SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ मूलं- ७० २५९ पिण्डः क्षेत्रपिण्डइतिव्युत्पत्तेः, यदातुकालतोऽवस्थानमधिकृत्यकालप्राधान्यविवक्षया कालेन व्यपदेशोयथाएकसामयिको द्विसामयिक इत्यादितदा सकालपिण्डोऽपि भण्यते, कालतो व्यपदिष्टः पिण्डः कालपिण्ड इति समासाऽऽश्रयणात्, अथवा विप्रदेशाद्यात्मकक्षेत्रपिण्डे यदिवा त्रिसमयाद्यात्मके कालपिण्डे यदवस्थितं पुद्गलद्रव्यं तत्तदादेशात् क्षेत्रकालव्यपदेशात्-क्षेत्रकालोपचारादित्यर्थः, यथाक्रमं क्षेत्रपिण्डः कालपिण्डः । प्रकारान्तरेण सोपचारौ क्षेत्रकालपिण्डावाह- ' जत्थजया तत्परूवणया' 'यत्र' वसत्यादौ यदा प्रथमपौरुष्यादौ 'तत्परूपणा' पिण्डप्ररूपणा क्रियते स पिण्डः प्ररूप्यमाणो नामादिपिण्डो वसत्यादिक्षेत्रमाधिकृत्य क्षेत्रपिण्ड उच्यते,यथाऽमुकवसतिरूपक्षेत्रपिण्ड इति, प्रथमौरुष्यादिकं तु कालमधिकृत्य कालपिण्डो यथाऽमुकप्रथमप्रहरादिरूपःकालपिण्डइति॥‘इहतिन्निउएएससमया' इत्यंत्रपर आक्षेपमाह-ननुमूर्त्तेषुद्रव्येषुपरस्परमनुवेधतः सङ्ख्याबाहुल्यतश्च पिण्ड इति व्यपदेशो घटते, क्षेत्रकालयोस्तु न परस्परमनुवेधो नापि काले सङ्ख्याबाहुल्यं, तथाहि-क्षेत्रमाकाशमुच्यते 'खेत्तं खलु आगास' मिति वचनात्, तञ्च नित्यमकृत्रिमत्त्वात्, ततः सदैव विविक्त प्रदेशात्मकतयाव्यवस्थितामिति कथमाकाशप्रदेशानामनुवेधः ?, एकत्र मिश्रणाभावात्, कालोऽपि पूर्वापरसमयविकिक्तो वार्त्तमानिकसमयरूपएएवपारमार्थिकः, पूर्वापरसमयोर्विनष्टानुत्पन्नत्वेनपरमार्थतोऽसत्त्वात्, संताच परस्परमनुवेधः सङ्ख्याबाहुल्यं वा नासतं सदसतांवा, ततः कालद्वयमपि नोपपद्यते इति कथं तत्र पिण्ड इति व्यपदेशः ?, अत्र प्रतिविधानमभिधित्सुराह मू. (७१) मुत्तदविएसु जुज्जइ जइ अन्नोऽन्नाणुवेहओ पिंडो । मुत्तिविमुत्सुविसो जुन ननु संखबाहुल्ला ॥ वृ. ननु यदि मूर्त्तेषु द्रव्येषु 'अन्योऽन्यानुवेधतः' परस्परानुवेधतः, 'संखवाहुल्ला' इत्यप्यत्र सम्बध्यते, ‘सङ्ख्याबाहुल्पतश्च’ द्रयादिसङ्ख्यासम्भवतश्च पिण्ड इति व्यपदेशो 'युज्यते' योगमुपौति घटते इत्यर्थः, तर्हि स पिण्ड इति व्यपदेशः 'मूत्तिविमुक्ते ष्वपि' मूत्तिरहितेष्वपि अमूत्तेष्वित्यर्थः, क्षेत्र प्रदेशकालसमयेषु युज्यते, तत्रापि पिण्डशब्दप्रवृत्तिनिमित्तस्य परस्परानुवेधस्य सङ्ख्याबाहुलस्य च सम्भवात् तथाहि सर्वेऽपि क्षेत्रप्रदेशाः परस्परंनैरन्तर्यलक्षणेन सम्बन्धेन सम्बद्धा अवितिष्ठन्ते, ततोयथावादरनिप्पादितिचतुरस्रादिधने परस्परनैरन्तर्यरूपानुवेधनः शङ्ख्याबाहुल्यतश्च इति व्यपदेशः प्रवर्त्तते तथा क्षेत्रप्रदेशेष्वपि पिण्डशब्दप्रर्वत्तमानोनविरुध्यते, तत्रापिपूरस्परनैरन्तर्यरूपस्यानुवेधस्य सङ्ख्याबाहुल्यस्यचसम्भवात्, तथाकालोऽपि परमार्थतः सन् द्रव्यंच, ततः सोऽपि परिणामी, सतः सर्वस्य परिणामित्वाभ्युपगमाद्, अन्यथा सत्त्वायोगात्, एतश्चान्यत्रधर्मसङ्ग्रहणिटीकादौ विभावितमिति नेहभूयो विभाव्यते, ग्रन्थगौरवभयात्, परिणामी चान्वयी तेन तेन रूपेण परिणमान उच्यते, ततोऽस्ति वार्त्तमानिकस्यापि समयस्य पूर्वापरसमथाभ्यामनुवेधः, केवलं तौ पूर्व्वापरसमयावसन्तावपि बुद्धया सन्ताविव विवक्षितौ, ततः सङ्ख्याबाहुल्यमपि तत्रास्तीति पिण्डशब्दप्रवृत्त्यवियरोधः । सम्प्रति क्षेत्रे पिण्डशब्दप्रवृत्त्यविरोधं दृष्टान्तद्वारेण समर्थयतेमू. (७२) जह तिपसो खंधो पएसेसु जो समोगाढो । अविभागिण संबद्धो कहं तु नेवं तदाधारो ? वृ. यथा कचिदनिर्दिष्टव्यक्तिकः 'त्रिप्रदेशिकः' त्रिपरमाण्वात्मकः स्कन्धस्त्रिष्वप्याकाशप्रदेशोववगाढो न त्वेकस्मिन् द्वयोर्वेत्यपिशब्दार्थः 'अविभागेन सम्बन्धो' विभागो - 'नैरन्तर्याभावस्तदभावोऽविभागो नैरन्तर्यमित्यर्थः तेन सम्बन्धो नैरन्तर्यसम्बन्धसम्बद्ध इति भावः, , पिण्ड इति व्यपरिदश्यते, नैरन्तर्येणावस्थानभावात्, सङ्ख्याबाहुल्यतश्च, एवं - त्रिप्रदेशावगाढत्रिपरमाणुस्कन्ध इव तदाधारः - त्रिपरमाणुस्कन्धाधार For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003330
Book TitleAgam Suttani Satikam Part 26 Oghniryukti Pindniryukti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages436
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_oghniryukti, & agam_pindniryukti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy