________________
२६४
पिण्डनिर्युक्तिः- मूलसूत्र
उद्भमादिदोषदुष्टस्य च चारित्रभ्रंशकारित्वात् ॥ एतदेवाहारस्य निर्वाणकारणज्ञानादिकारणत्वंजह कारणं तु तंतू पडस्स तेसिं च होंति पम्हाई । 'नाणाइतिगस्सेवं आहारो मोक्खनेमस्स ॥
मू. (८५)
वृ. यथा पटस्य तन्तव- कारणं तेषामपि तन्तूनां कारणानि पक्ष्माणि भवन्ति, 'एवम्' अनेन प्रकारेण ज्ञानादित्रिकस्य 'मोक्खनेमस्स' त्ति नेमशब्दो देश्यः कार्याभिधाने रूढः, ततो मोक्षो नेमः कार्यं यस्य तस्य कारणं भवत्याहार- । इह कचित् ज्ञानादीनां मोक्षकारणतामेव न प्रतिपद्यते, विचित्रत्वात्सत्त्वचित्तवृत्तेः, ततस्तं प्रति ज्ञानादीनां मोक्षकारणतां दृष्टान्तेन भावयति
मू. (८६)
कारणमनुवह कज्जं साहेइ अविकलं नियमा । मोक्खक्खमाण एवं नामाईणि उ अविगलाई ।
वृ. यथा वीजादिलक्षणं कारणनुपहतम्-अग्न्यादिभिरविध्वस्तम 'अविकलं' परिपूर्णसामग्रीसम्पन्नं नियमादङ्कुरादिलक्षणं कार्यं जनयति, 'एवम्' अनेनैव प्रकारेण ज्ञानादीन्यप्यविकलानि परिपूर्णानि तुशब्दादनुपहतानिचनियमतः 'मोक्षक्षमाणि' मोक्षलक्षणकार्यसाधनानिभवन्ति, तथाहि संसारापगमरूपों मोक्षः, संसारस्यच कारणं मिथ्यात्वाज्ञानाविरतयः तत्पतिपक्षभूतानि चज्ञानादीनि, ततो मिथ्यात्वादिजनितं कर्म्मनियमतोज्ञानाद्यासेवायामपगच्छति, यथा हिमप्रपातजनितं शीतमनलासेवायामिति, कारणानि मोक्षस्य ज्ञानादीनि तानिचपरिपूर्णानितुशब्दादनुपहतानिच, अनुपहतत्वंच चारित्रस्योद्गमादिदोषपरिशुद्धाहारग्रहणे सति, नान्यथा, ततोऽष्टभिः स्थानैराहारो यतिभिर्ग्राह्य इत्येतदत्र वक्त व्यम्, अत आहारपिण्डेनेहाधिकारः । तदेवमुक्तः पिण्ड, सम्पत्येषणा वक्त व्या, ततः पिण्डस्योपसंहारमेषणायाश्चोपक्षेपं चिकीर्षुरिदमाहमू. (८७) संखेव पंडियत्थो एवं पिंडो मए समक्खाओ ।
फुडवियड पायडत्वं वोच्छामी एसणं एत्तो ॥
वृ. ' एवं ' पूर्वोक्तेनप्रकारेण 'सङ्क्षेपपिण्डितार्थः ' सङ्क्षेपेण-समासेनसामान्यरूपतयेत्यर्थःपिण्डितःएकत्रमीलितः तात्पर्यमात्रव्यवस्थापितोऽर्थः - अभिधेयंयस्यसतथारूपः पिण्डोमयाव्याख्यातः, 'इतः 'उद्धर्वम् 'एषणाम् ' एषणाभिधायिकां गाथासन्ततिं 'स्फुटविकटप्रकटार्थों, स्फुटः-निर्मलः न तात्पर्यानवबोधेन कश्मलरूपः विकटः- सूक्ष्ममतिगम्यता दुर्भेद - प्रकटः- तथा विधिविशिष्टवचनरचनाविशेषतः सुखप्रतिपाद्यो योऽक्षरेष्वव्याख्यातेष्वपि प्रायः स्वमेय परिस्फुरन्निव लक्ष्यते स प्रकट इति भावार्थः अर्थः- अभिधेयं यस्याः सा तथां ता वक्ष्ये ।। तत्र 'तत्त्वभेदपर्यायैर्व्याख्ये 'ति प्रथमतः सुखावबोधार्थमेषणायाः व्याख्यामू. (८८) एसण गवसणा मग्गणा य उग्गीवणा य बोद्धव्वा ।
एए उ एसणाए नामा एगट्टिया होंति ।।
वृं. एषणा गवेषणा मार्गणादगोपना एतानि चशब्दादनेवेषणाप्रभृतीनि चैषणाया एकार्थिकानि नामानि भवन्ति, तत्र 'इषु इच्छाया' एषमण् एषणा इच्छा, गवेषणा - अन्वेषणा गवेषणं गवेषणा, मार्गणं मार्गणा, उद्गोपनम् उद्गोपना ।। एवं नामान्यभिधाय सम्प्रति भेदानाभिधित्सुराह
मू. (८९)
नाम दवणा दविए भावंमि य एसणा मुणयव्वा ।
दव्वे भावे एक्वेक्कया इ तिविहा मुणेयव्वा ॥
वृ. एषणा चतुर्विध ज्ञातव्या, तद्यथा-नामैषणा स्थापनैषणा तथा 'द्रव्ये' द्रव्यविषयैषणा 'भावे' भावविषया च. तत्र नामैषणा एषणा इति नामयद्वा-जीवस्याजीवस्य वैषणाशब्दान्वर्थरहितस्य एषणा इति नाम क्रियतेस
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org