SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ पिण्डनिर्युक्तिः- मूलसूत्र शब्दवाच्यमोदनादि तदेव तेनैव दोषेण दुष्टमधः कर्मादियोऽपि शब्दा ब्रुवते इति भावः । एतदेव भावयति - मू. (१५८) आहाकम्मेण अहेकरेति जं हणइ पाण भूयाई । जंतं आययमाणो परकम्मं अत्तणो कुणइ ॥ वृ. आधाकर्म्मणा भुज्यमानेन कृत्वा यस्माद्विशुद्धेभ्यो विशुद्धतरेभ्यः संयमादिस्थानेभ्योऽवतीर्याधस्तादात्मानं करोतितेन कारणेनतदेवाधाकर्म्म अधःकम्र्मेत्युच्यते, तथायस्मादाधाकर्म्मणाभुज्यमानेन कृत्वा स एव भोक्ता परमार्थताः 'प्राणान्' द्वीन्द्रियादीन् 'भूतान्' वनस्पतिकायान् उपलक्षणमेतत् जीवान् सत्त्वांच हन्ति - विनाशयति, 'जस्सट्टा आरंभो पाणिवहो होड़ तस्स नियमेण' इति वचनप्रामाण्यात्, प्राणादींश्च घ्नन् नियमतः चरणादिरूपमात्मानं हन्ति, 'पाणिवहे वयभंगो' इत्यादिवचनात्तत आधाकर्म्म आत्मघ्नमित्युच्यते, तथा 'यत्' यस्मात्कारणात् 'तत्' आधाकर्म्म आददानः परस्य-पाचकादेः सम्बन्धि यत्कर्म्म- आरम्भजनितं ज्ञानावरणीयादिकमुत्पन्नमासीत तदात्मनोऽपि करोति, ततस्तदाधाकर्म्म आत्मकर्मेत्युच्यते. 'तस्मादधः कर्म्मादीनि नामानि सर्वाण्यपि नाधाकर्म्मशब्दार्थमतिवर्त्तन्ते इति द्वितीये भङ्गेऽवतरन्ति । तेदवं मूलद्वारगाथायां एगट्टा' इत्यपि व्याख्यातं, सम्प्रति 'कस्स वावि' इत्यवयवं व्याचिख्यासुराहमू. (१५९) कस्सत्ति पुच्छियमी नियमा साहम्मियस्स तं होइ । साहिम्मयस्स तम्हा कायव्व परूवणा विहिणा ।। २८८ वृ. 'कस्य' पुरुषविशेषस्य अर्थायकृतमाधाकर्म्मभवतीतिपरेणपृष्टेउत्तरमभिधीयते, नियमात्साधर्मिकस्थय कृतं 'तत्' आधाकर्म्म भवति, तस्मात्साधर्मिकस्यागमोक्ते न विधिना प्ररूपणा कर्त्तव्या ॥ नाम ठावणा दविए खेत्ते काले अ पवयणे लिंगे। मू. (१६०) दंसण नाण चरिते अभिग्गहे भावणाओ य ।। मू. (१६९) वृ. 'नाम' ति नाम्निसाधर्मिकः, स्थापनासाधर्मिकः, 'द्रव्ये द्रव्यविषयः साधर्मिकः, एवं क्षेत्रसाधर्मिकः, कालसाधर्मिकः, प्रवचनसाधर्मिकः, लिङ्गसाधर्मिकः, दर्शनसाधर्मिकः, ज्ञानसाधर्मिकः, चारित्रसाधर्मिक अभिग्रहसाधर्मिकः, 'भावणाओ य'त्ति भावनातच साधर्मिको भवति, तदेवं द्वादशधा साधर्मिकाः ॥ नामंमि सरिसनामो ठवणाए कट्टंकम्ममाईया । दव्वंम जो उ भविओ साहमि सरीरगं चैव ॥ खेत्ते समाणदेसी कालंमि समाणकालसंभूओ । पवयणि संघेगयरो लिंगे रयहरणमुहपोत्ती । दंसण नाणे चरणे तिग पण पण तिविह होइ उ चरिते । दवाइओ अभिग्गह अह भावणमो अनिच्चाई || मू. (१६२) मू. (१६३) वृ. नाम्नि' नामविषयः साधर्मिकः सदृशनामा, किमुक्तं भवति ? - विवक्षितस्य साधीर्यन्नाम तदेव यदा इतरस्यापि तदानीं स इतरस्तस्य साधोर्नामसाधर्मिको भवति, यथा देवदत्तनाम्नः साधोर्देवदत्तनामा कश्चित्, तथा‘स्थापनायां’स्थापनाविषये साधर्मिकः 'काष्ठकर्मादिका' दारुमयप्रतिमाप्रभृतिका, इहस्नेहवशात् कथि निजपुत्रादेः साधाजवतो मृतस्य वा काष्ठमयीं प्रतिमां कारयति सा प्रतिमा अन्येषां जीवतां संयताना स्थापनासाधर्मिकः, आदिशब्दात्पाषाणादिकप्रतिमापरिग्रहः, अनेनसद्भावस्थापनासाधर्मिक उक्तो, यदा त्वक्षादौ साधुस्थापना तदा सोऽसद्भावस्थापनासाधमिरकः, तथा द्रव्ये भावप्रधानोऽयं निर्देशः 'द्रव्यत्वे' द्रव्यत्वविषयः साधर्मिको यो भव्यो योग्यः साधर्मिकत्वस्य, किमुक्तं भवति ? - यस्तेनैव शरीरसमुच्छयेण www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003330
Book TitleAgam Suttani Satikam Part 26 Oghniryukti Pindniryukti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages436
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_oghniryukti, & agam_pindniryukti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy