________________
मूलं.१४७
२८५
भिधीरः सहसंवसथेति, ततो निगृहीताः। गाथाक्षरयोजना तु सुगमत्वात्स्वयं कार्या। दान्तिक योजना - मू. (१४८) आहाकडभोईहिं सहवासो तह य तब्विवज्जपि।
दसणगंधपरिकहाभाविंतिसुलूहवित्तिपि॥ वृ.भावना-यथावणिजांचौरेःसहकत्रसंवासोदोषायबभूवतथासाधूनामप्याधाकर्मभोक्तृ भिःसहकत्र संवासोदोषायवेदितव्यः, यतः तद्विवर्जमपि आधाकर्मपरिहारमपितथा सुरुक्षवृत्तिमपि' सुष्ट-अतिशयेन रूक्षा द्रव्यतो विकृत्यपरिभोगेण भावतोऽभिष्वङ्गाभावेन निःस्नेहा वृत्तिः-वर्तनं यस्य स तथा तमपि आधाकर्मसम्बन्धिन्यो दर्शनगन्धपरिकथा 'भावयन्ति' आधाकर्मपरिभोगवाञ्छापादनेन वासयन्ति) तथाहि-दर्शनम्' अवलोकनं, तच्च मनोज्ञमनोज्ञतराधाकाहारविषयं नियमाद्वासयति, यतः कस्य नाम शशकुन्दावदातो रसपाकभिधाननिष्णातमहासूपकारसुसंस्कृतः शाल्याद्योदनो न मनःक्षोभमुत्पादयति, गन्धोऽपि सद्यस्तापितघृतादिसम्बन्धी नासिकेन्द्रियाप्यायनशीलो बलादपि तदभोजने श्रद्धामुपजनयति. परिकथाऽपिचविशिष्टविशिष्टतरद्रव्यनिष्पादितमादकादिविषयाविधीयमानातदास्वादसम्पत्त्याशंसाविधी चेत उत्साहजयतुमीश्वरा, तथादर्शनात्, ततोऽवश्यमाधाकर्मभोक्तृभिः सह संवासो यतीनां दोषायेति ॥ मू. (१४९) रायारोहऽवराहे विभूसिओ घाइओ नयरमज्झे।
धन्नाधन्नत्ति कहा वहावहो कप्पडिय खोला॥ वृ.श्रीनिलयं नाम नगरं तत्र गुणचन्द्रो नाम राजा, तस्य गुणवतीप्रमुखमन्तःपुरं, तत्रैव च पुरे सुरूपो नाम वणिक्, स च निजशरीरसौन्दर्यविनिर्जितमकरध्वजलवणिमा कमनीयकामिनीनामतीव कामास्पदं स्वभावतश्च परदाराभिष्वङ्गलालसः, ततः सोऽन्यदा राजाऽन्तः पुरसन्निवेशसमीपं गच्छन्नन्तःपुरिकाभिः सस्नेहमवलोकितः, तेनापिचताःसाभिलाषमवेक्षिताः, ततोजातःपरस्परमनुरागः, दूतीनिवेदितप्रयोगवशेन च ताः प्रतिदिनं तेन सेवितुमारब्धाः, राज्ञा च कथमप्ययं वृत्तान्तो जज्ञे, ततो यदा सोऽन्तःपुरं प्राविशत्तदा निजपुरुषैग्राहितो ग्राहयित्वाच्च यैरेवाभरणैरलङ्कृतोऽन्तःपुरं प्रविवेश तैरेवाभरणैर्विभूषितो नगरमध्ये चतुष्पथे सकलजनसमक्षं विचित्रकदर्थनापुरस्सरं विनिपातितो। राजा चान्तःपुरविध्वंसेनातीव दूनमनास्तस्मिन् विनाशितेऽपिन कोपाऽऽवेशं मुञ्चति, ततो हेरिकान् प्रेषयामास, यथा रे! दात्मानं तं ये प्रशंसन्तियेवा निन्दन्ति तान् द्वयानपि मह्यं निवेदय? इति, एवंचतेप्रेषिताः काष्पटिकवेषधारिणःसर्वत्रापि नगरेपरिभ्रमन्ति.लोकांचतं विनाशितं दृष्ट्वाकेचनब्रुवते. यथा अहो जातेनमनुजन्मनाऽवश्यंतावन्मर्त्तव्यं परं या अस्मादृशामधन्यानां दृष्टिपथमपि कदाचनापि नायान्ति ता अप्येष यथासुखं चिरकालं भुक्त्वा मृतस्तस्माद्धन्य एष इति, अपरे ब्रुवते अधन्य एष उभयलोकविरुद्धकारी, स्वामिनोऽन्तःपुरिका हि जननीतुल्याः, ततस्तास्वप्येष सश्चरन कथं प्रशंसामर्हति शिष्टेभ्यः ? इति, ततस्ते द्रयेऽपि हरिकर्निवदिता राज्ञा. राज्ञा च य तस्य निन्दाकारिणस्ते सदबुद्धे इतिकृत्वा पूजिताः, इतर तु कृतान्तमुख प्राक्षिप्यन्त, गाथाक्षरयोजना त्वेव-राज्ञोऽवरोध-अन्तपुरः तद्विषयेऽपराधे येरेवाऽऽभरणविभूषिताऽन्तःपुर प्रविष्टस्तैरव विभूषितोनगरमध्येघातितः,ततःकार्पटिकवेषधारिणः 'खोलाः'हेरिकाराज्ञानियुक्ताः,लोकानांचतद्विषया धन्याधन्यकथा, ततो धन्यकथाकारिणां विनाश: इतरेषां त्वविनाश इति, दान्तियोजना त्वेवम्- एक साधवस्तावदाधाकर्म भुञ्जते, तत्रापरे जल्पन्ति-धन्या एते सुखं जीवन्ति, अन्ये ब्रुवतेधिगेतान् ! ये भगवत्प्रवचनप्रतिषिद्धमाहारमश्नन्ति, तत्र ये प्रशंसिनस्ते कर्मणा बध्यन्ते इतरे तु न, इहान्तःपुरस्थानीयमाधाकर्म, अन्तःपुरद्रोहकारिस्थानीया आधाकर्मभोजिनः सांधवः, नृपस्थानीय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org