________________
मूलं-८९ नामनामवतोरभेदोपचारात्, यद्वा-नाम्ना एषणा नामैषणा इति व्युत्पत्तेनमिषणेत्यभिधीयते, स्थापनैषणा एषणावतः साध्वादेः स्थापना, इंहषणा साध्वादेरभिन्ना तत उपचारासाध्वादिरेव एषणेत्यभिधीयते, ततः स स्थाप्यमानः स्थापनेषणा, स्थाप्यते इति स्थापना स्थापना चासौ एषणा स्थापनैषणा, द्रव्येषणा द्विधा. आगमतो नोआगमतश्च. तत्राऽऽगमत एषणाशब्दार्थस्य ज्ञाता तत्र चानुपयुक्तः 'अनुपयोगो द्रव्य मिति वचनात.नोआगमतस्त्रिधा, तद्यथा-ज्ञशरीरद्रव्यैषणा भव्यशरीरद्रव्यैषणाशशरीरभव्यशरीरव्यतिरिक्तद्रव्यैषणा च, तत्रैषणाशब्दार्थज्ञस्य यच्छरिरमपगतजीवितं सिद्धशिलातलादिगतं तद्भूतभावतया सशरीरद्रव्यैषणा, यस्तु बालको नेदानीमेषणाशब्दार्थमवबुध्यते अथ चायत्यां तेनैव शरीरसमुच्छ्रयेण परिवर्द्धमानेन भोत्स्यते स भाविभावकारणत्वाद्भव्यशरीरद्रव्यैषणा, ज्ञशरीरभव्यशरीरव्यतिरिक्तातु द्रव्यैषणासचित्तादिद्रव्यविषया,भावैषणाऽपिद्विधा-आगमतोनोआगमतच,तत्रआगमतएषणाशब्दार्थस्य परिज्ञाता तत्र चोपयुक्तः, 'उपयोगोभावनिक्षेप' इति वचनात. नोआगमतो गवेषणाएषणादिभेदात विधा, तत्र नामषणां स्थापनैषणां द्रव्यषणां आगमती नोआमतश्च ज्ञशरीरभव्यशरीररूपां भावैषणां त्वागमतः सुज्ञानत्वादनादृत्यशेषांद्रव्यैषणांभावैषणांचव्याचिख्यासुरिदमाह- ‘दव्वे' इत्यादि, द्रव्ये-द्रव्यविषया भावे च' भावविषया, एकैका त्रिविधा' त्रिप्रकारा ज्ञातव्या, तत्र द्रव्यविषया त्रिविधा सचित्तादिभेदात. तद्यथासचित्तद्रव्यविषया अचित्तद्रव्यविषया मिश्रद्रव्यविषया च, भावविषयापि त्रिधा गवेषणादिभेदात, तद्यथागवेषणैवषा ग्रहणैषणा ग्रासैषणा च ।। तत्र द्रव्यैषणापि सचित्तद्रव्यविषया त्रिधा, तद्यथा-द्विपदविषया चतुष्पदविषया अपदविषया च, तत्र प्रथमतो द्विपदद्रव्यविषयामेषणामाहमू.(९०) जम्म एसइएगो सुयस्सअन्नो तमेसए नहूँ।
सत्तुं एसइ अन्नो पएण अन्नो य से मच्छु ।। वृ. इह यद्यपि एषणादीनि चत्वारि नामानि प्रागेकाथिकान्युक्तानि, तथाऽपि तेषां कथञ्चिदर्थभेदोऽप्यस्ति, तथाहि-एषणा इच्छामात्रमाभिधीयते, तच्च गवेषणादावपि विद्यते, अत एव गवेषणादय एषणायाः पर्यायाउक्ताः,गवेषणादीनांतुपरस्परंनियतोऽप्यर्थभेदोऽस्ति.तथाहि-गवेषणमनुपलभ्यमानस्यपदार्थस्य सर्वतःपरिभावनं,मार्गण-निपुणबुझ्याऽन्वेषणम, उद्रोपनं-विवक्षितस्यपदार्थस्यजनप्रकाशचिकीर्षा.तत एतेषांक्रमेणोदाहरणान्याह-एकाकोऽप्यनिर्दिष्टनामादेवदत्तादिकःसन्तत्यादिनिमित्तंसुतस्य जन्म' उत्पत्तिं 'एषते' इच्छति.इदमेषणायाउदाहरणम.अनौय:पुनःकोऽपियज्ञदत्तादिकःसुतंक्वापिनष्टम एषते' गवेषयते, इदं गवेषणाया उदाहरणम, अन्यः कोऽपि विष्णमित्रादिकः ‘पदेन' पदानुसारेण धूलीबहलभूमिसमुत्थचरणप्रतिबिम्बानुसारेणेत्यर्थः,शत्रुम् एषते' मृगयते, इदमार्गणायाउदाहरणम.अन्यःपुनः से'तस्य शत्राः मृत्युमरणम एषते' उदापयति, सर्वजनप्रकाशंमृत्युभिधातुमभिलषीत्यर्थः इदमुद्रोपनायाउदाहरणमा तदेवमुक्ता सचित्तद्विपद्रव्यविषयाएषणा सम्प्रति सचित्तचतुष्पदापदविषयां मिश्रविषयामचित्तविषयांचमू. (९१) एमेव संसएसुवि चउप्पयापयअचित्तमीसेसु।
जा जत्थ जुज्जए एसणा उतं तत्थ जोएज्जा ।। वृ. एवमेव' द्विपदष्विव शेषेष्वपि द्विपदभ्या व्यतिरिक्तेष्वपि चतुष्पदापदाचित्तमिश्रेषु गवादिवीजपूरकादिद्रम्मादिकटककेयूराद्याभरणविभूषितसुतादिरूपेषु द्रव्येषु विषयेषु या यत्रैषणाइच्छागवेषणामार्गणादिरूपा 'युज्यते' घटते तां तत्र पूर्वाक्त गाथानुसारेण योजयेत. यथा कोऽपि दग्धाभ्यवहारायगामिच्छति,कोऽपिपुनस्तामेवक्वापिनष्टांगवेषयते.अन्यःपुनस्तामेवगांपरास्कन्दिभिरपहियामाणां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org