________________
मूलं-१४१
२८३ निवेशाद्गाअपहृत्यनिजग्रामाभिमुखंप्रचलिताःगच्छतांचतेषामपान्तरालकेऽप्यन्येदस्यवःपथिकामिलितवन्तः, ततस्तेऽपितैः सार्धं व्रजन्ति, व्रजन्तश्च स्वदेशं प्राप्ताः, ततःप्राप्तः स्वदेश इति निर्भया भोजनवेलायां कतिपयागाविनाश्यभोजनायतन्मांसंपक्तु मारब्धवन्तः,अस्मिंश्चप्रस्तावेकेश्रप्यन्येऽपिपथिकाःसमाययुः, ततस्तेऽपितैर्दस्युभिर्भोजनाय निमन्त्रिताः, ततो गोमांसे पक्के केऽपि चौराः पथिकाचभोक्तुं प्रवृत्ताः, केऽपि गोमांसभक्षणं बहुपापमिति परिभाव्य न भोजनाय प्रवृत्ताः, केवलमन्येभ्यः परिवेषणं विदधति, अत्रान्तरे च निष्प्रत्याकारनिशितकरवालभीषणमूर्तयः समाययुः कूजकाः, ततस्तैः सर्वेऽपि भोक्तारः परिवेषकाच परिगृहीताः, तत्र ये पथिका अपान्तराले मिलितादते पथिका वयमिति ब्रुवाणा अपि चौरोपनीतगोमांसभक्षणपरिवेषणप्रवृत्ततया चौरवद्दुष्टा इति गृहीता विनाशिताश्च ॥ अमुमेवार्थ दाान्तिके योजयतिमू. (१४२) जेऽविय परिवेसंती.भायणाणिधरंतिय।
तेऽवि बझंति तिव्वेण, कम्मुणा किमु भोइणो?॥ वृ. इह चौराणां येऽपान्तराले भोजनवेलायां वा ये मिलिताः पथिकास्तत्रापि ये परिवेषमात्रं भाजनधारणमात्रंवाकृतवन्तस्तेऽपिकूजकैरागत्यबद्धाविनाशिताश्च, एवमिहापियेसाधवोऽन्येभ्यःसाधुभ्यः आधाकर्मपरिवेषयन्ति वाधरन्तितेऽपि तीव्रेणंदुस्सहविपाकेननरकादिगतिहेतुना कर्मणा बध्यन्ते, किं पुनराधाकर्मभोजिनः?।तत एतद्दोषभयात्परिवेषणादिमात्रमप्याधाकर्मणः प्रतिषेवणंयतिभिर्न कर्त्तव्यम, इहचौरस्थानीयाआधाकर्मनिमन्त्रिणःसाधवोगोमांसभक्षकचौरपथिकस्थानीयाःस्वयंगृहीतनिमन्त्रिताधाकर्मभोजिनो गोमांसपरिवेषकादिस्थानीया आधाकर्मपरिवेषकादयः गोमांसस्थानीयमाधाकर्म पथस्थानीयं मानुषं जन्म कूजकस्थानीयानि कर्माणि मरणस्थानीयं नरकादिप्रपातः॥ मू. (१४३) सामत्थण रायसुए पिइवहण सहाय तह य तुण्हिक्का।
तिण्हंपिह पडिसुणणा रन्ना सिट्ठमि सा नंथि। वृ. गुणसमृद्धं नाम नगरं, तत्र महाबलो राजा तस्य शीला नाम देवी, तयोविजितसमरो नाम ज्येष्ठः कुमारः, सचराज्यंजिघृक्षुःपितरिदुष्टाशयश्चिन्तयामास-यथाममैषपतास्थविरोऽपिनम्रियतेनूनंदीर्घजीवी सम्भाव्यते ततो निजभटान् सहायीकृत्यैनंमारयामीति, एवं चचिन्तयित्वा निजभटैःसमंमन्त्रयितुं प्रावर्त्तत, तत्रकैश्चिदुक्तं वयंतेसाहायककारिणोऽपरैरुक्तम्-एवंकुरु, केचित्पुनस्तूष्णींप्रतिपेदिरे,अपरेपुनश्चेतस्यप्रतिपद्यमानाःसकलमपितद्वत्तान्तंराजेनिवेदयामासः ततोराजायेसाहायकंप्रतिपन्नायेचैवंकुर्वित्युक्तवन्तो येऽपिचतूष्णीतस्थःतान सर्वानपिज्येष्ठंचकुमारंवैवस्वतमुखेप्रतिचिक्षेप,यस्त्वागत्यनिवेदितंतेपूजिताः, गाथाक्षरयोजना त्वियं-सामत्थणं' स्वभटैः सह पर्यालोचनं, 'राजसुए'त्ति तृतीयार्थे सप्तमी, ततोऽयमर्थःराजसुतेनकर्तुमारब्धमितिशेषः तत्रकश्चिदुक्तं पितृहनने कर्तव्यतवसहायावयमिति तथा' इति समुच्चय चशब्दाऽनुक्त समुच्चयार्थःसचकचिंदवंकुर्वितिभाषितवन्तइतिसमुच्चिनाति कचित्पुनस्तूष्णीका जाताःमाननावस्थिताः, एतेषां च त्रयाणामपि प्रतिश्रवणदोषः, यस्तु राजे शिष्टं तेषां ‘सा' तत् प्रतिश्रवणं नास्ति। मू. (१४४) भुंज नभुंजे भुंजसुतइओ तुसिनीए भुंजए पढमो।
तिण्हपि ह पडिसुणणा पडिसेहतस्स सा नत्थि॥ वृ.इहकिलकेनापिसाधुनाचत्वारःसाधवआधाकर्मणेनिमन्त्रितायथाभुङ्ग्ध्वंयूयमेनमाहारमिति, तत्रैवं निमन्त्रणे कृते प्रथमो भुझते , द्वितीयः प्राह नाहं भुझे भुक्ष्व त्वमिति, तृतीयो मौनामाश्रितः, चतुर्थः पुनःप्रतिषिद्रवान्यथा-नकल्पतेसाधूनामाधाकर्मतसमादहनभु इति,तत्रत्रयाणामाद्यानांप्रतिश्रवणदोषः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org