पयति, 26 19 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003330
Book TitleAgam Suttani Satikam Part 26 Oghniryukti Pindniryukti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages436
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_oghniryukti, & agam_pindniryukti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy