SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ २८६ पिण्डनियुक्तिः मूलसूत्रं ज्ञानावरणादिकं कर्म, मरणस्थानीयः संसारः, तत्र ये आधाकर्मभोक्त प्रशंसकास्ते कर्मराज्ञो निग्राह्याः, शेषस्त्वनिग्राह्याः ।। सम्प्रत्यनुमोदनाप्रकारमेव दर्शयतिमू. (१५०) साउं पज्जतं आयरेण काले रिउक्खमं निद्धं । तग्गुणविकत्थणाए अभुंजमाणेऽवि अणुमन्ना॥ वृ. आधाकर्मभोजिन उद्दिश्य केचिदेवं ब्रुवते-वयं तावन्न कदाचनापि मनोज्ञमाहारं लभामहे, एते पुनः सदैवस्वादलभन्ते.तदपिच पर्याप्त परिपूर्ण,तत्रापि आदरेण' बहुमानपुरस्सरंतत्रापि'काले प्रस्तुतभोजनवेलायां तदपि 'ऋतुक्षम शिशिरादिऋतूपयोगितथा स्निग्धं घृतपूरादि, तस्माद्धन्या अमी सुखं जीवन्ति, एवं तद्गुणविकत्थनया' तद्गुणप्रशंसया अभुञ्जानेऽपि' अनभ्यवहरत्यपि अनुमन्या' अनुमोदना, इह अनुमन्याजनितो दोषोऽपि कार्य कारणोपचचारादनुमन्येत्युक्तः, ततोऽयमर्थः-अभुञ्जानेऽपि' अनुमोदनाद्वारेणाधाकर्मभोजिनइवदोषोभवतीति, अन्येतुतद्गणविकत्थनामेवंयोजयन्ति-आधाकर्मभोजिनंकोऽपि कन्दर्पणानाभोगेन वा पृच्छति-साधु लब्धंत्वया भोजनं, तथा पर्याप्तं, तथा आदरेण भक्त्या इत्यादि?, तत्राप्यविरोधः ॥ तदेवमुक्तान्याधाकर्मणो नामानि, तदुक्तौ च यदुक्तं प्राग मूलद्वारगाथायाम् . 'आधाकम्मियनामा' इति तद्याख्यातं, सम्प्रति एगट्ठा' इत्यवयवं व्याचिख्यासुरिदमाहमू. (१५१) आहा अहें यकम्मे आयाहम्मेय अत्तकम्मेय। जह वजणनाणत्त अत्थेणऽवि पुच्छए एवं॥ वृ. अत्र पर एवं पृच्छति, यथा आधाकर्म अधःकर्म आत्मघ्नमात्मकर्म इत्येतेषु चतुषु नामसु व्यञ्जनैर्नानात्वंविद्यते,तथा अर्थेनापि' अर्थापक्षयापि,नानात्वमस्तिकिंवान? इति,पुच्छतश्चायमभिप्रायःइहआधाकादीनांनाम्नां सर्वेषामपिव्युत्पत्तिनिमित्तं पृथक् पृथगुक्तं , तद्यथा-आधया कर्मआधाकर्म, अत्रसाधुविषयप्रणिधानपुरस्सरपाकादिक्रियास्वारम्भोव्युत्पत्तिनिमित्तम्, अधोऽधःकर्म अधःकर्म, अत्र विशुद्धेभ्यः संयमादिस्थानेभ्योऽधोऽधस्तरामागमनम, आत्मानं हन्तीत्यात्मघ्नामिति, अत्र चरणाद्यात्मविनाशनं,परकर्मआत्मकर्मक्रियतेइत्यात्कर्म,अत्रपरकर्मणआत्मसम्बन्धितयाकरणं,ततोऽत्रसंशयो, यथाव्युत्पत्तिनिमित्तंपृथक्पृथभिन्नमेवंप्रवृत्तिनिमित्तमपिपृथक्पृथभिन्नंयथाघटपटशकटादिशब्दानां, किंवा न यथा घटकलशाम्भादीनामिति, अत्र 'आहा अहे य कम्मे' इत्यादावक्षरयोजना प्रागिव भावनीया॥ एवं परेण प्रश्ने कृते सति शिष्यमतिप्रागल्भ्याधानाय सामान्यतो नामविषयां चतुर्भङ्गिकामाहमू. (१५२) एगट्टा एगवंजण एगट्टा नाणवंजणा चेव। नाण? एगवंजण नाणट्ठा वंजणानाणा॥ वृ.इहनामानि जगतिप्रवर्त्तमानानि कनिचिदुपलभ्यन्ते एकार्थानि एकव्यञ्जनानि. कानिचिदेकार्थानि नानाव्यञ्जनानि, कानिचिन्नार्थानि एकव्यञ्जनानि, कानिचित्पुनानार्थानि नानाव्यञ्जनानि । अस्या एव चतुर्भाङ्गिकायाः क्रमेण लौकिकनिदर्शनानि गाथाद्वयेनोपदर्शयतिमू. (१५३) दिटुं खीरं खीरं एगट्टं एगवंजणं लोए। एगट्ट बहुनामढद्ध पओ पीलु खीरं च॥ मू. (१५४) गोमहिसिअयावीरं नाणटुं एगवंजणं नेयं । घडपडकडसगडरहा होइ पिहत्थं पिहनाम॥ वृ.इहसर्वत्रापिजाताकवेकचनं,ततोऽयमर्थः-एकार्थानिएकव्यानिनामानिलोकेप्रवर्त्तमानानिदृष्टानि, २२. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003330
Book TitleAgam Suttani Satikam Part 26 Oghniryukti Pindniryukti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages436
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_oghniryukti, & agam_pindniryukti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy