________________
२७८
अट्टाए अनट्टाए छक्का मद्दणं तु जो कुणइ । अनिया य नियाए आयाहम्मं तयं बेंति ।।
मू. (१२४)
वृ. यो गृही 'अर्था' स्वस्य परस्य वा निमित्तम् 'अनर्थाय ' प्रयोजनमन्तरेण एवमेव पापकरणशीलतया 'अनियाएयनियाएत्ति' निदानंनिदा-पयाणिहिंसा नरकादिदुःखहेतुरिति जानताऽपियद्वा साधूनामाधाक नकल्पते इतिपरिज्ञानवताऽपियज्जीवानां प्राणव्यपरोपणंसानिदा, तन्निषेधादनिदा, पूर्वोक्त परिज्ञानविकलेन सता यत्पर प्राणनिवर्हणं सा अनिदेति भावार्थः, अथवा स्वार्थं परार्थं चेति विभागेनोद्दिश्य यत् पयाणव्यपरोणं सानिदा, तन्निषेधादनिदायत्स्वपुत्रादिकमन्यंवा विभागेनाविविच्यसामान्येन विधीयते, अथवाव्यापाद्यस्य सत्वस्यहा! धिक् सम्प्रत्येषमां मारयिष्यतीति परिजानतो यत् प्राणव्यपरोपणं सा निदा, तद्विपरीता अनिदा, यदजानतो व्यापाद्यस्य सत्त्वस्य व्यापादनमिति ॥ तथा चाह भाष्यकृत्
मू. (१२५)
तु अजाणतो तव उद्दिसिय ओहओ वावि । जाग अजाणगं वा वहेइ अनिया निया एसा ।
[भा. २२] वृ. व्याख्यातार्था, ततो निदयाऽनिदया वा यः षट्कायप्रमर्दनं करोति षण्णां पृथिव्यादीनां कायानां प्राणव्यपरोपणं विदघानि, तत् षट्कायप्रमर्द्दनं आत्मघ्नं नोआगमतो द्रव्यात्मघ्नं ब्रुवन्ति तीर्थक रगणधराः । अथ षट्कायप्रमर्द्दनं कथं नोआगमतो द्रव्यात्मघ्नं !, यावता भावात्मघ्नं कस्मान्न भवति ?, अत आहमू. (१२६/१) दव्वाया खलु काया ।
वृ. 'कायाः' पृथिव्यादयः 'खलु' निश्चयेन 'द्रव्यात्मानो' द्रव्यरूपा आत्मानः, जीवानां गुणपर्यायवत्तया द्रव्यत्वात्, उक्तं च-“अजीवकायाः धर्म्माधर्म्माकाशपुद्गलाः, द्रव्याणि जीवाचे” ति । ततस्तेषां यदुपमर्द्दनं तद्द्रव्यात्मघ्नं भवति । उक्तं द्रव्यात्मघ्नं, सम्प्रतिभावात्मघ्नंवक्तव्यं तच्च द्विधा आगमतोनोआगमतच, तत्र आगमत. आत्मघ्नशब्दार्थज्ञाता तत्र चोपयुक्तः, नोआगमतो भावात्मघ्नमाह
पिण्डनियुक्तिः- मूलसूत्रं
मू. (१२६/२) भावाया तिन्नि नामाईणि । परपाणपाडणरओ चरणायं अप्पणो हणइ ॥
वृ. 'भावात्मानो' भावरूपा आत्मानः 'त्रीणि ज्ञानादीनि' ज्ञानदर्शनचारित्राणि, आत्मनोहि परमार्थिकं स्वस्वरूपं ज्ञानदर्शनचरणात्मकं, ततस्तान्येव परमार्थत आत्मानो न शेषं द्रव्यमात्रं, स्वस्वरूपाभावात्, ततो यश्चारित्री सन् परेषां पृथिव्यादीनां ये प्राणां- इन्द्रियादयः तेषां यत् पातनं विनाशनं तस्मिन् रतः - आसक्तः स आत्मनश्चरणरूपं भावात्मानं हन्ति, चरणात्मनि च हते ज्ञानदर्शनरूपावप्यात्मानौ परमार्थतो हतावेव द्रष्टव्यौमू. (१२७) निच्छयनयस्स चरणायविघाए नाणदंसणवहो ऽवि ।
ववहारस्स उ चरणे हयंमि भयणा उ सेसाणं ।।
Jain Education International
वृ. निश्रयनयस्य मतेन चरणात्मविघांते सति ज्ञानदर्शनयोरपिधो-विघातो द्रष्टव्यः, ज्ञानदर्शनयोहिं फलं चरण प्रतिपत्तिरूपा सन्मार्गप्रवृतिः, सा चेन्नास्ति तर्हि ते अपि ज्ञानदर्शने परमार्थतोऽसती एव, स्वाकार्याकरणात्, उक्तं च मूलटीकायां चरणात्मविघाते ज्ञानदर्शनवधोऽपि, तयोश्ररणफलत्वात्, फलाभाव चहेतोर्निरर्थकत्वादिति, अपिच-यश्ररणंप्रतिपद्याऽऽहारलाम्पट्यादिना ततो नविनिवर्त्तते स नियमाद्भगवदाजाविलोपादिदोषभागी, भगवदाज्ञाविलोपादौ च वर्तमानो न सम्यग्ज्ञानी नापि सम्यग्दर्शनी, उक्तं च"आणाए च्चिय चरणं तब्भंगे जाण किं न भग्गति । आणं च अइक्कंतो कस्साएसा कुणइ सेसं ? || (तथा) "जो जहवायं न कुणइ मिच्छद्दिट्टी तओ हु को अन्नो ?। वड्डेइ य मिच्छत्तं परस्स संकं जणेमाणो ॥ ततश्ररणविधाते नियमतो ज्ञानदर्शनविघातः, 'व्यवहारस्य' व्यवहारनयस्य पुनर्मतेन हते चरणे 'शेषयोः'
For Private & Personal Use Only
www.jainelibrary.org