________________
२५६
पिण्डनिर्युक्तिः- मूलसूत्रं
सम्बध्यते, तयोऽयमर्थः तेषां द्विन्द्रियादीनां स्वजातौ स्वजातौ सपिण्डो वेदितव्यः, सोऽपि चत्रिधा, तद्यथासचित्तो मिश्रोऽचित्तच, तत्र सचित्तस्त्रिप्रभृतीनां अक्षादीनां जीवतामेकत्र संश्लेषण मिलनं, मिश्रस्तेषामेवकेषाञ्चितज्जीवतां केषाञ्चिन्मृतानमेकत्र संश्लेषः, अचित्तोजीवविप्रमुक्तानांतेषामेवाक्षादीनामेकत्रमिलनं, तेन च पिण्डेन अत्र जातावेकवचनं 'तैः' द्वीन्द्रियादिपिण्डै: 'कार्ये' प्रयोजनम्, 'इदं' वक्ष्यमाणम् ॥ मू. (६३) astrपरिभोगो अक्खाण ससिप्पसंखमाईणं । तेइंदियाण उद्देहिगादिजं वा वए वेज्जो ॥ चउरिंदियाण मच्छियपरिहारो आसमच्छिया चेव ॥
मू. (६४ / १)
वृ. इह साधोर्नीन्द्रियादीनां यथासम्भवं प्रयोजनं द्विधा, तद्यथा शब्देन शरीरेण च, तत्र शब्देन प्रयोजनं शुकनादिपरिभावने, तथाहि-शङ्खशब्दमाकर्ण्यमानंप्रशस्तं महाशकुनमामन्ति शाकुनिकाः, शरीरेण प्रयोजनं त्रिधा, तद्यथा- सम्पूर्णेन शरीरेण तदेकदेशेन शरीरसम्पर्कसमुद्भतेन चान्येन वस्तुना, तत्रामीषां चतुर्णामपि प्रयोजनानां मध्ये किमपि केषाञ्चित्साधूनामपयोगवद्भवति, केषाञ्चित्तु चत्वार्यपि, तत्र द्धीन्द्रियाणां सम्पूर्णशरीरेण प्रयोजनं साक्षादभिधत्ते - द्वीन्द्रियाणां 'परिभोगः ' उपयोगोऽक्षाणां 'सुशुक्ति शङ्खादीनां' शुक्तिशङ्कादिसहितानां, तत्र 'अक्षा:' चन्दकाः 'शुक्त यः' सुप्रतीताः पत्र स्वातिनक्षत्रसम्भविजलम्पर्कतो मौक्तिकानि जायन्ते, 'शङ्काः ' शम्बूकाः, आदिशब्दात्कपर्व्वादिपरिग्रहाः, तत्राक्षाणां कपर्दकादीनां चोपयोगः समवसरणस्थापनादौ शङ्खशुक्ति कानां चक्षुःपुष्पकाद्यपनोदादौ, त्रीन्द्रियाणां परिभोगमाह-त्रीन्द्रियाणां परिभोग उद्देदिकादि, इह उद्देहिकाशब्देन उद्देहिकाकृतवल्मीकमृत्तिका परिगृह्यते, आदिशब्दादन्यस्याप्येवंविधस्य त्रीन्द्रियमृत्तिकादेः परिग्रह- सपरिभोगः परिभोगविपयत्वात्, यद्वाऽत्रकर्म्मसाधनः परिभोगशब्दो विवक्षणीयः परिभुज्यतेइति परिभोगः- परिभुज्यमानता (स) चउद्देहिकामृत्तिकादेः सर्पदंशादौ दाहोपशमनाय वेदितव्यः, यद्वा-किमपि वैद्यस्त्रीन्द्रियविशेषशरीरादिकं वाह्यप्रलेपादिनिमित्तं वदेत् तद्वा परिभोगस्त्रीन्द्रियाणां तथा चतुरिन्द्रियाणां मध्ये भक्षिकाणां परिहारः पुरीषं परिभोगः, तद्भि धमननिषेधादौ प्रत्यलमुपवर्ण्यते, यद्वाअश्वमक्षिका उपज्युते अक्षिभ्योऽक्षरसमुद्धरणाय चैवेति एवंप्राय चतुरिन्द्रियपरिभोगसमुचयार्थः ॥ पंचेंदियपिंडंमि उ अव्ववहारी उनेरइया ॥
मू. (६४/२) वृ. पञ्चेन्द्रियपिण्डे उपयोगविषयतया परिभाव्यमाने सर्वोऽपि तिर्यगादिपिण्डो यथायोगमुपयोगं समायाति, नैरयिकाः पुनः 'अव्यवहारिणः' अनुपयोगनि ॥ तत्र पञ्चेन्द्रियतिर्यगुपयोगमाहमू.. (६५) चम्मट्ठिदंतनहरोमसिंगअविलाइछगणगोमुत्ते ।
वीरदधिमाइयाण य पंचिंदियतिरियपरिभोगो ||
वृ. पञ्चेन्द्रियतिरथां परिभोगश्रर्मास्थिदन्तखरोमश्रृङ्गाविलादिच्छगणणोमूत्रे क्षीरदध्यादीनां च तत्र चर्म्मणः परिभोग- क्षुरादिधरणार्थ कोशकादिकरणं, अस्थ्नो गृछ्रनखिकादेः, तद्धि शरीरस्फोटापनोदाद्यर्थं वाह्यादौ वध्यते, दन्तस्य शूकरदंष्टायाः, साहिदष्टिषुपुष्पिकापनोदायघषित्वा क्षिप्यते, नखानां जीवविशेषसत्कानां, तन्निपन्नो, हिकम्बलः साधूनामुपयोगवान्, श्रृङ्गमहिष्यादिसत्कस्य, तद्विमार्गे गच्छात्परिभ्रष्टानां . साधूनां मीलनाय वाद्यते, तथाऽविलादिछगणस्य गङ्गरिकाया गड्डुकस्य वा, आदिशब्दादन्येषां च पुरीषस्य, गोमूत्रस्य पामाद्युपमर्दने, क्षीरदीनां भोजने ॥ सम्प्रति मनुष्यस्य सचित्तादिभेदात् त्रिविधस्याप्युपयोगमाहमू. (६६) सच्चित्ते पव्वाण पंथुवएसे य भिक्खदानाई । सीसट्ठिग अच्चित्ते मीसट्ठिसक्खपहपुच्छा ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org