________________
मूलं-१६ पुञ्जकपुञ्जकस्थितान्मोदकनवलोक्यमृगानुक्त वान, यथा-भोरुरवो! युष्माकं बन्धनार्थमिदं केनापिधूर्तेन कृतं कूटं वर्तते, यतो नसम्प्रति श्रीपर्णीफलानि सम्भवन्ति, न च सम्भवन्त्यपिपुञ्जकपुञ्जकाकारेण घटन्ते, अथमन्येथास्तथाविधपरिभ्रमद्वातसम्पर्कतःपुञ्जकपुञ्जकाकारेणघटन्ते, दतप्ययुक्तं,ननुपुरापिवातावान्ति स्म, नतु कदाचनाप्येवं पुनकपुञ्जकाकारेण भवन्ति स्म, तथा चैतदेव नियुक्ति कारः पठति___ मू. (९७) विइअमेयं कुरंगाणं. जया सीवन्नि सीयइ।
पुरावि वाया वायंता, न उन पुंजकपुंजका॥ वृ. 'विदितं' प्रतीतम्, एतत्कुरङ्गाणां यदा श्रीपर्णी 'सीदति' धातूनामनेकार्थत्वात्फलति, तस्मान्नेदानीं फलानि सम्भवन्ति, सम्भवन्तु वा तथाऽपि कथं पुञ्जकपुञ्जकाकारेण स्थितानि?, वातत्रशाच्चेन्ननु पुरापि वातावान्तिस्म, न पुनरेव' पुञ्जकपुनकाः फलानामभवन, तस्मात्कूटमिदमस्माकं बन्धनाय कृतं वर्तते इति मा यूयमेतेषामुपकण्ठं गमत, एवमुक्ते यैस्तद्वचः प्रतिपन्नं ते दीर्घजीविनो वनेष स्वेच्छाविहारसुखभागिनथाजायन्त, यस्त्वाहारलम्पटतया तद्वचो न प्रतिपन्नं ते पाशवन्धनादिदुःखभागिनोऽभवन् । इह यद्यूथाधिपतेः श्रीपर्णीफलसदृशमोदकद्रव्यसदोषत्वनिर्दोषत्वनिर्दोषत्वपर्यालोचनं सा द्रव्यगवेषणा । इह निर्युक्तकारेण 'पसत्थअपसत्थ उवमा उ' इति प्रतिपादयता दार्शन्तिकोऽप्यर्थः सूचितो द्रष्टव्यः, सचायंयूथाधिपतिस्थानीया आचार्याः मृगयूथस्थानीयाश्च साधवः, तत्र ये गुरुनियोगत आधाकम्र्मादिदोषदुष्टाहारपरिहारिणस्ते प्रशस्तकुरङ्गोपमा द्रष्टव्याः, ये त्वाहारलाम्पट्यतो गुह्यज्ञामपाकृत्याधाकाः दिपरिभोगिणो बभूवुः ते अप्रशस्तकुरङ्गसदृशा वेदितव्याः, अत्रार्थे च कथानकमिदं-हरन्तो नाम सन्निवेशः, तत्र यथाऽऽगम विहरन्तः समिता नाम सूरयः समाययुः, तत्र च जिनदत्तो नाम श्रावक आसीत्, सच जिनवचनसाधुभक्तिपरीतचेता दानशौण्डः कदाचित्साधुनिमित्तं भक्तमाधाकर्म कारितवान, सूरयश्च सर्वमपितंवृत्तान्तं कथश्चित्परिज्ञातवन्तः, ततस्तैःसाधवस्तत्रप्रविशन्तोनिवारिताः, यथा-भोःसाधवस्तत्र साधुनिमित्त आहारः कृतो वर्तते इतिमातत्रयूयंगमत,एवमुक्ते यैस्तद्वचः प्रतिपन्नं ते आधाकर्मपरिभोगजनितपापकर्मणानबद्धागुर्वाज्ञाचपरिपालिता,ततःशुद्भशुद्धतरसंयमप्रवृत्तिभावतोमुक्ति-सुखभागिनोऽभवन्. यैस्त्वाहारलाम्पट्यतो भाविनंदोषमवगणय्याधाकर्मणि झषा इव बडिशनिवेशिते मांसे प्रवृत्ताःते कुगतिहेत्वाधाकर्मपरिभोगतो गुर्वाज्ञाभङ्गतश्च दीर्घतरसंसारभागिनो जाताः।। साम्प्रतं गजदृष्टान्तमाहमू. (९८) हथिग्गहणं गिम्हे अरहट्टेहिं भरणं च सरसीणं।
- अच्चुदएण नलवण आरढा गयकुलागमनं ।। वृ. हस्तिग्रहणं मया कार्यमित्येवं राज्ञचिन्ता, ततस्तद्ग्रहणाय ग्रीष्मकालेऽपि पुरुषप्रेषणा तैश्च सरसीनामरघट्टकंर्भरणं कृतं, ततोऽत्युदकन नलवनान्यतिशयन प्ररढानि. ततो गजकुलस्यागमनमिति गाथाक्षरार्थः ।। भावार्थस्तु कथानकादवसंयः. तच्चेदम-आनन्दं नाम पुरं, तत्र रिपुमर्दना नाम राजा. तस्य भार्याधारिणी,तस्यचपुरस्यप्रत्यासन्नंगजकुलशतसहस्रसंकुलं विन्ध्यमरण्यं,ततोराजाकदाचिद्गजबलं महाबलमित्यवश्यं मया गजा ग्रहीतव्या इति परिभाव्य गजग्रहणाय सत्वरं पुरुषान प्रेरयमास, ते च पुरुषाचिन्तितवन्तो यथा-गजानां नलचारिरभीष्टा, सा च सम्प्रति ग्रीष्मकाले न सम्भवति, किन्तु वर्षासु, ततइदानीमरघट्टैःसरसीर्बिभृमोयेननलवनान्यतिप्ररूढानिभवन्तीति,तथैवकृतं,नलवनप्रत्यासन्नाश्चसर्वतः पाशा मण्डिताः इतथ परिभ्रमन्तो यूथाधिपतिसहिता हस्तिनः समाजग्मुः, यूथाधिपतिश्च तानि नलवनानि परिभाव्य गजान् प्रति उवाच-भोः स्तम्बेरमा ! नामनि नलवनानि स्वाभाविकानि, किन्त्वस्माकं बन्धनाय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org