SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ २५८ पिण्डनियुक्तिः-मूलसूत्रं एतावन्तस्त्रिकसंयोगेष्वपि भङ्गा आनेतव्याः, यावन्नवकसंयोगे एको भङ्गः, तथा चाह - 'जाव चरिमो'त्ति तावद्विकसंयोगादिको मिश्रपिण्डो ज्ञातव्यो यावञ्चरमो नवकनिष्पन्न एकसङ्खयो मिश्रपिण्डः, स च लेपमधिकृत्योपदीते, इहाक्षस्य धुरिभ्रक्षितायां रजोरूपः पृथिवीकायो लगति, नदीमुत्तरतोऽप्कायः, लोहामयावपनघर्षणे तेजकास्यः, यत्र तेजस्तत्र वायुरिति वायुकायोऽपि, वनस्पतिकायो घूरेव, द्वित्रिचतुरिन्द्रियाः सम्पातिमाः सम्भवन्ति, महिष्यादिचर्ममयनाङिकादेच घृष्यमाणस्यावयरूपः पञ्चेन्द्रियपिण्डः, इत्थंभूतेन चाक्षस्य खञ्जनेन लेपः क्रियते इत्यसावुपयोगी, इतिशब्दो मिश्रपण्डिसमाप्तर्थः, एतावानेव द्रव्यपिण्डो मिश्रः सम्भवतीति।सम्पत्यस्यैव मिश्रपिण्डस्य कानिचिदाहरणान्युपदर्शयतिमू. (६९) सोवीरा गोरसासव वेसण भेसज्ज नेह साग फले। पोग्गल लोण गुलोयण नेगा पिंप्फा उसंजोगे॥ वृ. 'सौवीरं' काञ्जिकं,तच्याप्कायतेजस्कायवनस्पतिकायादिपिण्डरूपं, तथाहि-तत्राप्फायस्तएडुलघावनं तेजस्कायोऽवश्रावणं वनस्पतिकायस्तण्डुलावयवा यत्सम्पर्कतस्तण्डुलोदकं गडुलमुपजायते, लवणवयवाश्चकेचनतत्रलवणसम्मिश्रतण्डुलोदकादिभिःसहपतन्तिततस्तत्रपृथिवीकायोऽपिसम्भवतीति, एवमन्यत्रापि भावना खधिया, कर्त्तव्या, तथा 'गोरसं' तक्रादि, तच्चाप्कायत्रसकायसम्मिश्रंभवति, तथा 'आसवः' मद्यं, तच्चाप्कायतेजस्कायवनस्पतिकायादिपिण्डरूपं, 'वेसनं जीरकलवणादि, तञ्च वनस्पतिपृथिवीकायादिपिण्डरूपं, 'भेषजं' यवागूप्रभृति, तञ्चाप्कायतेजस्कायवनस्पतिकायपिण्डरूपं, 'स्नेहः' द्युतवशादि, तश्च तेजस्कायत्रसकायादिपिण्डरूपं, 'शा कः' वत्थुलभर्जिकादिरूपः, स च वनस्पतिकाय. पृथिवीकायसत्रकायादिपिण्डरूपः, ‘फलम्' आमकलादि, तश्चेह पकं ग्राह्यं ततस्तदपीत्थमेव भावनीयं, 'पोग्गलं' मासं,तदपीहपक्कंगृह्यते,ततस्तदपिशाकवद्भावनीय, लवणं प्रतीतं,तच्याप्कायपृथिवीकायरूपं, 'गुड्डौदनौ,प्रतीतौ, तावपि फलद्भावनीयो, एवमन्येऽप्यनेके यथासम्भवं संयोगेपिण्डाभावनीयाः, केवलंतं तंसंयोगंपरिभाव्य यो यत्र द्विकसंयोगादावन्तर्भवति स तत्र स्वयमेवीन्तर्भावनीयः॥ मू. (७०) तिन्नि उपएससमया ठाणाट्ठिइउ दविए तयाएसा। - चउपंचमपिंडाणंजत्थ जया तत्परूवणया॥ वृ. इह क्षेत्रकालपिण्डौ 'नाम ठवणापिंड दव्व खेत्ते य काल भावे य' इति गाथानिर्देशक्रमापेक्षया चतुर्थपञ्चमपिण्डौ,क्षेत्रम्-आकाशंकालः-समयविवर्तरूपः,तत्रत्रयःप्रदेशाःक्षेत्रप्रस्तावादाकाशप्रदेशाःतथा त्रय समयाः कालस्य निविभागा भागाः, तुशब्दो विशेषणार्थः स च परस्परमन्गता इति विशेषयति. 'चतुष्पञ्चमपिण्डयो-'क्षेत्रकालपिण्डयोःस्वरूपम्,इयमत्रभावना-त्रयःपरस्परमनुगताआकाशप्रदेशास्त्रस्यः परस्परमनुगताः समया यथाक्रमं क्षेत्रपिण्ड कालपिण्ड इति वेदितव्याः विग्रहणं चोपलक्षणं, तेन द्विचतुरादियोऽपि द्रष्टव्याः, तदेवं क्षेत्रकालपिण्डो निरुपचरितौं प्रतिपाद्य सम्प्रति तावेव सोपचारावभिधते'ठाणट्टिइउदविएतयाएसा' 'दविएत्ति' द्रव्ये पुद्गलक्सन्धरुपेस्थानम्-अवगाहःस्थितिः-कालतोऽवस्थानं स्थानं च स्थितिश्चस्थानस्थिती दाभ्यां स्थानस्थितितः अत्र पञ्चमी ‘यपः कम्णाधारे' इत्यनेन सूत्रेण ततोऽयमर्थः-स्थानंस्थितिंचाश्रित्ययस्तदाऽऽदेश:-क्षेत्रकालदेशःक्षेत्रकालप्राधान्यविवक्षयाक्षेत्रेण कालेन च व्यप-देशस्तस्माश्चतुष्पञ्चमपिण्डयोः परूपणा कार्या, किमुक्तं भवति ? स्कन्धरूपे पुदगलद्रव्येऽवगाहचिन्ता-माश्रित्य क्षेत्रप्राधान्यविवक्षया यदा क्षेत्रेण व्यपदेशो यथा एकप्रादेशिकोऽयं द्विप्रादेशिकोऽयं त्रिप्रादेशिक इत्यादि स इत्थं क्षेत्रतो व्यपदिश्यमानः क्षेत्रपिण्ड इत्युच्यते, क्षेत्रतो व्यपदिष्टः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003330
Book TitleAgam Suttani Satikam Part 26 Oghniryukti Pindniryukti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages436
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_oghniryukti, & agam_pindniryukti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy