________________
मूलं - ८०
२६३
ते परिग्रहविरतिपिण्ड इति पञ्चविधो भावपिण्ड उपपद्यते, एवं शेषेष्वपि पिण्डेषु पिण्डत्वभावना भावनीया । एवमप्रशस्तेष्वपि भावपिण्डेषु || तदेवं पिण्डनं पिण्ड इति भावविषयां व्युत्पत्तिमधिकृत्य संघमादेः पिण्डत्वमुक्तम्, अथवा भावपिण्डविचारे पिण्डशब्द - कर्तृसाधनो विवक्ष्यते, यथा पिण्डयति - कर्म्मणा सहात्मानं मिश्रयतीति पिण्डो भावश्चासौ पिण्डश्च भावपिण्डः, एतदेवाह
मू. (८१)
कम्माण जेन भावेन अप्पगे चिणइ चिक्कणं पिंडं । सो होइ भावपिंडो पिंडयए पिंडणं जम्हा ॥
वृ. पेन 'भावेन' परिणामविशेषणकर्म्मणां पिण्डं चिक्कणन्ति' अन्योऽन्यानुवेधेनगाढसंश्लेषरूपमात्मानि चिनोतिसभावोभवतिभावपिण्डः, अत्रहेतुमाह यस्मात्पिण्डनमितिपिण्डयते आत्मास्वेनसहयेनतत्पिण्डनंकर्म ज्ञानावरणीयादि तत्पिण्डयति - आत्मना सह सम्बद्धं करोति स भावस्तस्मात्कारणात्स भावपिण्ड इत्युच्यते, अत्र चेत्यं प्रशस्ताप्रशस्त्वभावना येन भावेन शुभं कर्म्म आत्मन्युपचीयते स प्रशस्तो भावपिण्डः येन त्वशुभं सोऽप्रशस्त इति ।। तदेवमुक्तो भावपिण्डः, तदुक्तौ च व्याख्याताः षडपि नामादयः पिण्डाः । मू. (८२) दधे अचित्तेणं भावंभि पसत्थएहिं पगयं । उच्चारित्थसरिआ सीसमइ विकोवणट्टाए ।
वृ. 'इह' अस्यां पिण्डनिर्युक्तौ 'द्रव्ये' द्रव्यपिण्डविषये 'अचित्तेन' अचित्तद्रव्यपिण्डेन 'भावे' भावपिण्डविषये पुनः प्रशस्तेन' प्रशस्तभावपिण्डेन 'प्रकृतं' प्रयोजनं, यद्येवं तर्हि शेषाः किमर्थमाभिहिताः ? अत आह‘उच्चारिए’ त्यादि, शेषा-नामादयः पिण्डाः पुनरुच्चरितार्थसदृशा उञ्चरितः प्रतिपादितः योऽर्थः पिण्डशब्देनान्वर्थयुक्तेन तत्सदृशाः - तेन तुल्याः, तेषामपि पिण्डा इत्येवमुच्चार्यमाणत्वात्, ततः शिष्याणां मतेविकोपनं - प्रकोपनं झटिति तत्तदर्थव्यापकतया प्रसरीबवनंतदर्थमुक्ताः, इयमत्रभावना- -जंगतिनामादयोऽपि पिण्डा उच्यन्ते, तत्रापि पूर्वोक्त प्रकारेण पिण्डशब्दप्रवृत्तिदर्शनात्, केवलमिह तेषां मध्येऽचित्तद्रव्यपिण्डेन प्रशस्न च भावपिण्डेनाधिकारः, नशेषेरप्रस्तुतत्वादिति, अस्यार्थस्यवैविक्त्येन प्रतिपादनार्थं शेषनामादिपिण्डोपन्यास इति । आह-मुमुक्षूणां सकलकर्म्मशृङ्खलाबन्धविमोक्षाय प्रशस्तेन भावपिण्डेन प्रयोजनं भवतु, अचित्तेन तु द्रव्यपिण्डेन किं प्रयोजनम् ? उच्यते, भावपिण्डोपचयस्य तदुपष्टम्मकत्वाद्, एतदेवाहमू. (८३) आहारउवहिसेज्जा पसत्थपिंडस्सुवग्गहं कुणा । आहारे अहिगारो अट्टहिं ठाणेहिं सो सुद्धो ॥
वृ . इहाचितद्रव्यपिण्डस्त्रिधा आहाररूप उपधिरूपः, शय्यारूपश्च एव चत्रिविधोऽपिप्रशस्तस्य-ज्ञानसंयमादिरूपस्य भावपिण्डस्य उपग्रहम्' उपष्टम्भं करोति, ततस्त्रिविधेनाप्येतेन यतीनां प्रयोजनं, केवलमिह ग्रन्थे 'अधिकार' प्रयोजनम, आहारे आहारपिंण्ड, स चाष्टभिः स्थाने उगमादिभिः परिशुद्धो यथा यतीनां गवेषणीयो भवति तथाऽभिधास्यते ॥ किं कारणमत्र विशेषत आहारपिण्डेन प्रयोजनम् ? अत आहमू. (८४) निव्वाणं खलु कज्जं नाणाइतिगं च कारणं तरस ।
निव्वाणकारणाणं च कारणं होड़ आहारो ॥
वृ . इह मुमुक्षूणां कार्यं कर्त्तव्यंनिर्वाणमेवन क्षेत्रं, खलुशब्दोऽवधारणार्थः, शेषस्य सर्वस्यापितुच्छत्वात्, 'तस्य' निर्वाणस्य कारणं 'ज्ञानादित्रिक' ज्ञानदर्शनचारित्ररूपं 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः इति वचनप्रामाण्यात्, ततस्तदवश्यमुपादेयम्, उपायसेवामन्तरेणोपयप्राप्यसम्भवात्, तेषां ज्ञानादीनां निर्वाणकारणानां कारणमष्टिभिः स्थानै परिशुद्ध आहार, आहारमन्तरेण धर्म्मकायस्थितेरसम्भवात्,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org