SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ मूलं- १५४ यथा क्षीरं क्षीरमिति, इय़मत्र भावना - एकत्र क्वचिद्गृहे गोदुग्धादिविषये क्षीरमिति नाम प्रवृत्तमुपलब्धं, तथाऽन्यत्रापिगोदुग्धादावेव विषये क्षीरमितिनामप्रवर्त्तमानमुपलभ्यते, एवंततोऽप्यन्यत्रगृहान्तरे, ततोऽमूनि सर्वाण्यपिक्षीरंक्षीरमित्येवंरूपाणिनामानिएकार्थानिएकव्यञ्जनानि, तथाएकार्थानि बहुव्यञ्जनरूपाणिनामानि यथा दुग्धं पयः पीलु क्षीरमिति, अमूनि हि नामानि सर्वाण्यपि विवक्षितगोदुग्धादिलक्षणैकार्थाभिधायितया नानापुरुषैरेककालं क्रमेणैकपुरुषेणवाप्रयुज्यमानानिएकार्थानिनानाव्यञ्जनानिचततोद्वितीयेभङ्गेनिपतन्ति, २८७ नानार्थान्येकव्यञ्जनानि,यथा-गोमहिष्यजासम्बन्धिषु क्षीरं क्षीरमितिनामानिप्रवर्त्तमानानि, एतानिहिनामानि सर्वाण्यपि समानव्यञ्जनानि भिन्नभिन्नगोदुग्धमहिषीदुग्धादिरूपार्थवाचकतया भिन्नार्थानि च तत उच्यन्तेनानार्थान्येकव्यञ्जनानि, नानार्थानि नानाव्यञ्जनानि यथा घटपटशकटरथादीनि नामानि ॥ तदेवमुक्त चतुर्भङ्गिकाया निदर्शनानि, साम्प्रतमिमामेव चतुर्भङ्गिकामाधाकर्म्मणि यथासम्भवं गाथाद्वयेन योजयतिमू. (१५५) आहाकम्माईण होइ दुरुत्ताइ पढमभंगो उ । आहाहेकम्मति य बिइओ सक्किंद इव भंगी ।। आहाकम्मंतरिया असनाई उ चउरो तइयभंगो । मू. (१५६ ) आहाकम्म पडुच्चा नियमा सुन्नो चरिमभंगो ॥ वृ.आधाकर्म्मादीनां नाम्नां युगपद्बहुभिः पुरुषैरेकेन वा कालभेदेनैकस्मिन्नेव अशनादिरूपे वस्तुनियद् ‘द्विरुक्तादि’द्विरुच्चारणादि, आदिशब्दात्त्रिरुच्चारणादिपरिग्रहः, सभवतिप्रथमोभङ्गः, किमुक्तं भवति?एकत्रवसतावशनविषयेकेनाप्याधाकर्मेतिनामप्रयुक्तं, तथाऽन्यत्रापिवसत्यन्तरेऽशनविषये एवाधाकम्मैति नामप्रयुज्यते, तथाततोऽन्यत्रापिवसत्यन्तरे, तान्यमूनि सर्वाण्यप्याधाकर्मेतिनामानिएकार्थानि एकव्यञ्जनि इतिप्रथमे भङ्गेऽवतरन्ति, आधाकर्म्म अधः कर्मेत्यादीनितुनामानिविवक्षिताशनादिरूपैकविषये प्रवर्त्तमानानि द्वितीयो भङ्गः, एकार्थानि नानाव्यञ्जनानीत्येवंरूपद्वितीयभङ्गविषयाणि 'सक्किंद इवेत्ति यथा इन्द्रः शक्र इत्येवमादीनि नामानि, तथा 'अशनादयः' अशनपानखादिमस्वादिमरूपाः चत्वार 'आधाकर्मान्तरिता' आधाकर्म्मशब्देन व्यवहिता यथाऽशनमाधाकर्म्म पानमाधाकर्मेत्येवमादि, 'तृतीयभङ्गविषयाः, अत्राप्ययं भावार्थ:- :-यदाऽशनादयः प्रत्येकमाधाकर्म्म आधाकर्मेति देशभेदेन बहुभिः पुरुषैरेककालमेकेन वा पुरुषेण कालभेदेनोच्यतेतदातानिआधाकर्म्म आधाकर्मेतिनामानिनानार्थान्येकव्यञ्जनानीति तृतीयेभङ्गेऽवतरन्ति, आधाकर्म्मरूपं नामाश्रित्य पुनश्चरमो भङ्गो नानार्थानि नानाव्यञ्जनानीत्येवंरूपो नियमाच्छून्य आधाक आधाकर्मेत्येवमादिनाम्नां सर्वेषामपि समानव्यञ्जनत्वात्, उपलक्षणमेतत्, तेन सर्वाण्यपि नामानि प्रत्येकं चरमभङ्गेनवर्तन्ते,यदातुकोऽप्यशनविषये आधाकम्र्मेतिनामप्रयुङ्क्ते पानविषयेत्वधः कर्मेतिखादिमविषये त्वात्मघ्नमिति खादिमविषये त्वात्मकर्मेति तदाऽमूनि नामानि नानार्थानि नानाव्यञ्जनानि चेति चरमोऽपि भङ्गः प्राप्यंत, इहविवक्षिताशनादिरूपकविषये प्रवर्त्तमानानि आधाकर्म्माधः कर्म्मप्रभृतीनिनामानि द्वितीयभङ्ग उक्तस्ततस्तदेव भावयति मू. (१५७) इंदत्थं जह सद्दा पुरंदराई उ नाइवत्तंते । अहकम्म आयहम्मा तह आहं नाइवत्तंते ॥ वृ. यथा ‘इन्द्रार्थम्’ इन्द्रशब्दवाच्यं देवराजरूपं ‘पुरन्दरादयः' पुरन्दरशक्र इत्येवमादयः शब्दा नातिवर्त्तन्ते-नातिक्रमन्ति, तथा अधः कर्म्म आत्मघ्नाशब्दौ उपलक्षणमेतत् आत्मकर्म्मशब्दश्च 'आह' न्ति सूचनात्सूत्रामितिन्यायादाधाकर्म्मार्थ- आधाकर्म्मशब्दवाच्यं नातिवर्त्तन्ते, यदेव येन दोषेण दुष्टमाधाकर्म्म For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003330
Book TitleAgam Suttani Satikam Part 26 Oghniryukti Pindniryukti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages436
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_oghniryukti, & agam_pindniryukti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy