SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ पिण्डनिर्युक्तिः- मूलसूत्रं चतुर्थस्यप्रतिषेधतः 'सा' तत्प्रतिश्रघणं नास्ति, अत्राह - नन्वाद्यस्याधाकर्म्मभुआनस्यप्रतिषेवलक्षणएव दोषः, कथंप्रतिश्रवणदोष उक्तः ?, उच्यते, इहयदाऽऽधाकर्म्मनिमन्त्रितः संस्तद्भोजनमभ्युपगच्छति तदा नाद्यापि प्रतिषेवणमितिप्रतिश्रवणदोषः, तत उद्धर्वं तु प्रतिषेवणं, ततो नकचिद्दोषः ।। अथामीषामेव भोजकादीनां कस्कः कायिकादिको दोषः स्याद् ?, अत आहमू. (१४५) २८४ भुंगा कम्णा उबीयस्स वाइओ दोसो । तइयस्स य मानसिओ तीहिं विसुद्धो चउत्थो उ ॥ वृ. ह य आधाकर्म्मणः स्वयमानेता यश्रानीतस्य निमन्त्रितः सन् भोक्ता तौ द्वावपि कर्म्मणाआनयनभोजनरूपया कायक्रियया तुशब्दान्मनसा वाचाच दोषवन्तो, द्वितीयस्य तुभुङ्क्ष्व त्वं नाहं भुञ्जे इति ब्रुवाणस्य वाचिको दोषः, उपलक्षणमेतन्मानसिकच, तृतीयस्य तु तूष्णीं स्थितस्य मानसिको, यस्तु चतुर्थः सत्रिभिरपि दोषैर्विशुद्धः, तस्माच्चतुर्थकल्पेन सर्वदैव साधुनाभवितव्यम्॥ सम्प्रतिदृष्टान्तोक्त स्यकुमारस्य ये दोषाः संप्रभवन्ति तानुपदर्श्याधाकर्म्मणां भोक्तरि योजयति मू. (१४६) पडिसेवण पडिसुणणा संवासऽनुमोयणा उ चउरोवि । पियमारग रायसु विभासियव्वा जइजनेऽवि ॥ वृ. पितृमारकेराजसुते प्रतिषेवणप्रतिश्रवणसंवासानुमोदनारूपाश्चत्वारोऽपि दोषाघटन्ते, तथाहि तस्य स्वयं पितृमारणाय प्रवृत्तत्वात्प्रतिवेषणं वयं तव सहाया इति निजभटवचनं प्रतिपद्यमानस्य प्रतिश्रवणं, तैरेव सार्द्धमेकत्र निवसनेन संवासः, तेषु बहुमानकरणादनुमोदना, एवं यतिजनेऽप्याधाकर्म्मणो भोक्त रि 'विभाषितव्याः ' योजनीयाः, अत्र यः स्वयमानीयान्यैः सह भुङ्क्ते तत्र प्रथमतो योज्यन्ते, तस्याऽऽधाक गृहस्थगृहादानीय भुञ्जानस्य प्रतिषेवणं, गृहस्थेनाऽऽधाकर्म्मग्रहणाय निमन्त्रितस्य तद्ग्रहणाभ्युपगमः प्रतिश्रवणं, यस्मै तदाधाकर्म्म आनीय संविभागेन प्रयच्छति तेन सहैकत्र संवसतः संवासः, तत्रैव बहुमानकरणादनुमोदना, यश्चान्येनाऽऽनीनमाधाकर्म्मनिमन्त्रितः सन्भुङ्क्ते तस्य प्रथमतो निमन्तणाऽनन्तरभ्युपगच्छतः प्रतिश्रवणं, ततो भुञ्जनस्य प्रतिषेवणं, निमन्त्रकेण सहैकत्र संवसतः संवासः तत्र बहुमानकरणादनुमोदना, तेदवंयत्रप्रतिषेवणं तत्रनियमतश्चत्वारोऽपिदोषाः, प्रतिश्रवणेचकेवले त्रयः, संवासेद्वौ, अनुमोदनायां त्वनुमोदनैव केवला, अत एवादिपदं गुरु शेषाणि तु पदानि लघुलघुलघुकानीति ॥ संवासे पल्लीदृष्टान्तंमू. (१४७) पल्लीवहंमि नड्डा चोरा वणिया वयं न चोरत्ति । न पलाया पावकरत्ति काउं रन्ना उवालद्धा ।। वृ. वसन्तपुरं नाम नगरं, तत्रारिमर्दनो नाम राजा, तस्य प्रियदर्शना देवी, तस्य वसन्तपुरस्यपयत्यासन्ना भीमाभिधाना पल्ली तस्यां च बहवां भिल्लरूपा दस्यवः परिवसन्ति वणिजथ, ते च दास्यवः सदैव स्वपल्ल्या विनिर्गत्य सकलमप्यरिमर्द्दनराजमण्डलमुपद्रवन्ति, न स कचिदस्ति राज्ञः सामन्ती माण्डलिको वा यस्तान साधयति, ततोऽन्यदा तत्कृतं सकलमण्डलापद्रवमाकर्ण्य महाकोपावे शपूरितामानसो राजा स्वयंमहतीं सामग्री विधाय भिल्लान् प्रति जगाम, भिल्लाच पल्लिं मुक्त्वा सम्मुखीभूय सङ्ग्रामं दातुमुद्यताः, राजा प्रवलसेनापरिकलिततया तान सर्वानप्यवगणय्य सोत्साहो हन्तुमारब्धवान, ते चैवं हन्यमानाः केऽपि तत्रैव परासवो बभूवुः केऽपि पुनः पलायितवन्तः, राजा च सामर्षः पल्लीं गृहीतवान!, वणिजश्च तत्रत्या न वयं चौरास्ततः किमस्माकं राजा करिष्यति ? इति बुद्ध्या नानेशन्, राजा च तेऽपि ग्राहिताः, ततस्तैर्विज्ञपयांचक्रे यथा-देव! वयं वणिजो न चौरा इति, ततो राजाऽवादीत यूयं चौरेभ्योऽप्यतीवापराधकारिणो येऽस्माकमपराधकारि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003330
Book TitleAgam Suttani Satikam Part 26 Oghniryukti Pindniryukti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages436
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_oghniryukti, & agam_pindniryukti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy