________________
पिण्डनियुक्तिः- मूलसूत्र
गवादिपदप्रतिबिम्बानुसारेण मृगयते, कोऽपि पुनः स्वशौर्यप्रकटनाय जनप्रकाशं व्याघ्रमपगतासुंचिकीर्षति, एवमपदादिष्वपि भावना कार्या ।। उक्ता द्रव्यैषणा, साम्प्रतं भावैषणां त्रिप्रकारामभिधित्सुराहमू. (९२) भावेसणा उतिविहा गवेसगहणेसणा उ बोद्धव्वा । गासेसणा उ कमसो पन्नत्ता वीयरागेहिं ॥
२६६
-
वृ. 'भावः' ज्ञानादिरूपः परिणामविशेषः तद्विषया एषणाभावैषणा, यथा ज्ञानदर्शनचारित्राणामेकदेशतः समूलघातं वा घातो न भवति तथा पिण्डादेरेषणमिति भावः, साऽपि 'त्रिधा' त्रिप्रकारा 'क्रमश' क्रमेण प्रज्ञप्ता वीतरागैः, केनक्रमेण? इत्यत आह- 'गवेसे' त्यादि, पूर्वगवेषणैषणाततो ग्रहणैषणा ततो ग्रासैषणा ।। कस्मात्पुनरित्थं गवेषणादीनां क्रम ? इत्याह
मू. (९३)
अगविस्स उ गहणं न होड़ न य अगहियस्स परिभोगो । एसणतिगस्स एस नायव्वा आनुपुब्वी उ ॥
वृ. इहन' अगवेषितस्य' अपरिभावितस्य पिण्डोदेर्ग्रहणं, नाप्यगृहीतस्य परिभोगः, ततएषणात्रिकस्य 'एषा' पूर्वोक्ता 'आनुपूवीं' क्रमे ज्ञातव्यः ॥ सम्प्रति गवेषणाया नामादीन् भेदानाहनामं ठवणा दविए भावंमि गवेसणा मुनेयव्वा ।
पू. (९४)
दव्वंमि कुरंगगया उग्गमउप्पायणा भावे ॥
वृ. 'नाम' तिनामगवेषणा स्थापनागवेषणाएते च एषणेइव सप्रपञ्चस्वयमेवभावनीये, 'द्रव्ये' द्रव्यविषया 'भावे' भावविषया, तत्र द्रव्यविषया आगमनोआगमभेदाद्विधा, तत्राऽऽगमतो गवेषणाशब्दार्थज्ञाता तत्र चानपियुक्तः, 'अनुपयोगो द्रव्य' मितिवचनात्, नोआगमतस्त्रिघाज्ञशरीरभव्य-शरीरतद्व्यतिरिक्त भेदात्, तत्र ज्ञशरीरभव्यशरीररूपे द्रव्यगवेषणे एषणे इव भावनीये, ज्ञशरीरभव्यशरीरव्य-तिरिक्त- गवेषणा सचित्तादिद्रव्यजवषया, तत्र कुरङ्गगजा उदाहरणं, तथा चाह- 'दव्वंमि कुरंगगया' द्रव्ये द्रव्यविषयायां गवेषणायां कुरङ्गाः- मृगाः गजाः - हस्तिनो दृष्टान्ताः, 'भावे' भावविषया गवेषणा ' उग्गम उप्पायण ति सूचनात्सूत्रजमजत न्यायादुद्रमोत्पादनादोषविमुक्ताहारविषया ।। यदुक्तं - 'दव्वंमि कुरंगगया' इति - मू. (९५) जियसत्तु देवि चित्तसम पविसणं कणगपिट्टपासणया । दोहल दुब्बल पुच्छा कहणं आणा य पुरिसाणां ।। सीवन्निसरिसमोयगकरणं सीवन्निरुक्खहेट्टे । आगमन कुरंगाणं पत्थ अपसत्थ उवमा उ ॥
मू. (९६)
वृ. सुगमं, नवरंभावार्थः कथानकादवसेयः तच्चेदं- क्षितिप्रतिष्ठितंनामनगरं, तत्र राजा जितशत्रुतस्तस्य भार्या पट्टमहादेवी नाम्ना सुदर्शना, तस्याः कदाचिदापन्नसत्त्वाया राज्ञा सह चित्रसभायां प्रविष्टायाचित्रलिखितान् कनकपृष्ठान्मृगानवलोक्य तन्मांसभक्षणं दौहृदमजायत, दौहृद चासम्पद्यमाने तस्याः खेदवशतः शरीरस्य दौर्बल्यमभवत, तच्च दृष्ट्वा नृपतिः सखेदं तां पृष्टवान्, यथा- हा प्रिये ! किमतीव शरीरे तव दौर्बल्यमजायत ?, ततः सा दौहृदमचकथत, ततो राजा सत्वरं कनकपृष्ठकुरङ्गानयनाय पुरुषान् प्रेषितवान्, तेऽपिच पुरुषाः स्वचेतसिचिन्तयामासुः - इहयस्य यद्वल्लभं सतत्रासक्त असन्प्रमादभावं भजमानः सुखेनैव बध्यते, कनकपृष्ठानां च कुरङ्गाणामिष्टानि श्रीपर्णीफलानि तानि च सम्प्रतिनविद्यन्ते, ततस्तत्सदृशान्मोदकान्कृत्वा श्रीपर्णी वृक्षतलेषु सर्वतः पुञ्जकपुञ्जकाकारेण क्षिप्त्वा तेषां समीपे पाशान् स्थापयाम इति तथैव कृतं, ते च कनकपृष्ठारुरवो निजेन यूथाधिपतिनासहस्वेच्छयापरिभ्रमन्तसतत्रागताः, यूथाधिपतिश्चश्रीपर्णीललाकारान्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org