SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २६८ पिण्डनिर्युक्तिः- मूलसूत्रं केनापिधूर्तेन कृतानि कूटानि, यत एवं नलवनान्यतिप्ररूढानिसरस्यां वाऽतीव जलसम्भृता वर्षासु सम्भवन्ति नेदानीं ग्रीष्मकाले, अथ ब्रवीन् प्रत्यासन्नविन्ध्यपर्वतनिर्झरणप्रवाहत एवं सरस्यो भूता नलवनानि चातिप्ररूढानि ततो नामूनि कूटानि, तदयुक्त म्, अन्यदाऽपि हि खलु निर्झरणान्यासीरन् न चैवं कदाचनाप्यतिजलभृताः सरस्योऽभूवन्, तथा चैतदर्थसङ्ग्राहिकामेव निर्युक्ति कारो गाथां पठतिमू. (९९) विइयमेयं गजकुलाणं, जया रोहंति नलवणा । अन्नयावि झरंति हृदा, न य एवं बहुओदगा ॥ वृ. विदितमेतद् गजकुलानां यदा ' रोहन्ति' अतिशयेन प्ररूढानि भवन्ति नलवनानि, तस्मान्नामूनि स्वाभाविकानि, अथ निर्झरणवशादेवं प्ररूढानि तत आह- अन्यदाऽपि हृदा झरन्ति, न त्वेवं कदाचनापि बहूदकाःसरस्योऽभवन्, तस्माद्धूर्तेन केनाप्यमूनि कृतानि कूटनीति मात्र यूयं यासिष्ट, एवमुक्ते यैस्तद्वचः प्रतिपन्नं ते दीर्घकालं वनस्वेच्छाविहारसुखभागिनो जाताः, यैस्तुनकृतंते बन्धबुभुक्षादिदुःखभागिनः इहापि गजयूथाधिपतेर्नलवनसदोषपरिभावनं द्रव्यगवेषणा, दाष्टन्तिकयोजना तु पूर्ववत् स्वयमेव भावनीया. तदेवमुक्ता द्रव्यगवेषणा, साम्प्रतं भावगवेषणा कर्त्तव्या, सा च उद्गमाशुद्धाहारविषया मू. (१००) उगम उगवण मग्गणः य एगट्टियाणि यानि । नामं ठावणा दविए भावंमि य उग्गमो होई ॥ वृ. उद्गम उद्रोपना मार्ग़णा च एकार्थिकान्येतानि नामानि स चोद्गमचतुर्धाभवति, तद्यथा- 'नाम' ति नामोद्गमः-यदुद्गमइतिनाम, अथवा जीवस्याजीवस्य वा यद् उद्गम इतिनामसनामनावतोरभेदोपचारात्, यद्वानाम्नाउद्गमोनामोद्गम इतिव्युत्पत्तेर्नामोदौगमः स्थापनोद्गमः उद्गमःस्थाप्यमानः, 'द्रव्ये' द्रव्यविषयः, 'भावे' भावविषयः ।। तत्र द्रव्योद्गमो द्विधा - आगमतो नोआगमतश्च, नोआगमतोऽपि त्रिधाज्ञशरीरभव्यशरीतद्व्यतिरिक्त भेदात् तत्राऽऽगमतोनोआगमतश्चज्ञशरीरभव्यशरीररूपौ द्रव्यगवेषणावद् भावनीयौ, ज्ञशरीरभव्यशरीरव्यतिरिक्तं तु द्रव्योद्गमं तथा नोआगमतो भावोद्गमं च प्रतिपादयतिमू. (१०१ ) दव्वंमि लड्डुगाई भावे तिविहोग्गमो मुनेयव्वो । दंसणनाणचरिते चरित्तुग्गमेणेत्थ अहिगारो ॥ बृ. ‘द्रव्ये' द्रव्यविषये उद्गमः 'लड्डुकादी' लड्डुकादिविषयो लड्डुकादेः सम्बन्धी वेदितव्यः, अत्राऽऽदिशब्दाद ज्योतिरादिपरिग्रहः, तथा 'भावे' भावविषयः 'त्रिविधः 'त्रिप्रकारः ज्ञातव्यः, तद्यथा- 'दर्शने ' दर्शनविषयः ज्ञाने ज्ञानविषयः, 'चारित्रे' चारित्रविषयः, अत्रतु चारित्रोद्गमेनाधिकारः- प्रयोजनं, चारित्रस्य प्रधानमोक्षाङ्गत्वात्, तथाहि ज्ञानदर्शन सती अपि न चारित्रमन्तरेण कमम्मलापगमाय प्रभवतः, श्रेणिकादा तथाऽनुपलम्भात्. चरित्रं पुनरवश्यं ज्ञानदर्शनाविनाभावि स्वरूपेणापि चाभिनवकम्र्मोपादाननिषेधपूर्वोपार्जितकर्म्मापगमकरणस्वरूपं ततस्तत्पयधानं मोक्षस्याङ्ग, प्रधानानुयायिन्यश्च प्रक्षावतां प्रवृत्तयः. ततोऽत्र चारित्रोद्गमेन प्रयोजनम् ॥ लड्डुकांदेरित्यत्रादिशब्देन लब्धं ज्योतिरुद्गमादिरूपं द्रव्याद्गमं - मू. (१०२) जोइसतणोसहीणं मेहरिणकराणमुग्गमो दव्वे । सो पुन जत्तो य जया जहा य दव्वुरगमी बच्चो ॥ वृ. ज्योतिषां चन्द्रसूर्यादीनां तृणानां दर्भादीनां औषधीनां शाल्यादीनां मेघानां - जीभूतानां ऋणस्यउत्तमर्णाय दातव्यस्य कराणां राजदेयभागानां, उपलक्ष्णमेतत् अन्येषामपि द्रव्याणां य उद्गमः स 'द्रव्ये' द्रव्यविषयो द्रव्यस्य सम्बन्धी वेदितव्यः, स पुर्नर्द्रव्योद्गमः 'यतः ' यस्मात्सकाशात् 'यदा' यस्मिन काले Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003330
Book TitleAgam Suttani Satikam Part 26 Oghniryukti Pindniryukti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages436
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_oghniryukti, & agam_pindniryukti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy