SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ मूलं-१२० सर्वोत्कृष्टानां सातावेदनीयप्रभृतीनां विशुद्धप्रकृतीनां सम्बन्धिनो विशुद्धाः स्थितिविशेषा वेदिताव्याः, तत एतेषां संयमस्थानादीनां सम्बन्धिषुशुभेषुस्थानेषु वर्तमानस्तद्गाहकः-आधाकर्मग्राहक आत्मानमेतेषां. संयमस्थानादीनां विशुद्धानामधोऽधस्तात्करोति । यदि नाम संयमस्थानादीनामधस्तादात्मानमाधाकर्मग्राही करोति ततः किं दूषणं तस्यापतितमत आह. मू. (१२१) भाववयारमाहे उमप्पगे किंचिनूनचरणग्गो आहाकम्मग्गही अहो अहो नेइ अप्पाणं॥ वृ. भावनां संयमस्थानादिरूपाणां विशुद्धानामधस्तात् हीनेषु हीनतरेषु अध्यवसायेषु अवतारम्' अवतरणमात्मनि आधाय' कृत्वा किञ्चिनूनचरणग्गो' इति इहचरणेनाग्रः-प्रधानश्चरणाग्रः, सचनिश्चयनयमतापेक्षयाक्षीणकषायादिरकषायचारित्रः परिगृह्यते, नचतस्य प्रमादसम्भवो नापिलौल्यम्, एकान्तेन लोलादिमोहनीयस्य विनाशात. ततो न तस्याधाकर्मग्रहणसम्भव इति किश्चिन्न्यूनग्रहणं, किश्चिन्न्यूनेन चरणेनाग्रः प्रधानः किञ्चिन्नयूनचरणाग्रः. स च परमार्थत उपाशान्तमोह उच्यते, अतिशयख्यापनार्थं चैतदुक्तं,ततोऽयमर्थः- किश्चिन्न्यूनचरणाग्रोऽपियावदास्तांप्रमत्तसंयतादिरिति, आधाकर्मग्राहीअधोऽधोरत्नप्रभादिनकादौ नयत्यात्मानम्, एतद्दषणमाधाकर्मग्राहिणः॥ एतदेव भावयतिमू. (१२२) बंधड़ अहेभवाऊ पकरेइ अहोमुहाईकम्माई। घनकरणं तिव्वेण उभावेण चओ उवचओ य॥ वृ.आघाकर्मग्राहीविशुद्धेभ्यःसंयमादिस्थानेभ्योऽवतीर्य अघः' अधोऽधोवर्तिषुहीनेषुहीनतरेषुभावेषु वर्तमानोऽधोभवस्यरत्नप्रभादिनारकरूपस्यभवस्यसम्बन्धिआयुः करोति' बध्नाति,शेषाण्यपिकाणि गत्यादिनामादीनि अघोमुखानि' अधोगत्यभिमुखानिअधोगतिनयनशीलानिइत्यर्थः, ‘प्रकरोति प्रकर्षण दुस्सहकटुकतीव्रानुभावयुक्त तया करोति-बध्नाति, बद्धानां च सतामाधाकर्मविषयपरिभोगलाम्पट्य. वृद्धिनो निरन्तरमुपजायमानेन तीव्रण' तीव्रतरेण 'भावेन' परिणामेन घनकरणं यथायोगं निधत्तिरूपतया निकाचनारीपतया वा व्यवस्थापन, तथा प्रतिक्षणमन्यान्यपुद्गलग्रहणेन चय उपचयश्च, तत्र स्तोकतरा वृद्धिश्चयः, प्रभूततरा वृद्धिरुपचयः, एतेन चव्याख्याप्रज्ञप्तिसूत्रमाचार्येणानुवर्तितं. तथा चव्याख्याप्रज्ञप्तावालापक:-"आहाकम्मणं जमाणे समणे निग्गंथे अट्टकम्मपगडीओ बंधइ अहे पकरेइ अहे चिणइ अहे उवचिणइ" इत्यादि।तत एवं सतिमू. (१२३) तेसिं गुरूणमुदएण अप्पगं दुग्गईए पवडतं । . नचएइ विधारेउं अहरगतिं निंति कम्माइं॥ वृ.तषाम' अधोभवायुरादीनां कर्मणां गुरब्णां' अधोगतिनयनस्वभावतया गुरुणीवं गुरुणिनषाम. 'उदयन विपाकवदनानुभवरूपण, विपाकवदनानुभवरूपोदयवशादित्यर्थः, दुर्गती प्रपतन्तमात्मानं विधारयितुं निवारयितुम् आधाकम्मंग्राही नशक्नोति यतोऽतःकम्माणि अधोभवायुरार्दानि उदयप्राप्तानि बलाद 'अधरगति नरकादिरूपांनयन्ति, न च कर्मणां कोऽपिबलीयान. अन्यथानकोऽपि नरकंयायात. नवा काऽपिदुःखमनुभवत्,तस्मादाधाकर्मअधोगतिनिबन्धनमित्यधःकम्मत्युच्यत।।तदेवमुक्तमधःकर्मति नाम, सम्प्रत्यात्मध्ननाम्नोऽवसर:,तदपिचात्मघ्नंचतुर्दा, तद्यथा-नामात्मघ्नं स्थापनात्मघ्नं द्रव्यात्मघ्नं भावात्मघ्नंच, इदमप्यधःकर्मवत्तावद्भावनीयं यावन्नोआगमतोज़शरीरद्रव्यात्मघ्नं भव्यशरीरद्रव्यात्मघ्नं. ज्ञशरीरभव्यशरीरव्यतिरिक्तं तु द्रव्यात्मघ्नं नियुक्ति कृदाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003330
Book TitleAgam Suttani Satikam Part 26 Oghniryukti Pindniryukti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages436
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_oghniryukti, & agam_pindniryukti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy