________________
२७०
पिण्डनियुक्तिः-मूलसूत्रं विनिपातकारीणिपापकर्माणिसेवन्तेतेसचेतनाअपिमोहमयजनद्रोपहतविवेकचेतनत्वादचेतनावपरमार्थतो वेदितव्याः, यदपि च तेषां शास्त्रादिपरिज्ञानं तदपि परमार्थतः शरीरायासफलं, यद्वा तदपि पापानुबन्धिकम्र्मोदयतस्तथाविधक्षयोपशमनिबन्धनत्वादशुभकर्मकार्येवेति तत्त्ववेदिनामुपेक्षास्पदं, विद्वत्ता हि सा तत्त्ववेदिनांप्रशंसाएयायथाऽवस्थितंवस्तुविविच्यहेयोपासेयहानोपादानप्रवृत्तिफला,यातुसकलजन्माभ्यासप्रवृत्त्या कथमपि परिपाकमागताऽपि सती सदैव तथाविधपापकर्मोदयवशत एकान्ताशुचिरूपेष्वपि युवतिजनवदनजघनवक्षोरुहादिशरीरावयवेषु रामणीयकव्यावर्णनफला सा इहलोकेऽपि शरीरायासफला परलोके च कुगतिविनिपातहेतुरित्युपेक्षणीया, ये पुनः परमर्षयः सर्वदैव सर्वज्ञमतानुसारितकांगमशास्त्राभ्यासतो विदितयथाऽवस्थितहेयोपादेयवस्तव इत्थं शरीरस्याशुचिरूपतां परिभाव्ययुवतिकलेवरेषु नाभिरज्यन्तेनापि कर्माणिस्वशरीरकृते पापानिसमाचरन्ति किन्तु शरीरादिनिस्पृहतया निरन्तरं सम्यक्शास्त्राभ्यासतो ज्ञानामृताम्भोधिनिमनाः सममित्रशत्रवः परिषहादिभिरजिताः सकलकर्म-निर्मूलनाय यतन्ते ते धन्यास्ते तत्त्ववेदिनस्तानहं नमसकरोमि तदनुष्ठितं च मार्गमिदानीमनुतिष्ठामि, इत्येवं तस्य मोदकप्रियस्यकुमारस्यवैराग्योद्गमेनसम्यग्दर्शनज्ञानचारित्राणामुद्गमोबभूव, ततःकेवलज्ञानोद्गमइति ।
तदेवमुक्तं मोदकप्रियकुमारकथानकं,सम्प्रतियदुक्तं चारित्रोद्गमेनाधिकार' इति,तत्रचारित्रस्योद्गमेनाधिकारःशुद्धस्यद्रष्टव्योनाशुद्धस्य, अशुद्धस्यमोक्षलक्षणकार्यसम्पादकत्वायोगात्, नखलुबीजमुपहतमङ्कुरं जनयति, सर्वत्राप्यनुपहतस्यैव कारणस्य कार्यजनकत्वात्, चारित्रसद्य च शुद्धेः कारणं द्विधा, तद्यथा-आन्तरं बाह्यं च, ते द्वे अपि प्रतिपादयतिमू. (१०६) . सणनाणप्पभवंचरणं सुद्धेसु तेसुतस्सुद्धी।
चरणेन कम्मसुद्धी उग्गमसुद्धा चरणसुद्धी॥ व. इह यतो ज्ञानदर्शनपयभवं चारित्रं, ततस्तयोः शुद्धयोस्तस्य चारित्रस्य शुद्धिर्भवति नान्यथा, तस्मादवश्यं चारित्रशुद्धिनिमित्तं चारित्रिणा सम्यग्ज्ञाने सम्यग्दर्शने च यतितव्यं, यत्नच निरन्तरं सद्गुरुचरणकमलपर्युपासनापुरस्सरं सर्वज्ञमतानसिरितांगमशास्त्राभ्यासकरणम्, एतेन चारित्रशुद्धेरान्तरंकारणमुक्तम,अथचारित्रशुद्धयाऽपिकिंप्रयोजनंयेनेत्यंतच्छद्धिरन्वेष्यते?.अतआह-चरणेन कर्मशुद्धिः, चरणेनविशुद्धेनकर्मणो-ज्ञानावरणीयादिकस्यशुद्धिः-अपगमोभवति,तदपगमेचात्मनोयथाऽवास्थितस्वरूपलाभात्मको मोक्षः, ततो मोक्षार्थिना चरणशुद्धिरपेक्ष्यते, तथानकेवलयोरेव ज्ञानदर्शनयोः शुद्धौ चारित्रशुद्धिःकिन्तूद्गमशुन्धौ चारित्रशुद्धिः। एतेनबााकारणमुक्तं,ततश्चरणशुद्धिनिमित्तं सम्यगदर्शनज्ञानवतापि नियमत उद्गमदोषपरिशुद्ध आहारो ग्राह्यः। ते चोद्गमदोषाः षोडशः निर्दिशति मू. (१०७) आहाकम्मुद्देसिय पूईकम्मे ये मीसजाए य।
ठवणा पाहुडियाए पाओअर कीय पामिच्च ।। मू. (१०८) परियट्टिए अभिहडे उब्भिन्ने मालोहडे इय।
अच्छिज्जे अनिसटे अज्झोयरए यसोलसमे॥ वृ. 'आधाकर्मेति' आघानं-आधा उपसर्गादात' इत्याप्रत्ययः, साधुनिमित्तं चेतसः प्रणिधानं, यथाऽमुकस्य साधोः कारणेनमा भक्तादिपचनीयमिति, आधया कर्म-पाकादिक्रिया आधाकर्म तद्योगाद् भक्ताद्यप्याधाकर्म,इहदोषाभिधानप्रक्रमेऽपियघोषवतोऽभिधानंतदोषदोषवतोरभेदविवक्षयाद्रष्टव्यं यद्वाआधाय-साधुंचेतसिप्रणिधाययत्क्रियतेभक्तादितदाधाकर्म, पृषोदरादित्वायलोपः, १, तथा उद्देशनम् For Private & Personal Use Only
www.jainelibrary.org
Jain Education International